श्रीनिवासविरचिता श्रीहरस्तुतिः
ॐ श्रीगणेशाय नमः ।
प्राग्दयतां गणनाथो विद्यां वितरितुमुदारकालीनाम् ।
आद्रियतां गणनाथो बहुधा बृन्दारकालीनाम् ॥ १॥
हिम्मकरकलिकोत्तसः शमयति तापं हृदि प्रवृत्तं सः ।
शुचमनिराकुर्वाणैर्मितनिर्वाणैः किमन्यगीर्वाणैः ॥ २॥
श्रुतिशास्त्रगीयमानं निष्परिमाणं तथा निरुपमानम् ।
शम्भो तव महिमानं कस्तुष्टूषुर्लभेत सीमानम् ॥ ३॥
सत्यां तव हि कृपायां तव पदभक्तिं गिरीश समुपायाम् ।
स्थितिमथ सौख्योपायां कलयेयं सद्गतिं च निरपायाम् ॥ ४॥
विमलपयोदाभसितं स्फुरति यदङ्गेषु सर्वदा भसितम् ।
कण्ठशिरःश्रुतिभुजगाः स्फुरन्ति फणमणिमरीचिभिर्भुजगाः ॥ ५॥
यद्यपि चर्म वसानो दृष्टोऽसि त्वं शुभा हि दिवसा नः ।
अवतु दया तव सा नः फलति सुखाब्धिर्यया निरवसानः ॥ ६॥
श्रुतिशास्त्रदुर्निरूपो वपुरर्धाकलितवरतनूरूपः ।
अपि चक्षुषा विरूपो वितरसि भजतामभीष्टमनुरूपः ॥ ७॥
गङ्गा बहुकल्लोला जटासु चलितुं न चाशकल्लोला ।
भक्तजनैः स्नपितो यं बहु मनुषे कलुषमल्पमपि तोयम् ॥ ८॥
शैलदुहित्रा तारं समुपदिशसि यो भवाम्बुधित्रातारम् ।
गतकिल्विषभारोऽहं हृदये त्वां भावयामि वृषभारोहम् ॥ ९॥
समधिष्ठितकैलासो दीनोद्धारैकनिश्चितविलासः ।
उमया सदा विहरसे ममापि चिन्तां त्वमेव परिहरसे ॥ १०॥
इति श्रीनिवासविरचिता हरस्तुतिः सम्पूर्णाम् ।
The author was the son of Lakshmi and
Venkatesha and belonged to the vAjasaneyishAkhA.
He has composed two other stotras, Haristuti
and Hariharastuti.
(४९)
Proofread by Sivakumar Thyagarajan Iyer