हरिहराष्टकम्
एकत्र शृङ्गाररसानुविद्धं
परत्र वैराग्यपथाधिरूढम् ।
परस्परस्नेहदृगेकदृश्यं
वन्दामहे हारिहरस्वरूपम् ॥ १॥
उपासनाकोटिकथानकेऽपि
द्वैतोपसर्गस्य जिहीर्षयेव ।
अद्वैतभावार्पितकेलिकायं
वन्दामहे हारिहरस्वरूपम् ॥ २॥
हरिर्हरस्यैष हरो हरेश्च
सौहार्दसीमानमुपैति बाढम् ।
इत्यादराद् व्यासगवीषु गीतं
वन्दामहे हारिहरस्वरूपम् ॥ ३॥
एकत् लक्ष्मीललितानुकारि
परत्र गौरीगुरुतापहारि ।
सरस्वतीगीतगुणप्रवाहं
वन्दामहे हारिहरस्वरूपम् ॥ ४॥
गाङ्गैस्तरङ्गैरधऊर्ध्वशोभि
विशेषितं शेषविजृम्भितेन ।
शङ्खावदानाकलनासु कल्यं
वन्दामहे हारिहरस्वरूपम् ॥ ५॥
अन्योन्यकायच्छविकल्पितेन
श्यामेन गौरेण च रोचिषाढ्यम् ।
उत्सर्पिगङ्गायमुनोर्मिसंस्थं
वन्दामहे हारिहरस्वरूपम् ॥ ६॥
पर्यन्तभीमा गुणभेददृष्टि-
र्मा भूच्च नौ मायिकविग्रहेऽपि ।
इत्युल्लसद्वर्णविपर्ययाभं
वन्दामहे हारिहरस्वरूपम् ॥ ७॥
न वस्तुतो ब्रह्मणि कल्पितेषु
मायावतारेषु भिदावकाशः ।
इतीव सत्यापयितुं निरूढं
वन्दामहे हारिहरस्वरूपम् ॥ ८॥
एतन्मायिकनामरूपरचनाप्राग्भारविस्फूर्जितं
सत्यं वानृतमेव वेत्युभयथावादेऽपवादास्पदम् ।
सिद्धान्तं सुधियां हृदि प्रथयितुं द् वैधावसानायितं
शान्तं हारिहरस्वरूपमवतात्संसारभीतेर्जगत् ॥ ९॥
इति श्रीदुर्गाप्रसादद्विवेदीविरचितं हरिहराष्टकं सम्पूर्णम् ।
Encoded by Kamini Viswanathan
Proofread by Kamini Viswanathan, Lalitha Mallikarjunan