वरुणप्रोक्तं हालास्याष्टकम्
वरुणः -
कल्याणशैलपरिकल्पितकार्मुकाय
मौर्वीकृताखिलमहोरगनायकाय ।
पृथ्वीरथाय कमलापतिसायकाय
हालास्यमध्यनिलयाय नमश्शिवाय ॥ १॥
भक्तार्तिभञ्जनपराय परात्पराय
कालाभ्रकान्तिगरलाङ्कितकन्धराय ।
भूतेश्वराय भुवनत्रयकारणाय
हालास्य मध्यनिलयाय नमश्शिवाय ॥ २॥
भूदारमूर्तिहरिमृग्यपदाम्बुजाय
हंसाब्जसम्भवसुदूरसुमस्तकाय ।
ज्योतिर्मयस्फुरितदिव्यवपुर्धराय
हालास्य मध्यनिलयाय नमश्शिवाय ॥ ३॥
कादम्बकानननिवासकुतूहलाय
कान्तार्धभागकमनीयकलेवराय ।
कालान्तकाय करुणामृतसागराय
हालास्यमध्यनिलयाय नमश्शिवाय ॥ ४॥
विश्वेश्वराय विबुधेश्वरपूजिताय
विद्याविशिष्टविदितात्मसुवैभवाय ।
विद्याप्रदाय विमलेन्द्रविमानगाय
हालास्य मध्यनिलयाय नमश्शिवाय ॥ ५॥
सम्पत्प्रदाय सकलागममस्तकेषु
सङ्घोषितात्मविभवाय सदाशिवाय ।
सर्वात्मने सकलदुःखसमूलहन्त्रे
हालास्यमध्यनिलयाय नमश्शिवाय ॥ ६॥
गङ्गाधराय गरुडध्वजवन्दिताय
गण्डस्फुरद्भुजगकुण्डलमण्डिताय ।
गन्धर्वकिन्नरसुगीतगुणाधिकाय
हालास्यमध्यनिलयाय नमश्शिवाय ॥ ७॥
पाणिं प्रगृह्य मलयध्वजभूपपुत्र्याः
पाण्ड्येश्वरः स्वयमभूत्परमेश्वरो यः ।
तस्मै जगत्प्रथितसुन्दरपाण्ड्यनाम्ने
हालास्यमध्यनिलयाय नमश्शिवाय ॥ ८॥
गीर्वाणदेशिकगिरामपि दूरगं यद्
वक्तुं महत्त्वमिह को भवतः प्रवीणः ।
शम्भो क्षमस्व भगवच्छरणारविन्द -
भक्त्या कृतां स्तुतिमिमां मम सुन्दरेश ॥ ९॥
इति स्तुत्वा सुन्दरेशं नमस्कृत्य पुनः पुनः ।
इति वरुणप्रोक्तं हालास्याष्टकं सम्पूर्णम् ।
श्रीस्कान्दे महापुराणे अगस्त्यसंहितायां
हालास्यमाहात्म्ये अध्यायः २५, लीला १९, श्लोकानि ४५-५३
Proofread by Rajesh Thyagarajan