श्रीज्ञानामृतरसायनम्

श्रीज्ञानामृतरसायनम्

श्रीपार्वत्युवाच- भगवन् देवदेवेश सर्वपापप्रणाशनम् । सर्वकामफलस्तोत्रं ज्ञानामृतरसायनम् ॥ १॥ महेश्वरं महादेवमीशानं शङ्करं हरम् । रुद्रं भद्रं शिवं विष्णुं नीलकण्ठं पितामहम् ॥ २॥ उग्रं भीमं शिवं स्थाणुं स्वयम्भूं शम्भुशूलिनम् । पुरुषं गौरीश्वरं चन्द्रं चन्द्रमौलिं जटाधरम् ॥ ३॥ उमापतिं पशुपतिं विरूपाक्षं वृषध्वजम् । वृषं गङ्गाधरं शङ्करं(शर्वं)श्रीकण्ठं वृषवाहनम् ॥ ४॥ पिङ्गाक्षजटिलं कृत्तिवाससं गृहाधरं (च गुहाशयम्) । ऊर्ध्वनेत्रं सहस्राक्षं सहस्रभुजशीर्ष(क)म् ॥ ५॥ मृगाङ्कचिह्नं भस्माङ्गं दशबाहुं त्रिलोचनम् । त्रिनेत्रं त्रिषु लोकेषु त्र्यम्बकं त्रिपुरान्तकम् ॥ ६॥ कालं कामाङ्गदहनं मन्त्रकं दैत्यघातकम् । (ब्रह्मणः) पञ्चमशिरोदक्षयज्ञविनाशनम् ॥ ७॥ पूषदन्तहरं साक्षात्तारकास्यनिपातनम् । ऊर्ध्वलिङ्गं महालिङ्गं चारुलिङ्गं त्रिलिङ्गिनम् ॥ ८॥ वाचस्पतिं दिव्यचक्षुं ब्रह्मस्कन्धाय देशिकं (?) । ऊर्ध्वरेतं वीतरागं ततो धर्मदृढव्रतम् ॥ ९॥ जर्झरीडिण्डिमुण्डं च त्रिदण्डिलकुलीजटं (?) । गजचर्मपरीधानं पललाजिनवाससम् ॥ १०॥ विश्वाननं महावासं मृतवासं चतुष्कलम् । चर्यारूढं (वि)मानस्थं वानप्रस्थं च शूलिनम् ॥ ११॥ कपालखट्वाङ्गहस्तं कङ्कमालाशिरोधरम् । व्यालोपवीतनिलयं महाकुण्डलिनूपुरम् ॥ १२॥ महादंष्ट्रं महाकायं महाशीर्षसुशोभनम् । महासिद्धं महावीरं सन्नद्धं वीरवन्दितम् ॥ १३॥ अघोरं घोरसंशिष्टं घोराद्धोरतरं तथा । हिरण्यवर्णं देवादिं ब्रह्मण्यमभवं भवम् ॥ १४॥ पञ्चाक्षरं पञ्चबीजं पञ्चवक्त्रं सदाशिवम् । षड्वक्त्रं महागुह्यं कालाग्निं रुद्रतेजसम् ॥ १५॥ अष्टधा नवधा चैवं दशधा शतधा स्मृतम् । बहुरूपं महारूपं विश्वरूपं जगद्गुरुम् ॥ १६॥ कलितं ?? कालोत्पत्तिकुलेश्वरम् । धन्वन्तरिं ब्रह्मविदं पुण्डरीकं प्रजापतिम् ॥ १७॥ वेद्यवेदविधात्रर्थं योगज्ञानविचक्षणम् । ध्यानं ध्येयं च तत्पूज्यं परस्य ज्ञानमुत्तमम् ॥ १८॥ स्वाहास्वधावषट्कारं (हेमपार्श्वं) हुताशनम् । यज्ञतीर्थं ?? सर्वतोमुखं (?) ॥ १९॥ सकलं निष्कलं शून्यं स्थूलं सूक्ष्मं परापरम् । अनन्तं ध्येयरहितं तारद्वारवधान्तिकम् ॥ २०॥ बिन्दुनादकलाक्रान्तं प्राणापानप्रवाहनम् । परिपूर्णं हतारातिमूर्ध्वमध्यव्यवस्थितम् ॥ २१॥ मात्रार्थकं मात्रपदमदध्वाध्वा परापरं (?) । अस्वतन्त्रो स्वतन्त्रोऽयमस्तु नास्तु जयापरं (?) ॥ २२॥ अविदित्वा तु विदितमप्रमाणप्रमाणकम् । निस्संशयं निरापेक्षं निधानस्थं निरेपनम् ॥ २३॥ निर्विकल्पं निष्प्रपञ्चमद्वैतं केवलं प्रभुम् । व्योमातीतं मनुश्चार्यमनन्तमजमव्ययं (?) ॥ २४॥ अष्टोत्तरं द्वादशान्तं धनाख्यं शून्यवाचकं (?) । विष्णुधर्मं विनिष्ठान्तं निस्तरङ्गं निरामयम् ॥ २५॥ नकिञ्चित् किञ्चिदानन्दं परमात्मानुलेपनम् । पराभ्यां रत्नमारूढं (पराभ्यन्तरमारूढं) अधिकं तत्परापरम् ॥ २६॥ देवानां परमं देवं प्रणमेयं महेश्वरम् । संसारदुःखदहनमायुरारोग्यनिर्मितम् ॥ २७॥ सर्वपापक्षयकरं सर्वरोगनिबर्हणम् । सन्ततं श‍ृणु तं ह्यस्तु ज्ञानामृतरसायनम् ॥ २८॥ तीर्थकोट्यस्तु यज्ञानां मन्त्रकोट्यस्तु यज्ञकम् । (?) ??व्रतं पुण्यं स्वाध्यायं मन्त्रनायकम् ॥ २९॥ विश्वेशं च त्रिकालज्ञमणिमादिगुणाष्टकम् । परापरं परावाप्तिस्वर्गमोक्षप्रदायकम् ॥ ३०॥ अमृताक्षं मृत्युजयमनाढ्यं तं शुभं वृषं (?) । परमाक्षरमोङ्कारं षडङ्गं मन्त्रनायकम् ॥ ३१॥ अवाप्तं मन्त्रदेशाख्यं व्योमरुध्यचतुष्कलम् । दशबीजं महावज्रं वैदिकं रौद्रवैष्णवम् ॥ ३२॥ आरूढं तौड्डिकं सौरं भैरवं पापदक्षिणम् । गोपितं संह्यलं मन्त्रः सर्वमन्त्रप्रवर्तकम् ॥ ३३॥ एकं पञ्चाशद्वर्णानां मूलकं वर्णभेदकं (?) । पञ्चमात्रस्थूलभेदमेकाशीतिदलात्मकम् ॥ ३४॥ अष्टात्रिंशत्कलाधारं त्रिषष्टिभेदसंस्थितम् । अनाहतं चतुष्षष्टिकलाभिश्चैकमक्षरम् ॥ ३५॥ नित्यस्थितं हंसगर्भं शिवभक्तिं शिवात्मकम् । आद्यन्तमध्यनिलयं स्तुतिं मिश्रामनोपमम् ॥ ३६॥ जाग्रत्स्वप्नसुषुप्तिस्थं पूरकं कुम्भरेचकम् । अविभक्तमनेकैकं नाभूतं च पृथक् पृथक् ॥ ३७॥ अनेकाधारवदनं मन्त्रशास्त्राङ्गमालयम् । इच्छाज्ञानङ्क्रियाशक्तिमन्त्रशक्त्यात्मनोदयम् ॥ ३८॥ दक्षिणोत्तरमध्यस्थं ?? । हेमकोटीस्तु यो दद्यात्कपिलाकोटयो ददेत् ॥ ३९॥ महीं काञ्चनसम्पूर्णां रत्नानां सप्तसागरात् । कुरुक्षेत्रे कनखले चन्द्रसूर्यग्रहे वरे ॥ ४०॥ एतत्सर्वेषु दानेषु यत्पुण्यं फलते फलम् । तत्फलं लभते मर्त्यः स्तवस्यास्यानुकीर्तनात् ॥ ४१॥ कुलकोटिं समुद्धृत्य शिवलोके महीयते । सर्वपापविशुद्धात्मा मुक्तिरेव न संशयः ॥ ४२॥ ॥ इति श्रीज्ञानामृतरसायनं सम्पूर्णम् ॥ Proofread by Aruna Narayanan
% Text title            : Shri Jnanamritarasayanam 02 48
% File name             : jnAnAmRRitarasAyanam.itx
% itxtitle              : jnAnAmRitarasAyanam
% engtitle              : jnAnAmRitarasAyanam
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From stotrArNavaH 02-48
% Indexextra            : (Scan)
% Latest update         : July 25, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org