काशीस्थितान् शिवतीर्थक्षेत्रमाहात्म्यम् १

काशीस्थितान् शिवतीर्थक्षेत्रमाहात्म्यम् १

- शिवपार्वतीसंवादे - श्रीशिव उवाच - ओङ्कारं नाम विमलं क्षेत्रं काश्यां वरानने । सर्वपापक्षयकरं तिष्ठत्येकं शुभप्रदम् ॥ १॥ तत्र बिल्ववनं रम्यं नित्यं नवदलान्वितम् । नक्षत्रलेढिशाखाढ्यं घनच्छायमभूच्छिवे ॥ २॥ तस्मिन् बिल्ववने रम्ये क्रीडार्थं र(ग)म्यते मया । किश्चित्कालं विहृत्याहं वसामि प्रत्यहं शुभे ॥ ३॥ विद्यमाने मयि प्रीत्या कदाचित्पवनो महान् । समागतस्ततस्तेन कम्पितास्तरवो भृशम् ॥ ४॥ कम्पितं न्यपतद्भूमौ बिल्वशखाग्रमुत्तमम् । नवारुणदलाक्रान्तं वितस्तिमितमम्बिके ॥ ५॥ तद्गृहीतं मया रम्यं तदाप्रभृति सर्वदा । तद्बिल्ववनरक्षार्थं यक्षाः संस्थापिता मया ॥ ६॥ वेदामूर्तिधरास्तत्र नवबिल्वदलैः शुभैः । ओङ्काररूपिणं नित्यं मामेवाभ्यर्चयन्ति हि ॥ ७॥ शिवतत्त्वमविज्ञाय ज्ञानार्थं च मुनीश्वराः । वेदाश्च सततं तत्र तपः कुर्वन्ति सादरम् ॥ ८॥ तत्र पञ्चाग्निनिरताः निराहारा जितेन्द्रियाः । तपो घोरतरं कृत्वा तिष्ठन्ति विमलाशयाः ॥ ९॥ एकपादेन संस्थाय प्रज्वलद्वह्निमध्यगः । चकार विष्णुरत्रैव तपो घोरतरं पुरा ॥ १०॥ ब्रह्मणापि तपस्तप्तं महाघोरतरं मुदा । इन्द्रादिभिर्लोकपालैस्तपस्तप्तमिहैव हि ॥ ११॥ अन्यैश्च ऋषिभिः सिद्धैर्मुनिभिर्ब्रह्मवादिभिः । तपस्तप्तुं पुरा नित्यमत्रैवोङ्कारसन्निधौ ॥ १२॥ सायमोङ्कारनाथस्य दर्शनं पापनाशनम् । कर्तव्य नियतं यत्नात्पूजा कार्या निरन्तरम् ॥ १३॥ प्रतिशुक्ल चतुर्दश्यां पूजा कार्या विशेषतः । तत्प्रीत्यर्थं महाशैवा भोजनीयाः प्रयत्नतः ॥ १४॥ ओङ्कारकुण्डममलं तत्र तिष्ठति निर्मलम् । तत्र प्रतिदिनं स्नानं कर्तव्यं प्रीतिवृद्धये ॥ १५॥ तत्र श्राद्धं च कर्तव्यं पितॄनुद्दिश्य सादरम् । कर्तव्यं तत्र यत्नेन प्रत्यहं तिलतर्पणम् ॥ १६॥ तत्र श्राद्धे कृते सर्वे पितरो नरकस्थिताः । प्रयान्ति ब्रह्मसदनं मोदमाना वसन्ति च ॥ १७॥ पुरा केनचिदत्रैव कृतं श्राद्धं यथाविधि । तेन तत्पितरः सर्वे नरकाद्गन्तुमुद्यताः ॥ १८॥ तदा यमभटाः सर्वे यमशासनकारिणः । प्रगृह्यैव पितॄन् सर्वान्ययुर्यमनिकेनम् ॥ १९॥ यमभटा ऊचुः - प्रयान्ति नरकादेते यम भीमपराक्रम । विचारयैतानिति ते यममूचुर्यमस्ततः ॥ २०॥ उवाच चित्रगुप्ताख्यं धर्माधर्मविचारकम् । किमेतैः कृतमस्तीति बभाषे वचनं मुदा ॥ २१॥ चित्रगुप्त उवाच - काश्यामोङ्कारनाथस्य कुण्डे पापौघनाशके । शैवेन तद्वंशजेन कृतं श्राद्धं यथाविधि ॥ २२॥ कृतं पिण्डप्रदानं च तर्पणं च तिलैः कृतम् । तेन वै घोरनियादुद्धृताः पितरोऽखिलाः ॥ २३॥ आब्रह्मकल्पमनिशं ब्रह्मणा पूजिता मुदा । ब्रह्मलोके निवासं च करिष्यन्ति न संशयः ॥ २४॥ इति तद्वचनं श्रुत्वा यमः शीघ्र समुत्थितः । प्रत्येकमासनं दत्वा पूजां चक्रे यथाविधि ॥ २५॥ ततो विमानमारुह्य ब्रह्मलोकं ययुर्मुदा । इन्द्रेण पूजिताः सम्यक्तथा दिक्पालपूजिताः ॥ २६॥ अभ्यागतान् पितॄन् दृष्ट्वा सम्पूज्य विधिवद्विधिः । स्वर्लोके विमलान्सर्वान् स्थापयामास सादरम् ॥ २७॥ अतोऽत्र विधिवच्छ्राद्धं कर्तव्यं पितृमुक्तये । ओङ्कारेशार्चनं चात्र कर्तव्यं प्रतिवासरम् ॥ २८॥ त्रिलोचनाख्यममलं क्षेत्रं काश्यां वरानने । तिष्ठत्येकं ममात्यन्तऽविलासास्पदमुत्तमम् ॥ २९॥ हेमप्राकारश‍ृङ्गाढ्य राजमानमहर्निशम् । किन्नरामरगन्धर्वसेवितं प्रतिवासरम् ॥ ३०॥ पिलिपिलाख्यं तत्रास्ति कुण्डमेकं वरानने । तत्र स्नात्वा यथाशास्त्रं श्राद्धं कृत्वा यथाविधि ॥ ३१॥ त्रिलोचनाख्यलिङ्गस्य पूजा कार्या यथाविधि । पुष्पैर्नानाविधैर्द्रव्यैर्बिल्वपत्रैस्तिलाक्षतैः ॥ ३२॥ शनित्रयोदशी देवि भविष्यति यदा तदा । तस्मिन् पिलिपिले कुण्डे स्नानं कार्यं प्रयत्नतः ॥ ३३॥ तर्पयित्वा पितॄन् सर्वान् प्रदोषे समुपस्थिते । त्रिलोचनेश्वरं सम्यगभिषिच्य शुभोदकैः ॥ ३४॥ गन्धैस्तिलाक्षतैः पुष्पैबिल्वपत्रैश्च कोमलैः । पूजयित्वा विधानेन धूपदीपादिभिः क्रमात् ॥ ३५॥ सव्यासव्यविधानेन ततः कार्य प्रदक्षिणम् । प्रणम्य बहुधा सम्यक्स्तुत्वा स्तोत्रैरनेकधा ॥ ३६॥ स्वगृह्योक्तप्रकारेण प्रतिष्ठाप्य हुताशनम् । परमान्नं गोघृतं च सम्पाद्य नवमादरात् ॥ ३७॥ तथा बिल्वसमिद्बिल्वदलान्यानीय सादरम् । होमः कार्यः प्रयत्नेन ऋत्विग्भिः सह वैदिकैः ॥ ३८॥ मोक्षार्थिभिः सार्धकोटिहोमः कार्यो यथाविधि । पुत्रार्थिभिः सार्धलक्षहोमः कार्यो यथाविधि ॥ ३९॥ विद्यार्थिभिस्त्रिलक्षं तु होमः कार्यो यथाविधि । स्वर्गार्थिम्भिस्तु कार्यः स्याद्धोमो लक्षचतुष्टयम् ॥ ४०॥ एवं हुत्वा हविः सम्यग्दत्वा चैवाथ दक्षिणाम् । कृतं होमदिकं सर्वं शिवाय विनिवेदयेत् ॥ ४१॥ भोजनीयास्ततो विप्रा यथेच्छं स्वादुभोजनैः । सुवासिन्यो भोजनीया देवप्रीत्यर्थमादरात् ॥ ४२॥ विध्युक्तेन प्रकारेण कृतहोमादिना शिवः । प्रीतोऽपष्टं यथा योग्यं प्रयच्छति न संशयः ॥ ४३॥ शनित्रयोदशीं प्राप्य काश्यां स्थित्वा त्रिलोचनम् । यो नार्चयति मूढात्मा स भवत्यघसंश्रयः ॥ ४४॥ उपोष्य सायमनघैः स्नात्वा तन्त्र त्रिलोचनः । शनियुक्तत्रयोदश्यां पूजनीयः प्रयत्नतः ॥ ४५॥ पुरा कश्चिद् द्विजशिशुर्दरिद्रो व्याधिपीडितः । शनित्रयोदशीं प्राप्य चकारोपौषणं मुदा ॥ ४६॥ ततः पिलिपिलाकुण्डे स्नात्वा बिल्वदलैर्जलैः । पूजां कृत्वा प्रणम्याथ ननर्त च पुनः पुनः ॥ ४७॥ ततः पर्णकुटीं प्राप्य निद्रां चक्रे स बालकः । त्रिलोचनोऽपि सन्तुष्टस्तद्बालकृतपूजनात् ॥ ४८॥ सर्वाभरणसम्पन्नो दिव्यमङ्गलविग्रहः । प्रत्यक्षोऽभूत्कृपासिन्धुस्तमुवाच द्विजार्भकम् ॥ ४९॥ प्रीतोऽस्मि पूजनाद्वत्स वरं वृणु तवेप्सितम् । वरदोऽहं वरं दास्ये मा भैषीर्धैर्यमावह ॥ ५०॥ इत्युक्तो बालकः शीघ्रं ययाचे वरमुत्तमम् । देव देहि ममानन्दमविच्छिन्नमनामयम् ॥ ५१॥ जन्मादिदुःखं शमय गर्भवासं विनाशय । देहि मुक्तिं कृपासिन्धो त्रिलोचन जगत्प्रभो ॥ ५२॥ इत्युक्त्वा प्रणिपत्येशं देवदेवं मुहुर्मुहुः । कृताञ्जलिपुटो भूत्वा न्यवसन्नतकन्धरः ॥ ५३॥ ततन्तस्मै महादेवः कृपाब्धिर्भक्तवत्सलः । गाणापत्यं ददौ प्रीतः स एवाहं त्रिलोचनः ॥ ५४॥ कृत्तिवासेश्वरं नाम क्षेत्रमस्त्येकमुत्तमम । तत्रापि बिल्वतरवस्तिष्ठन्ति नवपल्लवाः ॥ ५५॥ तवापि मुनयः शान्ता निराहारा जितेन्द्रयाः । तिष्ठन्त्यत्यन्तसन्तुष्टाः शिवध्यानपरायणाः ॥ ५६॥ अधोमुखा धूम्रपानं केचित्कुर्वन्ति सादरम् । केचिदेकाङ्घ्रिणा स्थित्वा तपः कुर्वन्त्यनाकुलाः ॥ ५७॥ केचिदभ्यर्च्य मामीशं नृत्यं कुर्वन्ति यत्नतः । केचिल्लिङ्गार्चनं कृत्वा प्रणमन्ति पुनः पुनः ॥ ५८॥ केचिन्मां हृदि संस्थाप्य ध्यानं कुर्वन्ति सादरम् । केचिद्गायन्ति सततं शिवनामानि पावनाः ॥ ५९॥ तत्रापि कुण्डमस्त्येकं सन्निधौ कृत्तिवाससः । स्नानं प्रयत्नतः कार्यं तस्मिन्कुण्डे शुभावहे ॥ ६०॥ तत्र स्नात्वा विधानेन कृत्तिवाससमर्चयेत् । तत्तु मोक्षप्रदं लिङ्गं दर्शनादघनाशनम् ॥ ६१॥ मुक्तिकामैर्मुनीन्द्रैस्तु सर्वदा सेवितं मुदा । मुनिभिः संस्तुतं नित्यं स्तुतं देवैश्च सर्वदा ॥ ६२॥ माघकृष्णचतुर्दश्यामुपोष्य नियतेन्द्रियः(यैः) । तत्र जागरणं कार्य सन्निधो कृत्तिवाससः ॥ ६३॥ प्रतियामं यथायोग्यं पूजा कार्या प्रयत्नतः । दीपप्रदानं कर्तव्यं गोघृतेन मनोहरम् ॥ ६४॥ नवबिल्वदलैः शुद्धैः पूजा कार्या विशेषतः । उपोषयात्राप्रमादेन लिङ्गपूजापरायणः ॥ ६५॥ सर्वघोराघशान्त्यर्थं कोटिजन्मतपोऽधिकम् । सम्यग्जागरणं कार्यं तद्दिने समुपस्थिते ॥ ६६॥ शिवरात्रिव्रतं यस्तु मोहेन न करिष्यति । स्वधर्मप्रच्युतो नित्यं नरके निवसिष्यति ॥ ६७॥ पुरा हिमालयप्रान्ते कश्चिदासीन्नराधिपः । तेन रम्याः शिवकथाः श्रुताः सर्वामुदावहाः ॥ ६८॥ शिवरात्रिव्रतस्यास्य माहात्म्यं श्रुतमेकदा । तत्रैव संश्रुतं चापि माहात्म्यं कृत्तिवाससः ॥ ६९॥ ततः काशीप्रयाणार्थम्मुद्युक्तोऽभून्नराधिपः । ततो विघ्नो महानासीत्तद्यात्राप्रतिबन्धकः ॥ ७०॥ ततो विघ्नविनाशार्थं स राजा दृढनिश्चयः । तपः कर्तुं समारेभे तत्रैव गिरिशालये ॥ ७१॥ ज्वलत्पञ्चाग्निमध्यस्थो निराहारो जितेन्द्रियः । शिवलिङ्गार्चनं कुर्वन् चकारोग्रं तपो नृपः ॥ ७२॥ स लक्षयुगपर्यन्तं कृत्वा घोरतरं तपः । ततो दुःखेन सन्तप्तस्त्यक्त्वा निर्विण्णमानसः ॥ ७३॥ रुरोदोच्चैरतिक्लिन्नः शिरःसन्ताड्य पाणिना । पाषाणमपिसङ्गृह्य ताडयन्नुरसस्स्थलम् ॥ ७४॥ कथं काशी मया प्राप्या द्रक्ष्यो विश्वेरः कथम् । कृत्तिवासेशलिङ्गं च कथं द्रक्ष्याम्यतः परम् ॥ ७५॥ प्रायः पर्वतसङ्काशान्यतिघोराणि सन्ति मे । पातकानि बहून्येवं किं कर्तव्यमतः परम् ॥ ७६॥ इति कृत्वा महादुःखं तपश्चक्रे पुनर्नृपः । सहस्रयुगपर्यन्तं जलमध्यगतस्तदा ॥ ७७॥ ततः कदाचित्तद्धैर्यं द्रष्टुकामचतुर्मुखः । वृद्धब्राह्मण रूपेण गतस्तन्निकटे शुभे ॥ ७८॥ तमागतं द्विजं दृष्ट्वा प्रणम्य द्विजसत्तमम् । चकार विधिवत्पूजामुवाच च वचस्तदा ॥ ७९॥ वेदशास्त्राश्रय श्रीमद्द्विजवर्याघनाशन । काशीप्राप्तिकरं पुण्यं किमस्ति वद तत्त्वतः ॥ ८०॥ ब्राह्मण उवाच - राजन् राज्ञा त्वया धर्मो न भविष्यति सर्वथा । किन्तु कर्तव्यमनिशं प्रजानां परिपालनम् ॥ ८१॥ निष्कण्टकमिदं राज्यं त्यक्त्वा किं तप्यते तपः । इदानीमखिलं राज्यं नष्टमेव भविष्यति ॥ ८२॥ शरीरं चाभवत्क्षीणं नृपर्वर्य मनोहरम । काशीप्राप्तिकरं घोरं तपः कर्तुं न शक्यते ॥ ८३॥ अनेकजन्मनामन्ते कृत्वा कृत्वा तपो मुहुः । अन्ते शिवप्रसादेन सा काशी दृश्यते जनः ॥ ८४॥ क्व भवान् क्व तपो घोरं तादृशं शिवतुष्टिदम् । क्व मानुषमिदं रूपं क्व काशीप्राप्तिसाधनम् ॥ ८५॥ मौर्ख्यं मा कुरु राजेन्द्र त्यज व्रतमतः परम् । पालयस्व प्रजाः सर्वाः धर्मेणैव परन्तप ॥ ८६॥ इति तद्वचनं श्रुत्वा धैर्यवानमितप्रभुः । विप्रं विसृज्य भूयोऽपि तपस्तेपे दुरासदम् ॥ ८७॥ स लक्षयुगपर्यन्तमेकपादेन संस्थितः । चकार दुःसहं घोरं तपो मत्प्रीतिसाधनम् ॥ ८८॥ ततश्च मत्प्रसादेन निवृत्ता विघ्नराजयः । ततः काशीं ययौ राजा हृष्टान्तःकरणः शुभे ॥ ८९॥ तेन घोरतरं तप्तं पूर्वपूर्वभवेष्वपि । बहुकालं प्रयत्नेन काशीप्राप्त्यर्थमादरात् ॥ ९०॥ काश्यां विशेषतीर्थेषु स्नात्वा प्रत्यहमादरात् । नित्ययात्रादिकं कृत्वा न्यवसन्नियतेद्रियः ॥ ९१॥ ततस्तत्रैव निवसन्माघकृष्णचतुर्दशीम् । सम्प्राप्य परमं लेभे सन्तोषं नृपतिः सदा ॥ ९२॥ ततस्तु नृपतिस्तस्मिन् शिवरात्रिदिने शुचिः । कृत्वा यात्रादिकं सर्वमुपोष्य नियतव्रती ॥ ९३॥ पूजोपकरणं सर्वं सम्पाद्य दृढमानसः । कृत्तिवासेश्वरं सम्यक् सम्पूज्य विधिपूर्वकम् ॥ ९४॥ कृष्णगोघृतदीपांश्च चकार स मनोहरान् । तद्दीपप्रभया लोकाः दीपिताः सर्वमेव हि ॥ ९५॥ स्तोत्रपाठैश्च नृत्तैञ्च पुराणश्रवणादिभिः । चक्रे जागरणं राजा कृत्तिवासेशमर्चयन् ॥ ९६॥ ततस्तत्रैव पूतात्मा शिवलिङ्गार्चने रतः । पञ्चाग्निमध्यदेशस्थश्चकारोग्रं तपो नृपः ॥ ९७॥ कालेन स मृतः सोऽपि ममाङ्के सन्निवेशितः । मया पञ्चाक्षरो दत्तो मुक्तिमाप नृपोत्तमः ॥ ९८॥ सर्वार्थसाधकं क्षेत्रमीदृशं कृत्तिवाससः । तत्रान्वहं पूजनार्हकृत्तिवासेश्वरां जनैः ॥ ९९॥ तत्प्रान्ते सन्ति लिङ्गानि कोटिशः कमलानने । तान्यप्येतानि दृश्यानि सर्वमुक्तिकराणि च ॥ १००॥ तीर्थमस्त्येकममले ऋणमोचन्नामकम् । तत्तीर्थस्नानमात्रेण ऋणेभ्यो मुच्यते जनः ॥ १०१॥ तत्र श्राद्धं विधानेन कर्तव्यं रत्नतः शुभे । तेन मुक्ता भवन्त्येव पितॄणानृणबन्धनात् ॥ १०२॥ पिशाचमोचनं नाम तीर्थमस्येकमुत्तमम् । तात्र स्नात्वा पिशाचोऽपि मुच्यते सर्वपातकैः ॥ १०३॥ श्राद्धं च विधिवत्तत्र कर्तव्यमतियत्नतः । पिशाचभूताः सर्वेऽपि मुच्यन्ते पितरस्ततः ॥ १०४॥ तत्रापि सन्ति लिङ्गानि भक्ताभीष्टप्रदानि च । पूजनीयानि यत्नेन काशीक्षेत्रनिवासिभिः ॥ १०५॥ श्रीकालभैरवप्रान्ते कुण्डमस्त्येकमुत्तमम् । कालाष्टमीदिने तत्र स्नानं कार्यं विधानतः ॥ १७५॥ तत्कुण्डनिकटे रम्यं लिङ्गं कालेश्वराभिधम् । भैरवस्थापितं तिष्ठत्येकं पापौघनाशनम् ॥ १७६॥ तत्पूजनं यथाशास्त्रं कार्यं बिल्वदलादिभिः । ततः पूजा यथाशास्त्रं कर्तव्या भैरवेऽहनि ॥ १७७॥ प्रदक्षिणनमस्काराः कार्या अष्टोत्तरं शतम् । जागरेणोपवासेन प्रीणनीयो हि भैरवः ॥ १७८॥ शुचिभिस्तैलपक्वान्नैः शैवब्राह्मणपुङ्गवाः । भोजनीयाः प्रयत्नेन भैरवप्रीतिकामुकैः ॥ १७९॥ श्रीपार्वत्युवाच - का वा कलाष्टमी शम्भो सा कालस्य प्रिया कथम् । जागरेणोपवासेन कथं तृप्यति भैरवः ॥ १८०॥ श्रीशिव उवाच - कालाष्टमीति विज्ञेया कार्तिकस्यासिताष्टमी । तस्यामुपोषणं कार्य तथा जागरणं निशि ॥ १८१॥ ॥ इति शिवरहस्यान्तर्गते काशीस्थितान् शिवतीर्थक्षेत्रमाहात्म्यं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः ११ । १-१०५ , १७५-१८१॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 11 . 1-105 , 175-181.. Notes: Śiva शिव describes to Pārvatī पार्वती, several ŚivaTīrthaKṣetra शिवतीर्थक्षेत्र located in Kaśī काशी and the key tithi-s तिथि with regards to the observations at these Kṣetra तीर्थक्षेत्र. These include - Oṃkāranātha ŚivaTīrthaKṣetra ओंकारनाथ शिवतीर्थक्षेत्र that is a revered spot for those seeking Śivatattvajñāna शिवतत्त्वज्ञान, and worship of Oṃkāranātha ओंकारनाथ is observed