श्रीकाशीविश्वेस्वरस्तोत्रं अथवा श्रीदीनाक्रन्दनम्
ॐ श्रीगणेशाय नमः ।
चुण्ठीजलैरिव सुखैः परिणामदुःखैः
आस्वादितैरपि मनागविलुप्ततृष्णः ।
श्रान्तोऽस्मि हा भवमरौ सुचिरं चरित्वा
तच्छायया चरणयोः शिव मां भजेथाः ॥ १॥
दुर्वारसंसृतिरुजा भृशकान्दिशीकः
त्वामोषधीपतिभृतं सुकृतैरवाप्य ।
आवेदयामि यदहं तव तन्निदानं
तत्रावधेहि मृड मा कुरु मय्यवज्ञाम् ॥ २॥
दुर्वासनाशतवशादशुचित्वमीक्ष्य
या मे हठात्कृतवती मनसि प्रवेशम् ।
साऽनेकजन्ममरणावटपातनेन
मां राक्षसीव बहु नाथ तुदत्यविद्या ॥ ३॥
घोरे क्षणं विनिपतन्नरके क्षणं च
पुण्यं पदं दिविषदां सहसाऽधिरोहन् ।
मोहेन कन्दुकदशामिव नीयमानः
स्वामिन् सहे किमवधीनि गतागतानि ॥ ४॥
का मे गतिर्विशति नैव मनो विवेकः
स्वप्नेऽपि पक्कणमिव प्रवरो द्विजानाम् ।
रुद्धेऽपि तत्र न स रोढुमलं मुहूर्तं
विश्वेश मौक्तिकमिवोपरि दर्पणस्य ॥ ५॥
पित्रोर्जघन्यरसबिन्दुयुगं गृहीत्वा
हन्तासकृत्पतितवानधिगर्भवासम् ।
तद्दुःखमन्वभवमीश गभीरकुम्भी-
पाको वराक इति यस्य पुरो गृणन्ति ॥ ६॥
तत्र स्थितस्तदनु तत्तदनेकपूर्व-
जन्मान्तरस्मरणविस्मयदुःखितात्मा ।
अस्मान्निसृत्य पुनरुद्भवभङ्गहेतोः
चेतो विधास्य इति चाकरवं प्रतिज्ञाम् ॥ ७॥
तेनाध्वनाथ निसृतोऽस्मि ततः स्मृतेऽपि
यस्मिन्निकाममभिमानधनास्त्रपन्ते ।
संस्पर्शतस्तु शतशः शितिकर्मवायोः
प्रायो निगूढदृढमूढदशामवापम् ॥ ८॥
तिर्यग्दशामिव शनैरविवेकसेकात्
वर्षाण्यवाप्य परमेश्वर पञ्चषाणि ।
तत्तत्कृतं पतदपि स्मृतिसीम्नि यद्यत्
सद्यो ह्रियं जडधियोऽपि हृदि प्रसूते ॥ ९॥
आसाद्य यौवनमथो बहुभिः प्रकारैः
शृङ्गारभङ्ग्यनुगुणैर्गुणिताविवेकः ।
जातोऽस्मि घोरनरकावहकर्मयोगात्
भोगाशया प्रशमितोभयलोकशुद्धिः ॥ १०॥
मोहात्कृतः परिणयोऽप्यनयो महीयान्
मूलं समस्तभवबन्धनदुर्गतीनाम् ।
यस्मादुदेत्य दुरपत्यजनेन सृष्ट-
स्नेहोऽस्मि वेष्टीत इवोत्कटनागपाशैः ॥ ११॥
तत्पोषणाय विदुषाऽपि मया समस्तं
औचित्यमुज्झितवताऽऽत्तवता कुकृत्यम् ।
द्वारि श्ववल्लडितमेव कदीश्वराणां
सोढावमानशतविक्लवमानसेन ॥ १२॥
प्राणाधिकैरथ वियोगमवाप्य तैस्तैः
इष्टैररुन्तुदविषादवशंवदेन (मया)।
स्त्रीवन्मया विलपितं विहितं न किञ्चित्
कृत्यं सतां समुचितं हहहा हतोऽस्मि ॥ १३॥
सांसारिकेषु विषयेषु निपत्य राग-
द्वेषैकनिष्ठहृदयो भगवन्नभूवम् ।
आसीददन्तकभयप्रतिकूलवृत्ति
किञ्चिन्मया न रचितं विदितं न वापि ॥ १४॥
इत्थं न किं व्यवहृतं न किमुक्तमात्तं
