हाकिनीश्वराष्टोत्तरसहस्रनामस्तोत्र परनाथाष्टोत्तरसहस्रनामस्तोत्रं च

हाकिनीश्वराष्टोत्तरसहस्रनामस्तोत्र परनाथाष्टोत्तरसहस्रनामस्तोत्रं च

श्रीआनन्दभैरव उवाच । आनन्दभैरवि प्राणवल्लभे जगदीश्वरि । तव प्रसादवाक्येन श्रुतं नामसहस्रकम् ॥ १ ॥ हाकिन्याः कुलयोगिन्याः परमाद्भुतमङ्गलम् । इदानीं श्रोतुमिच्छामि परनाथस्य वाञ्छितम् ॥ २ ॥ सहस्रनामयोगाङ्गमष्टोत्तरसमाकुलम् । भ्रूपद्मभेदनार्थाय हाकिनीयोगसिद्धये ॥ ३ ॥ परनाथस्य योगाधिसिद्धये कुलभैरवि । कृपया वद मे प्रीता धर्मसिद्धिनिबन्धनात् ॥ ४ ॥ मम देहरक्षणाय पातिव्रात्यप्रसिद्धये । महाविषहरे शीघ्रं वद योगिनि विस्तरात् ॥ ५ ॥ त्वत्प्रसादात् खेचराणां भैरवाणां हि योगिनाम् । नाथोऽहं जगतीखण्डे सुधाखण्डे वद प्रिये ॥ ६ ॥ पुनः पुनः स्तौमि नित्ये त्वमेव सुप्रिया भव । श्रीआनन्दभैरवी उवाच अथ योगेश्वर प्राणनाथ योगेन्द्र सिद्धिद ॥ ७ ॥ इदानीं कथये तेऽहं निजदेहसुसिद्धये । सर्वदा हि पठस्व त्वं कालमृत्युं वशं नय ॥ ८ ॥ कृपया तव नाथस्य स्नेहपाशनियन्त्रिता । तवाज्ञापालनार्थाय कालकूटविनाशनात् ॥ ९ ॥ भुक्तिमुक्तिक्रियाभक्तिसिद्धये तच्छृणु प्रभो । नित्यामृतखण्डरसोल्लासनामसहस्रकम् ॥ १० ॥ अष्टोत्तरं प्रयत्नेन योगिनां हि हिताय च । कथयामि सिद्धनामज्ञाननिर्णयसाधनम् ॥ ११ ॥ ॐ ह्सौ सां परेशश्च पराशक्तिः प्रियेश्वरः । शिवः परः पारिभद्रः परेशो निर्मलोऽद्वयः ॥ १२ ॥ स्वयंज्योतिरनाद्यन्तो निर्वीकारः परात्परः । परमात्मा पराकाशोऽपरोऽप्यपराजितः ॥ १३ ॥ पार्वतीवल्लभः श्रीमान् दीनबन्धुस्त्रिलोचनः । योगात्मा योगदः सिद्धेश्वरो वीरः स्वरान्तकः ॥ १४ ॥ कपिलेशो गुरुर्गीतः स्वप्रियो गीतमोहनः । गभीरो गाधनस्थश्च गीतवाद्यप्रियङ्करः ॥ १५ ॥ गुरुगीतापवित्रश्च गानसम्मानतोज्झितः । गयानाथो दत्तनाथो दत्तात्रेयपतिः शिवः ॥ १६ ॥ आकाशवाहको नीलो नीलाञ्जनशरीरधृक् । खगरूपी खेचरश्च गगनात्मा गभीरगः ॥ १७ ॥ गोकोटिदानकर्त्ता च गोकोटिदुग्धभोजनः । अभयावल्लभः श्रीमान् परमात्मा निराकृतिः ॥ १८ ॥ सङ्ख्याधारी निराकारी निराकरणवल्लभः । वाय्वाहारी वायुरूपी वायुगन्ता स्ववायुपाः ॥ १९ ॥ वातघ्नो वातसम्पत्तिर्वाताजीर्णो वसन्तवित् । वासनीशो व्यासनाथो नारदादिमुनीश्वरः ॥ २० ॥ नारायणप्रियानन्दो नारायणनिराकृतिः । नावमालो नावकर्ता नावसंज्ञानधारकः ॥ २१ ॥ जलाधारो ज्ञेय इन्द्रो निरिन्द्रियगुणोदयः । तेजोरूपी चण्डभीमो तेजोमालाधरः कुलः ॥ २२ ॥ कुलतेजा कुलानन्दः शोभाढ्यो वेदरश्मिधृक् । किरणात्मा कारणात्मा कल्पच्छायापतिः शशी ॥ २३ ॥ परज्ञानी परानन्ददायको धर्मजित्प्रभुः । त्रिलोचनाम्भोजराजो दीर्घनेत्रो मनोहरः ॥ २४ ॥ चामुण्डेशः प्रचण्डेशः पारिभद्रेश्वरो हरः । गोपिता मोहितो गोप्ता गुप्तिस्थो गोपपूजितः ॥ २५ ॥ गोपनाख्यो गोधनेशश्च चारुवक्त्रो दिगम्बरः । पञ्चाननः पञ्चमीशो विशालो गरुडेश्वरः ॥ २६ ॥ अर्धनारीश्वरेशश्च नायिकेशः कुलान्तकः । संहारविग्रहः प्रेतभूतकोटिपरायणः ॥ २७ ॥ अनन्तेशोऽप्यनन्तात्मा मणिचूडो विभावसुः । कालानलः कालरूपी वेदधर्मेश्वरः कविः ॥ २८ ॥ भर्गः स्मरहरः शम्भुः स्वयम्भुः पीतकुण्डलः । जायापतिर्याजजूको विलाशीशः शिखापतिः ॥ २९ ॥ पर्वतेशः पार्वणाख्यः क्षेत्रपालो महीश्वरः । वाराणसीपतिर्मान्यो धन्यो वृषसुवाहनः ॥ ३० ॥ अमृतानन्दितो मुग्धो वनमालीश्वरः प्रियः । काशीपतिः प्राणपतिः कालकण्ठो महेश्वरः ॥ ३१ ॥ कम्बुकण्ठः क्रान्तिवर्गो वर्गात्मा जलशासनः । जलबुद्बुदवक्षश्च जलरेखामयः पृथुः ॥ ३२ ॥ पार्थिवेशो महीकर्ता पृथिवीपरिपालकः । भूमिस्थो भूमिपूज्यश्च क्षौणीवृन्दारकार्चीतः ॥ ३३ ॥ शूलपाणिः शक्तिहस्तो पद्मगर्भो हिरण्यभृत् । भूगर्तसंस्थितो योगी योगसम्भवविग्रहः ॥ ३४ ॥ पातालमूलकर्ता च पातालकुलपालकः । पातालनागमालाढ्यो दानकर्ता निराकुलः ॥ ३५ ॥ भ्रूणहन्ता पापराधिनागकः कालनागकः । कपिलोग्रतपःप्रीतो लोकोपकारकृन्नृपः ॥ ३६ ॥ नृपार्चीतो नृपार्थस्थो नृपार्थकोटिदायकः । पार्थिवार्चनसन्तुष्टो महावेगी परेश्वरः ॥ ३७ ॥ परापारापारतरो महातरुनिवासकः । तरुमूलस्थितो रुद्रो रुद्रनामफलोदयः ॥ ३८ ॥ रौद्रीशक्तिपतिः क्रोधी कोपनष्टो विरोचनः । असंख्येयाख्ययुक्तश्च परिणामविवर्जितः ॥ ३९ ॥ प्रतापी पवनाधारः प्रशंस्यः सर्वनिर्णयः । वेदजापी मन्त्रजापी देवता गुरुरीश्वरः ॥ ४० ॥ श्रीनाथो गुरुदेवश्च परनाथो गुरुः प्रभुः । परापरगुरुर्ज्ञानी तन्त्रज्ञोऽर्कशतप्रभाः ॥ ४१ ॥ तीर्क्ष्यो गमनकारी च कालभावी निरञ्जनः । कालकूटानलः श्रोतः पुञ्जपानपरायणः ॥ ४२ ॥ परिवारगणाढ्यश्च पाराशाषिसुतस्थितः । स्थितिस्थापकरूपश्च रूपातीतोऽमलापतिः ॥ ४३ ॥ पतीशो भागुरिश्चैव कालश्चैव हरिस्तथा । वैष्णवः प्रेमसिन्धुश्च तरलो वातवित्तहा ॥ ४४ ॥ भावस्वरूपो भगवान् निराकाशः सनातनः । अव्ययः पुरुषः साक्षी चाच्युतो मन्दराश्रयः ॥ ४५ ॥ मन्दराद्रिक्रियानन्दो वृन्दावनतनूद्भवः । वाच्यावाच्यस्वरूपश्च निर्मलाख्यो विवादहा ॥ ४६ ॥ वैद्यो वेदपरो ग्रन्थो वेदशास्त्रप्रकाशकः । स्मृतिमूलो वेदयुक्तिः प्रत्यक्षकुलदेवता ॥ ४७ ॥ परीक्षको वारणाख्यो महाशैलनिषेवितः । विरिञ्चप्रेमदाता च जन्योल्लासकरः प्रियः ॥ ४८ ॥ प्रयागधारी पयोऽर्थी गाङ्गागङ्गाधरः स्मरः । गङ्गाबुद्धिप्रियो देवो गङ्गास्नाननिषेवितः ॥ ४९ ॥ गङ्गासलिलसंस्थो हि गङ्गाप्रत्यक्षसाधकः । गिरो गङ्गामणिमरो मल्लिकामालधारकः ॥ ५० ॥ मल्लिकागन्धसुप्रेमो मल्लिकापुष्पधारकः । महाद्रुमो महावीरो महाशूरो महोरगः ॥ ५१ ॥ महातुष्टिर्महापुष्टिर्महालक्ष्मीशुभङ्करः । महाश्रमी महाध्यानी महाचण्डेश्वरो महान् ॥ ५२ ॥ महादेवो महाह्लादो महाबुद्धिप्रकाशकः । महाभक्तो महाशक्तो महाधूर्तो महामतिः ॥ ५३ ॥ महाच्छत्रधरो धारोधरकोटिगतप्रभा । अद्वैतानन्दवादी च मुक्तो भङ्गप्रियोऽप्रियः ॥ ५४ ॥ अतिगन्धश्चातिमात्रो निणीतान्तः परन्तपः । निणीतोऽनिलधारी च सूक्ष्मानिलनिरूपकः ॥ ५५ ॥ महाभयङ्करो गोलो महाविवेकभूषणः । सुधानन्दः पीठसंस्थो हिङ्गुलादेश्वरः सुरः ॥ ५६ ॥ नरो नागपतिः क्रूरो भक्तानां कामदः प्रभुः । नागमालाधरो धर्मी नित्यकर्मी कुलीनकृत् ॥ ५७ ॥ शिशुपालेश्वरः कीर्तिविकारी लिङ्गधारकः । तृप्तानन्दो हृषीकेशेश्वरः पाञ्चालवल्लभः ॥ ५८ ॥ अक्रूरेशः पतिः प्रीतिवर्धको लोकवर्धकः । अतिपूज्यो वामदेवो दारुणो रतिसुन्दरः ॥ ५९ ॥ महाकालः प्रियाह्लादी विनोदी पञ्चचूडधृक् । आद्याशक्तिपतिः पान्तो विभाधारी प्रभाकरः ॥ ६० ॥ अनायासगतिर्बुद्धिप्रफुल्लो नन्दिपूजितः । शीलामूर्तीस्थितो रत्नमालामण्डितविग्रहः ॥ ६१ ॥ बुधश्रीदो बुधानन्दो विबुधो बोधवर्धनः । अघोरः कालहर्ता च निष्कलङ्को निराश्रयः ॥ ६२ ॥ पीठशक्तिपतिः प्रेमधारको मोहकारकः । असमो विसमो भावोऽभावो भावो निरिन्द्रियः ॥ ६३ ॥ निरालोको बिलानन्दो बिलस्थो विषभुक्पतिः । दुर्गापतिर्दुर्गहर्ता दीर्घसिद्धान्तपूजितः ॥ ६४ ॥ सर्वो दुर्गापतिवीप्रो विप्रपूजापरायणः । ब्राह्मणानन्दनिरतो ब्रह्मकर्मसमाधिवित् ॥ ६५ ॥ विश्वात्मा विश्वभर्ता च विश्वविज्ञानपूरकः । विश्वान्तःकारणस्थश्च विश्वसंज्ञाप्रतिष्ठितः ॥ ६६ ॥ विश्वाधारो विश्वपूज्यो विश्वस्थोऽचीत इन्द्रहा । अलाबुभक्षणः क्षान्तिरक्षो रक्षनिवारणः ॥ ६७ ॥ तितिक्षारहितो हूतिः पुरुहूतप्रियङ्करः । पुरुषः पुरुषश्रेष्ठो विलालस्थः कुलालहा ॥ ६८ ॥ कुटिलस्थो विधिप्राणो विषयानन्दपारगः । ब्रह्मज्ञानप्रदो ब्रह्मज्ञानी ब्रह्मगुणान्तरः ॥ ६९ ॥ पालकेशो विराजश्च वज्रदण्डो महास्त्रधृक् । सर्वास्त्ररक्षकः श्रीदो विधिबुद्धिप्रपूरणः ॥ ७० ॥ आर्यपुत्रो देवराजपूजितो मुनिपूजितः । गन्धर्वपूजितः पूज्यो दानवज्ञाननाशनः ॥ ७१ ॥ अप्सरोगणपूज्यश्च मर्त्यलोकसुपूजितः । मृत्युजिद्रिपूजित् प्लक्षो मृत्युञ्जय इषुप्रियः ॥ ७२ ॥ त्रिबीजात्मा नीलकण्ठः क्षितीशो रोगनाशनः । जितारिः प्रेमसेव्यश्च भक्तिगम्यो निरुद्यमः ॥ ७३ ॥ निरीहो निरयाह्लादः कुमारो रिपुपूजितः । अजो देवात्मजो धर्मोऽसन्तो मन्दमासनः ॥ ७४ ॥ मन्दहासो मन्दनष्टो मन्दगन्धसुवासितः । माणिक्यहारनिलयो मुक्ताहारविभूषितः ॥ ७५ ॥ मुक्तिदो भक्तिदश्चैव निर्वाणपददानदः । निर्विकल्पो मोदधारी निरातङ्को महाजनः ॥ ७६ ॥ मुक्ताविद्रुममालाढ्यो मुक्तादामलसत्कटिः ॥ ७७ ॥ रत्नेश्वरो धनेशश्च धनेशप्राणवल्लभः । धनजीवी कर्मजीवी संहारविग्रहोज्ज्वलः ॥ ७८ ॥ संङ्केतार्थज्ञानशून्यो महासङ्केतपण्डितः । सुपण्डितः क्षेमदाता भवदाता भवान्वयः ॥ ७९ ॥ किङ्करेशो विधाता च विधातुः प्रियवल्लभः । कर्ता हर्ता कारयिता योजनायोजनाश्रयः ॥ ८० ॥ युक्तो योगपतिः श्रद्धापालको भूतशङ्करः । भूताध्यक्षो भूतनाथो भूतपालनतत्परः ॥ ८१ ॥ विभूतिदाता भूतिश्च महाभूतिविवर्धनः । महालक्ष्मीश्वरः कान्तः कमनीयः कलाधरः ॥ ८२ ॥ कमलाकान्त ईशानो यमोऽमरो मनोजवः । मनयोगी मानयोगी मानभङ्गो निरूपणः ॥ ८३ ॥ अव्यक्तानन्दनिरतो व्यक्ताव्यक्तनिरूपितः । आत्मारामपतिः कृष्णपालको रामपालकः ॥ ८४ ॥ लक्षणेशो लक्षभर्ता भावतीशः प्रजाभवः । भरताख्यो भारतश्च शत्रुघ्नो हनुमान् कपिः ॥ ८५ ॥ कपिचूडामणिः क्षेत्रपालेशो दिक्करान्तरः । दिशांपतिदीशीशश्च दिक्पालो हि दिगम्बरः ॥ ८६ ॥ अनन्तरत्नचूडाढ्यो नानारत्नासनस्थितः । संविदानन्दनिरतो विजयो विजयात्मजः ॥ ८७ ॥ जयाजयविचारश्च भावचूडामणीश्वरः । मुण्डमालाधरस्तन्त्री सारतन्त्रप्रचारकः ॥ ८८ ॥ संसाररक्षकः प्राणी पञ्चप्राणो महाशयः । गरुडध्वजपूज्यश्च गरुडध्वजविग्रहः ॥ ८९ ॥ गारुडीशो मन्त्रिणीशो मैत्रप्राणहिताकरः । सिद्धिमित्रो मित्रदेवो जगन्नाथो नरेश्वरः ॥ ९० ॥ नरेन्द्रेश्वरभावस्थो विद्याभावप्रचारवित् । कालाग्निरुद्रो भगवान् प्रचण्डेश्वरभूपतिः ॥ ९१ ॥ अलक्ष्मीहारकः क्रुद्धो रिपूणां क्षयकारकः । सदानन्दमयो वृद्धो धर्मसाक्षी सुधांशुधृक् ॥ ९२ ॥ साक्षरो रिपुवर्गस्थो दैत्यहा मुण्डधारकः । कपाली रुण्डमालाढ्यो महाबीजप्रकाशकः ॥ ९३ ॥ अजेयोग्रपतिः स्वाहावल्लभो हेतुवल्लभः । हेतुप्रियानन्ददाता हेतुबीजप्रकाशकः ॥ ९४ ॥ श्रुतिक्षिप्रमणिरतो ब्रह्मसूत्रप्रबोधकः । ब्रह्मानन्दो जयानन्दो विजयानन्द एव च ॥ ९५ ॥ सुधानन्दो बुधानन्दो विद्यानन्दो बलीपतिः । ज्ञानानन्दो विभानन्दो भावानन्दो नृपासनः ॥ ९६ ॥ सर्वासनोग्रानन्दश्च जगदानन्ददायकः । पूर्णानन्दो भवानन्दो ह्यमृतानन्द एव च ॥ ९७ ॥ शीतलोऽशीतिवर्षस्थो व्यवस्थापरिचायकः । शीलाढ्यश्च सुशीलश्च शीलानन्दो पराश्रयः ॥ ९८ ॥ सुलभो मधुरानन्दो मधुरामोदमादनः । अभेद्यो मूत्रसञ्चारी कलहाख्यो विषङ्कटः ॥ ९९ ॥ वाशभाढ्यः परानन्दो विसमानन्द उल्बणः । अधिपो वारुणीमत्तो मत्तगन्धर्वशासनः ॥ १०० ॥ शतकोटिशरुश्रीदो वीरकोटिसमप्रभः । अजाविभावरीनाथो विषमापूष्णिपूजितः ॥ १०१ ॥ विद्यापतिर्वेदपतिरप्रमेयपराक्रमः । रक्षोपतिर्महावीरपतिः प्रेमोपकारकः ॥ १०२ ॥ वारणाविप्रियानन्दो वारणेशो विभुस्थितः । रणचण्डो रशेशश्च रणरामप्रियः प्रभुः ॥ १०३ ॥ रणनाथी रणाह्लादः संग्रामप्रेतविग्रहः । देवीभक्तो देवदेवो दिवि दारुणतत्परः ॥ १०४ ॥ खड्गी च कवची सिद्धः शूली धूलिस्त्रिशूलधृक् । धनुष्मान् धर्मचित्तेशोऽचिन्ननागसुमाल्यधृक् ॥ १०५ ॥ अर्थोऽनर्थप्रियोऽप्रायो मलातीतोऽतिसुन्दरः । काञ्चनाढ्यो हेममाली काञ्चनश‍ृङ्गशासनः ॥ १०६ ॥ कन्दर्पजेता पुरुषः कपित्थेशोऽर्कशेखरः । पद्मगन्धोऽतिसद्गन्धश्चन्द्रशेखरभृत् सुखी ॥ १०७ ॥ पवित्राधारनिलयो विद्यावद्वरबीजभृत् । कन्दर्पसदृशाकारो मायाजिद् व्याघ्रचर्मधृक् ॥ १०८ ॥ अतिसौन्दर्यचूडाढ्यो नागचित्रमणिप्रियः । अतिगण्डः कुम्भकर्णः कुरुजेता कवीश्वरः ॥ १०९ ॥ एकमुखो द्वितुण्डश्च द्विविधो वेदशासनः । आत्माश्रयो गुरुमयो गुरुमन्त्रप्रदायकः ॥ ११० ॥ शौरीनाथो ज्ञानमार्गी सिद्धमार्गी प्रचण्डगः । नामगः क्षेत्रगः क्षेत्रो गगनग्रन्थिभेदकः ॥ १११ ॥ गाणपत्यवसाच्छन्नो गाणपत्यवसादवः । गम्भीरोऽतिसुसूक्ष्मश्च गीतवाद्यप्रियंवदः ॥ ११२ ॥ आह्लादोद्रेककारी च सदाह्लादी मनोगतिः । शिवशक्तिप्रियः श्यामवर्णः परमबान्धवः ॥ ११३ ॥ अतिथिप्रियकरो नित्यो गोविन्देशो हरीश्वरः । सर्वेशो भाविनीनाथो विद्यागर्भो विभाण्डकः ॥ ११४ ॥ ब्रह्माण्डरूपकर्ता च ब्रह्माण्डधर्मधारकः । धर्मार्णवो धर्ममार्गी धर्मचिन्तासुसिद्धिदः ॥ ११५ ॥ अस्थास्थितो ह्यास्तिकश्च स्वस्तिस्वच्छन्दवाचकः । अन्नरूपी अन्नकस्थो मानदाता महामनः ॥ ११६ ॥ आद्याशक्तिप्रभुर्मातृवर्णजालप्रचारकः । मातृकामन्त्रपूज्यश्च मातृकामन्त्रसिद्धिदः ॥ ११७ ॥ मातृप्रियो मातृपूज्यो मातृकामण्डलेश्वरः । भ्रान्तिहन्ता भ्रान्तिदाता भ्रान्तस्थो भ्रान्तिवल्लभः ॥ ११८ ॥ इत्येतत् कथितं नाथ सहस्रनाममङ्गलम् । अष्टोत्तरं महापुण्यं स्वर्गीयं भुवि दुर्लभम् ॥ ११९ ॥ यस्य श्रवणमात्रेण नरो नारायणो भवेत् । अप्रकाश्यं महागुह्यं देवानामप्यगोचरम् ॥ १२० ॥ फलं कोटिवर्षशतैर्वक्तुं न शक्यते बुधैः । यस्य स्मरणमाकृत्य योगिनीयोगपारगः ॥ १२१ ॥ सोक्षणः सर्वसिद्धिनां त्रैलोक्ये सचराचरे । देवाश्च बहवः सन्ति योगिनस्तत्त्वचिन्तकाः ॥ १२२ ॥ पठनाद्धारणाज्ज्ञानी महापातकनाशकः । आयुरारोग्यसम्पत्तिबृंहितो भवति ध्रुवम् ॥ १२३ ॥ संग्रामे ग्रहभीतौ च महारण्ये जले भये । वारमेकं पठेद्यस्तु स भवेद् देववल्लभः ॥ १२४ ॥ सर्वेषां मानसम्भङ्गी योगिराड् भवति क्षणात् । पूजां कृत्वा विशेषेण यः पठेन्नियतः शुचिः ॥ १२५ ॥ स सर्वलोकनाथः स्यात् परमानन्दमाप्नुयात् । एकपीठे जपेद्यस्तु कामरूपे विशेषतः ॥ १२६ ॥ त्रिकालं वाथ षट्कालं पठित्वा योगिराड् भवेत् । आकाशगामिनीं सिद्धिं गुटिकासिद्धिमेव च ॥ १२७ ॥ प्राप्नोति साधकेन्द्रस्तु राजत्वं हि दिने दिने । सर्वदा यः पठेन्नित्यं सर्वज्ञः सुकुशाग्रधीः ॥ १२८ ॥ अवश्यं योगिनां श्रेष्ठः कामजेता महीतले । अज्ञानी ज्ञानवान् सद्योऽधनी च धनवान् भवेत् ॥ १२९ ॥ सर्वदा राजसम्मानं पञ्चत्वं नास्ति तस्य हि । गले दक्षिणबाहौ च धारयेद्यस्तु भक्तितः ॥ १३० ॥ अचिरात्तस्य सिद्धिः स्यान्नात्र कार्या विचारणा । अवधूतेश्वरो भूत्त्वा राजते नात्र संशयः ॥ १३१ ॥ अरक्तचन्दनयुक्तेन हरिद्राकुङ्कुमेन च । सेफालिकापुष्पदण्डैर्दलसङ्कुलवर्जितैः ॥ १३२ ॥ मिलित्वा यो लिखेत् स्तोत्रं केवलं चन्दनाम्भसा । स भवेत् पार्वतीपुत्रः क्षणाद्वा द्वादशाहनि ॥ १३३ ॥ एकमासं द्विमासं वा त्रिमासं वर्षमेव च । जीवन्मुक्तो धारयित्वा सहस्रनामकीर्तनम् ॥ १३४ ॥ पठित्वा तद् द्विगुणशः पुण्यं कोटिगुणं लभेत् । किमन्यं कथयिष्यामि सार्वभौमेश्वरो भवेत् ॥ १३५ ॥ त्रिभुवनगणनाथो योगिनीशो धनाढ्यो मतिसुविमलभावो दीर्घकालं वसेत् सः । इह पठति भवानीवल्लभः स्तोत्रसारं दशशतमभिधेयं ज्ञानमष्टोत्तरं च ॥ १३६ । ॥ इति श्रीरुद्रयामले उत्तरतन्त्रे भैरवीभैरवसंवादे परशिवहाकिनीश्वराष्टोत्तरसहस्रनामस्तोत्रं सम्पूर्णम् ॥ श्रीरुद्रयामले उत्तरतन्त्रे सप्ताशीतितनः पटलः परनाथाष्टोत्तरसहस्रनामस्तोत्रम् Proofread by Ravin Bhalekar ravibhalekar@hotmail.com
% Text title            : Hakinishvara or Paranatha Ashtottara Sahasranama Stotra
% File name             : hAkinIshvarasahasra.itx
% itxtitle              : hAkinIshvarAShTottarasahasranAmastotram paranAthAShTottarasahasranAmastotram
% engtitle              : hAkinIshvarAShTottarasahasranAmastotra
% Category              : sahasranAma, shiva, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mark S.G. Dyczkowski muktAbodha
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com
% Description-comments  : rudrayAmale uttaratantre bhairava bhairavI sa.nvAde 87th paTala
% Latest update         : May 25, 2009
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org