especially on Śukla Caturdaśī शुक्ल चतुर्दशी. Pitṛtarpaṇa पितृतर्पण and śrāddha श्राद्ध can be performed at the Oṃkārakuṇḍa ओंकारकुण्ड. Trilocaneśvara ŚivaTīrthaKṣetra त्रिलोचनेश्वर शिवतीर्थक्षेत्र has the Trilocanaliṅga त्रिलोचनलिङ्ग and Pilapilā Kuṇḍa पिलपिला कुण्ड where śrāddha श्राद्ध can be performed especially during Śani Trayodaśī शनि त्रयोदशी and its Pradoṣa प्रदोष. Several other kinds of homam-s homam can also be performed here. Kṛttivāseśvara ŚivaTīrthaKṣetra कृत्तिवासेश्वर शिवतीर्थक्षेत्र has Kṛttivāseśvaraliṅga कृत्तिवासेश्वरलिङ्ग and Kṛttivāseśvarakuṇḍa कृत्तिवासेश्वरकुण्ड; where observations including night vigil, can be made especially on Māgha Kṛṣṇa Caturdaśī माघ कृष्ण चतुर्दशी (amānta अमान्त) and Śivarātri शिवरात्रि towards seeking liberation (mukti मुक्ति). Ṛṇamocan ŚivaTīrthaKṣetra kuṇḍasnānaऋणमोचन् शिवतीर्थक्षेत्र कुण्डस्नान can be performed for relief from various kinds of ṛṇa ऋण, including pitṛṛṇa पितृऋण. Piśācamocana ŚivaTīrthaKṣetra पिशाचमोचन शिवतीर्थक्षेत्र is where observing kuṇḍasnāna कुण्डस्नान and śrāddha श्राद्ध can be performed to seek relief from issues related to pitṛ-s पितृ, piśāca-s पिशाच and bhūta-s भूत. Kālabhairavaprānta कालभैरवप्रान्त has a kuṇḍa कुण्ड for snāna स्नान can be observed especially on Kālāṣṭamī कालाष्टमी i.e. Kārtika Kriṣṇāṣṭamī कार्तिक कृष्णाष्टमी. There also, is a Kāleśvaraliṅga कालेश्वरलिङ्ग, where Bhairava भैरव can be worshiped, and night vigil be observed. Kaśī काशी harbors several ŚivaTīrthaKṣetra शिवतीर्थक्षेत्र that are outlined in ŚivaRahasyam saptāṃśaḥ शिवरहस्यं सप्तांशः. Proofread by Ruma Dewan
% Text title            : Kashisthitan Shivatirthakshetramahatmyam 1
% File name             : kAshIsthitAnshivatIrthakShetramAhAtmyam1.itx
% itxtitle              : shivatIrthakShetramAhAtmyam 1 (kAshIsthitAn shivarahasyAntargatam)
% engtitle              : kAshIsthitAn shivatIrthakShetramAhAtmyam 1
% Category              : shiva, shivarahasya, tIrthakShetra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 11 | 1-105 , 175-181||
% Indexextra            : (Scan)
% Latest update         : March 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org