किं वा न किं न कलितं ललितं न वापि ।
सर्वत्र तत्र शरणं कृपणस्य मे त्वं
एह्योहि देहि चरणं शिरसीन्दुमौले ॥ १५॥
याः प्रोत्कटा भ्रुकुटयो यमकिङ्कराणां
पीडाश्च या नवनवा नरकावनीपु ।
ताश्चिन्तिता अपि भयाय ममाधुनैव
सोढास्मि ताः कथमहो विषमो विषादः ॥ १६॥
भीतोऽस्मि दुर्गततमोऽस्मि कदर्थितोऽस्मि
पापोऽस्मि विस्मृतसदध्वपरिग्रहोऽस्मि ।
तत्केन केन न पथास्मि कृपाऽऽस्पदं ते
मत्वेति शङ्कर यथोचितमाचरेथाः ॥ १७॥
नो यत्र बन्धुरथ नैव पिता न माता
नो वा सुहृद्धृतिमुपेत्य विधातुमीष्टे ।
तास्वेत्य नाथ मम नारकभूषु कुर्याः
त्राणं त्वमेव हि जगत्सु दयार्द्रचेताः ॥ १८॥
भ्रष्टोऽस्मि यद्यापि सतां चरितात्तथापि
मां त्रातुमर्हसि कृतान्ताभिया श्रयन्तम् ।
प्रेह्वेषु विह्वलतया शरणागतेषु
नो साधवो विदधते सदसद्विवेकम् ॥ १९॥
येष्वन्धकारनिकरेण करालिता भूः
यत्र ज्वलन्ति नरकेष्वनिशं हुताशाः ।
धामत्रयीनयन निर्जरसिन्धुमूर्धन्
तत्रेतरस्त्वमिव कः शरणं नराणाम् ॥ २०॥
प्राग्यावदिन्द्रियगणः पटुशक्तिरासीत्
स्वामिन् स तावदगमद्विषयेषु निष्ठाम् ।
शक्तिक्षयेऽद्य स कथं भजते भवन्तं
जन्मेति मे विफलमीश किमाः करोमि ॥ २१॥
नादायि दानमथ नैव तपो व्यधायि
नासेवि तीर्थदिगसाध्यतरः समाधिः ।
तत्काऽपरत्र गतिरस्त्यनवाप्तपुण्य-
ज्ञानस्य मे भव भवत्स्मृतिमन्तरेण ॥ २२॥
कालान्न मे भयमथो कनके न लिप्सा
नैवास्मि शैशववशेन पयः पिपासुः ।
त्वद्दर्शनाय तु शिव स्पृहयामि लोभात्
तत्रापि किं तव न वा सुकरः प्रकारः ॥ २३॥
यज्जन्म दुर्लभमुशन्ति मनुष्यलोके
तत्प्राप्तमप्यतनुपूर्वशुभप्रभावात् ।
जातं वृथैव मम यत्र मुहुः कदाऽपि
नैवान्वभावि भवदर्चनभक्तिसौख्यम् ॥ २४॥
जातिर्महेश्वर भुजङ्गमपुङ्गवानां
स्तुत्या वरं भवदलङ्कृतिवाहकृत्यैः ।
मानुष्यकं तु मम धिक्कलया कयापि
यन्नोपयोगमगमत्त्वयि मच्छिरीरम् ॥ २५॥
शश्वद्भृशव्यसनितामपि मेऽवधार्य
धत्से कथं परमकारुणिकोऽप्यवज्ञाम् ।
किं नाथ पश्यसि न यत्परिहृत्य शङ्कां
लग्नोऽनिशं शिव शिवेति मम प्रलापः ॥ २६॥
रक्तार्द्रचर्मवसनाय महास्मशान-
धाम्नेऽस्थिभूषणवते फणिकङ्कणाय ।
रक्षःपिशाचसचिवाय बलिं प्रयामः
रूपाय ते हर युगान्तनिशाचराय ॥ २७॥
दिव्योत्तरीयभृति कौस्तुभरत्नभाजि
देवेऽपरे दधतु लुब्धधियोऽनुबन्धम् ।
रूपं दिगम्बरमखण्डनृमुण्डचूडं
भावत्कमेव तु बतेश मम स्पृहायै ॥ २८॥
जीवामि चेदथ पृथुप्रियविप्रयोग-
रोगादयो नरकदुःखभियोऽन्यथाऽपि ।
