श्रीकालहस्तीश्वरस्तोत्रम्
महेश्वरं महोन्नतं महेश्वरं सदानम-
द्गणेश्वरं गुणान्वितं गणेश्वरं जगन्नुतम् ।
अनीश्वरं वृषाश्वरंहसाश्वरुद्रगामिनं (?)
सदा भजामि कालहस्तिसाम्बमूर्तिमीश्वरम् ॥ १॥
निटालविस्फुटैकदृक्तटालवह्निचिच्छटा
लसद्ध्वनिप्रकृज्जटालनिष्ठहैमनम् ।
घटीभवादिमौनिहृत्कुटीभवत्पदं त्रिगुं(विभुं)
सदा भजामि कालहस्तिसाम्बमूर्तिमीश्वरम् ॥ २॥
घनाघनादियज्ञभुग्घनाघनप्रचारकृद्-
द्युनाघनामहस्सुहृद्दृढासुहृद्धनुस्स्वनम् ।
घनाघनव्यपेटिकाघनाघनप्रभञ्जनं
सदा भजामि कालहस्तिसाम्बमूर्तिमीश्वरम् ॥ ३॥
जटाकुटीरधन्यधुन्यभङ्गभङ्गसङ्घटा-
घुमङ्घुमङ्घुमङ्घुमद्ध्वनिध्वनद्दरीस्फुटम् ।
कटीतटीघटीकृतोत्कटाजिनं ककुप्पटं
सदा भजामि कालहस्तिसाम्बमूर्तिमीश्वरम् ॥ ४॥
सुधाशनाधिराट्पुरीसुगह्वरीजमञ्जरी-
स्फुरन्मरन्दनिर्झरीधुराधुराधुरीणगीर्गणम् ।
विराट्तुरङ्गमार्गणं विशेषविष्णुमार्गणं (?)
सदा भजामि कालहस्तिसाम्बमूर्तिमीश्वरम् ॥ ५॥
॥ इति श्रीकालहस्तीश्वरस्तोत्रं सम्पूर्णम् ॥
Proofread by Aruna Narayanan