हरिद्वारेश्वरलिङ्गस्थानवर्णनम्
देवी -
त्वत्तः श्रुतानि क्षेत्राणि पुण्यानि परमेश्वर ।
लिङ्गानि देवदेवेश दर्शनात् पुण्यदानि च ॥ १॥
स्मरणान्मुक्तिदानीश पूजनाद् ज्ञानदानि च ।
अविमुक्तस्य महिमा त्वया नैवोपवर्णितः ॥ २॥
किं वा तत्कारणं शम्भो किमन्यत् त्वत्प्रियङ्करम् ।
क्षेत्रमस्ति महादेव वद गुह्यमपि प्रभो ॥ ३॥
इति देव्या वचः श्रुत्वा करुणारससागरः ।
शङ्करः प्राह तां देवीं श्रृणुध्वं मुनिपुङ्गवाः ॥ ४॥
ईश्वरः -
एष द्वादशलिङ्गानां महिमा ज्योतिषां शिवे ।
मया तवानुपूर्वेण सेतिहासं च कृत्स्नशः ॥ ५॥
अविमुक्तस्य महिमा विश्वेशस्यापि वैभवम् ।
कथयाम्यग्रतो देवि सङ्ग्रहादधुनोदितः ॥ ६॥
त्रियम्बकस्य महिमा तत्र किञ्चिन्मयोदितः ।
अस्मिन्नेवाग्रतो देवि सप्तमांशे महेश्वरि ॥ ७॥
वैभवं विश्वनाथस्य लिङ्गानां चानुपूर्वशः ।
कावेरी नाम देवेशि नदी पुण्या सरिद्वरा ॥ ८॥
यथा भागीरथी गङ्गा विन्ध्यस्योत्तरवाहिनी ।
तथैव सा महादेवि विन्ध्याद्दक्षिणमास्थिता ॥ ९॥
तत्रत्यदिव्यलिङ्गानां क्षेत्राणामपि शङ्करि ।
वैभवं कथयाम्यग्रे अस्मिन्नंशे हि सप्तमे ॥ १०॥
अधुनां सम्प्रवक्ष्यामि हरिद्वारस्य वैभवम् ।
सावधानमनाः पुण्यं श्रृणु भूधरकन्यके ॥ ११॥
हरिद्वारमिति ख्यातं तीर्थमीशानतुष्टिदम् ।
गङ्गायमुनयोर्यत्र प्रभेदो दृश्यतेंऽबिके ॥ १२॥
तत्रास्ति लिङ्गमुत्कृष्टं हरिणा पूजितं पुरा ।
तत्रास्ति वनमुन्मत्तगजेन्द्रपरिसेवितम् ॥ १३॥
करेणुभिः परिवृतं मृगेन्द्रैरुपशोभितम् ।
हिमवच्छिखरं चान्यत् केदारात् पश्चिमे स्थितम् ॥ १४॥
नानाद्रुमशतोपेतं तपस्विजनसेवितम् ।
वैखानसैर्वालखिल्यैस्तथा मुनिगणैरपि ॥ १५॥
तपसः सिद्धिमिच्छद्भिः तपःस्थानमनुत्तमम् ।
रम्यशार्दूलसंयुक्तः (?) सरिद्भिः सागरोपमैः ॥ १६॥
नीलतालीवनोपेतं वातझर्झरपत्रकम् ।
गङ्गा प्रभूता यत्रासीत्तत्रास्ति विमलं सरः ॥ १७॥
कल्लोलमालाकलितं तमालकदलीवृतम् ।
मन्दारतरुभिः छन्नं मन्दमारुतवीजितम् ॥ १८॥
सहस्रपत्रैः कमलैः शोभितं स्वच्छवालुकम् ।
तत्रास्ति लिङ्गमीशानि हरिद्वारेश्वराभिधम् ॥ १९॥
तल्लिङ्गमूलतो देवि गङ्गा यत्र विनिर्गता ।
देवी -
कथं गङ्गा महादेव हरिद्वारद्विनिर्गता ।
किञ्च तत्करणं शम्भो वद मह्यं महेश्वर ॥ २०॥
महेश्वरः -
श्रृणु शैलसुते बाले विशालनयनेऽम्बिके ।
विष्णुः पुरा तपस्तप्यन् मामाराध्यावसच्छिवे ॥ २१॥
भस्माभ्यक्ततनुर्देवि त्रिपुण्ड्रावलिभासुरः ।
नीलिमाननभभ्राजच्छारदाभ्रगणो यथा ॥ २२॥
नीलतोयदमध्यस्थत्रिपुण्ड्रनडिदुद्यतः ।
रुद्रमावर्तयंस्तस्थौ मम पञ्चाक्षरादरः ॥ २३॥
हरिद्वारेश्वरं लिङ्गं बिल्वैरभ्यर्च्य संस्थितः ।
त्वत्पितुर्वारुणे देवि शिखरे रमया तदा ॥ २४॥
कालं नित्ये तपोराशिः कालकालार्चनेन हि ।
रमन्तं तं तपस्यन्तं रुद्राक्षवरधारिणम् ॥ २५॥
रुद्रविन्यस्तमनसं रुद्राध्यायजपादरम् ।
फलपुष्पाणि चिन्वन्ती भर्तुः पूजाप्रकल्पने ॥ २६॥
दीपदा शङ्करस्याग्रे पाककर्त्री शिवाय वै ।
नैवेद्यैस्तर्पयामास हरिद्वारेशमीश्वरम् ॥ २७॥
उत्फुल्लकमलैरीशं कमलापि समार्चयत् ।
हरिद्वारेश्वरं लिङ्गं बिल्वपत्रैश्च कोमलैः ॥ २८॥
॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे हरिद्वारेश्वरलिङ्गस्थानवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः २९॥ -
- .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 29.. -
Notes:
Shiva introduces to Devi the Vishveshwara (Vishwanatha) Jyotirlinga that would be detailed in Amsa-07; and proceeds to brief Her about Haridwareshwara Linga near River Ganga, where Shri Vishnu worshipped Shiva in order to get relief from the sin of killing an asura because he was also a Shiva devotee.
The shloka numbers have been maintained per the source text.
Proofread by Ruma Dewan