घ्नन्त्येव मामुभयथाऽप्यसुखोऽहमित्थं
अत्रोचितं हर चर स्वकृपालुतायाः ॥ २९॥
यत्रेन्द्रियाणि विरमन्ति निजक्रियाभ्यः
यात्यान्तरोऽपि करणप्रसरोऽवसादम् ।
प्राणास्त्रुटन्ति च समस्तनिराशभूतं
मामेत्य शङ्कर कुतोऽपि तदा दयेथाः ॥ ३०॥
स्वाशेषपूर्वदुरितस्मरणादुदेति
यत्रासमं भयमसुप्रशमप्रसङ्गे ।
कः कान्दिशीकमनसः शरणं तदा मे
स्वामिंस्तवैव समयः स कृपालुतायाः ॥ ३१॥
अद्यैव यामि शरणं परमेश्वर त्वां
शक्ष्यामि किं तनु तदाऽऽहतसर्वशक्तिः ।
मृत्युर्यदा मम भयाय पतत्यकस्मात्
अन्धस्य वक्त्र इव हस्ततलप्रहारः ॥ ३२॥
आर्तिक्षणे सपदि विस्मर तात मातः
इत्यादिकं च विफलं कृपणापलापम् ।
शर्वेश शङ्कर शिवेति नुतिं भजस्व
जिह्वे यतो विघटतेऽखिलदुःखभारः ॥ ३३॥
स्वास्थ्ये मदात्कति न दुश्चरितानि नाम
नाथ व्यधां गतविवेकतया विशङ्कः ।
संस्मृत्य मृत्युभयमद्य तु विह्वलोऽस्मि
श्रीकण्ठ भोक्तुमपि येन न पारयामि ॥ ३४॥
पूर्वं न चेद्विरचिता तव देव सेवा
तेनैव नैव दयसे श्रयतो ममार्तिम् ।
किं प्रागसंस्तुत इति प्रतिपन्नमूल-
च्छायं गतश्रमरुजं न तरुः करोति ॥ ३५॥
ज्ञानप्रकाशसुलभं शिव दर्शनं ते
जात्यन्धतैव च परं मम तद्वियोगात् ।
तत्तां त्वमेव किल कामपि देहि युक्तिं
व्यक्तिं ययैष्यसि मम श्रममन्तरेण ॥ ३६॥
प्राप्येदृशीमपि मनुष्यदशां न पुण्ये
ज्ञानेऽथवा विधिहतोऽप्यगमं प्रतिष्ठाम् ॥
सामग्र्यसावथ कुतः पुनरप्यतो मां
स्वामिन्नधन्यमनुकम्पितुमर्हसि त्वम् ॥ ३७॥
लीनेन भूरि विषयाध्वनि सौख्यलोभात्
नामापि मोहितधिया कलितं न मृत्योः ।
आसिदतः सपदि तद्भयतो मया किं
शक्यं विधातुमहहा महदाकुलोऽस्मि ॥ ३८॥
या विक्रिया यमभटभ्रुकुटिच्छटानां
पीडाश्च या नवनवा नरकावनीषु ।
ता निर्विशन् भव कथं भवितास्म्यमुत्र
कुत्र व्रजामि शरणं कतरं प्रपद्ये ॥ ३९॥
स्मृत्वाऽप्यहो रविज किङ्कृतहुङ्कृतीनां
मुह्यामि यामि विलयं भयविह्वलात्मा ।
आसन्नमेवमहहा विषमं पुरस्तात्
तत्का गतिर्मम कुकर्मनिमग्नवृत्तेः ॥ ४०॥
आसन्नपापशतसम्भृतघोरपीडः
क्रन्दाम्यनन्यगतिकत्ववशात्पुरस्ते ।
तस्मात्कथं न दयसे त्वरितं कुतश्चित्
आगत्य विश्वमय सान्त्वय मां वराकम् ॥ ४१॥
पश्यन् समानवयसोऽपि यवीयसोऽपि
नक्तन्दिवं यमभटैरपि नीयमानान् ।
आत्मन्यभूवमजरामरताभिमानी
यद्विप्लवादकरवं न शुभं कदाचित् ॥ ४२॥
द्वारे लुठामि करुणं प्रलपामि शम्भो
वाञ्छामि चुम्बितुमथो परिरभ्य च त्वाम् ।
वातूलतामुपगतोऽस्मि तवानुरागात्
हा दुःसहस्त्वयि ममैष दृढोऽनुरागः ॥ ४३॥
कण्ठेऽर्पयत्युरगपाशमसूयया मे
यामिन्यधीशशिख यत्समये कृतान्तः ।
नूनं तदा मुहुरुपैमि फणीन्द्रहार
त्वत्तुल्यतामिति भजे मरणेऽपि हर्षम् ॥ ४४॥
चित्तं न पारदमिव क्षणमुज्झतीदं
चाञ्चल्यविप्लवमयुक्तिविदः प्रभो मे ।
तस्मात्कथं भवति भक्तिरसस्य सिद्धिः
कस्तां विना च भवघोरविपद्विनाशः ॥ ४५॥
स्वामिन्ननुद्गतविवेकलवोऽकृतात्मा
तिर्यग्वदेव दिवसानतिवाहयामि ।
नेता क्षणाच्च वशमन्तकसौनिको मां
आशैव तन्मम कुतः सुगतिप्रसक्त्यै ॥ ४६॥
दुःस्वप्न एष विषमो भवदुःखनामा
स्वामिन् कथं त्यजति मां विगतप्रबोधम् ।
यस्मान्ममानवरतश्रुतभूरिशास्त्र-
तूर्यस्वनैरपि न शाम्यति मोहनिद्रा ॥ ४७॥
कृत्वा पापमसावपोष्यत निजः कायो न दीनो जनः
वैवश्याल्लुठितं चिरं चरणयोः स्त्रीणां गुरूणां न तु ।
लोभोऽकारि मया धने न सुकृते तेनानुतप्ये महत्
किं शक्यं मम तत्र कर्तुमधुना नाथ त्वमेका गतिः ॥ ४८॥
अहं पापी पापक्षपणनिपुणः शङ्कर भवान्
अहं भीतो भीताभयवितरणे ते व्यसनिता ।
अहं दीनो दीनोद्धरणविधिसज्जस्त्वमितरत्
न जानेऽहं वक्तुं कुरु सकलशोच्ये मयि दयाम् ॥ ४९॥
इति परिहृतवान् स्वकाव्यशिल्प-
प्रकटनमाकुलितो भवव्यथाभिः ।
व्यधित गिरिश रम्यदेवजन्मा
तव पुरतो हठदैन्यतः प्रलापान् ॥ ५०॥
एतत्तीव्रं व्रतमुपचितं सैकते सिद्धसिन्धोः
वाराणस्यां शमदमदृशोरेष गाढोऽनुबन्धः ।
दीनाक्रन्दं प्रति पशुपतेरुद्यमश्चाटुकानि
त्यक्त्वा राज्ञां बत मम शुभैस्तन्यते धन्यतेयम् ॥ ५१॥
अभ्रंशे जन्म वंशे सुमहति विहितो वाङ्मयाब्धौ हनूमत्-
संरम्भो दानभोगौ तदनु च रचितौ किञ्चिदौचित्यरीत्या ।
ज्ञात्वा तत्त्वं यतित्वं श्रितमथ मथिता संसृतिर्दुर्निवारा
वाराणस्यां प्रसन्ना स्थितिरिति कृतिनः किं न मे नाम सिद्धम् ॥ ५२॥
ईर्ष्यायै परवादिनां कविकलाकान्ता यतिं मामियं
यच्चुम्बत्यधुनापि तन्मयि भवत्यब्रह्मचर्यं न किम् ।
एतावत्स्खलितं क्षमस्व भगवन् भूयोऽपि तुभ्यं शपे
श्रीविश्वेश्वर देव नैव भवितास्म्यस्या रहस्यातिथिः ॥ ५३॥
नासत्यव्यतिरेकतोऽक्षरमपि प्रायुङ्क्त यद्भारती
नैवान्यत्परबाधतो यदसकृत्सञ्चिन्तितं चेतसा ।
नाकृत्यादितरत्र गात्रमतनोच्चेष्टां यथेष्टं च यत्
सर्वत्रापि मया त्वमेव शरणं तत्राश्रितो धूर्जटे ॥ ५४॥
इति श्रीलोष्टदेवकृतं श्रीदीनाक्रन्दनं नाम
काशीविश्वेश्वरस्तोत्रं सम्पूर्णम् ।
ॐ तत् सत् ।
Encoded by Sivakumar Thyagarajan
Proofread by PSA Easwaran