काशीयात्राविध्युपदेशम्
- शिवपार्वतीसंवादे -
काशी यात्राविधिं वक्ष्ये शृणुसादरमम्बिके ।
नियमा बहवः सन्ति काशीयात्रारतात्मनाम् ॥ ९९॥
ततस्त्वयं समुच्चार्यो मन्त्रः सर्वार्थसाधकः ।
पूजयित्वा विशेषेण लिङ्गरूपिणमीश्वरम् ॥ १०९॥
शिव गौरीपते श्रीमन् भक्तवत्सल शङ्कर ।
काशीयात्रां करिष्येऽहं निर्विघ्नं कुरु सर्वदा ॥ ११०॥
अथ गणेश मन्त्रः
विघ्नेश भक्तवरद विघ्नराज गणाधिप ।
काशीयात्रां करिष्येऽहं निर्विघ्नं कुरुसर्वदा ॥ १११॥
अथ भैरव मन्त्रः
कालभैरव सर्वात्मन् कालनाशकर प्रभो ।
काशीयात्रां करिष्येऽहं निर्विघ्नं कुरु सर्वदा ॥ ११२॥
अथ दुर्गा मन्त्रः
जय दुर्गे जगद्वन्द्ये जय दुर्गे शिवप्रिये ।
काशीयात्रां करिष्येऽयं निर्विघ्नं कुरु सर्वदा ॥ ११३॥
ततो मां वृषभारूढं दिव्यमङ्गलविग्रहम् ।
मुक्तादामपरीताङ्गं मङ्गलप्रदमुत्तमम् ॥ ११४॥
गौरीभूषितवामाङ्गमभयप्रदसत्तमम् ।
ध्यात्वा सम्यक्ततो गच्छेदन्यग्रामं शुभे दिने ॥ ११५॥
निराहारेण निर्गच्छेन्मौनव्रतपरायणः ।
अगृहीत्वोपानह्रादीन्कीटानस्पृश्य भूगतान् ॥ ११६॥
शिव गौरीपते श्रीमन् विश्वनाथ सदाशिव ।
कल्याणदेति सततं स्मरन् मन्त्रमिमं जपन् ॥ ११७॥
रुद्राध्यायस्यचावृत्तिः कर्तव्या विधिपूर्वकम् ।
ततो रुद्राक्षभस्मादि धृत्वा गच्छेद्यथाविधि ॥ १३६॥
एवं प्रयत्नतो नित्यं गन्तव्यं विधिपूर्वकम् ।
यात्राफलेप्सुभिर्मर्त्यैः शैवः शिवपरायणः ॥ १३७॥
कालत्रयेऽपि कर्तव्यं शिवलिङ्गस्य पूजनम् ।
मध्याह्ने शिवतुष्ट्यर्थं भोजनीयाः शिवार्चकाः ॥ १३८॥
ततः शिवकथाः श्राव्याः श्रोतव्याः पापनाशिकाः ।
आसायमतियत्नेन ततः सन्ध्याशिवार्चनम् ॥ १३९॥
एवं यात्रारतैः शैवैर्मद्भक्तैस्तु पदे पदे ।
अश्वमेधफलं पूर्णं प्राप्यते नात्र संशयः ॥ १४०॥
यथा यात्रापरं शैवं दृष्ट्वा तत्पितरः प्रिये ।
अत्यन्तं मोदमानास्ते नृत्यं कुर्वन्ति यत्नतः ॥ १४१॥
नरके पतितानस्मानुद्धरिष्य त्ययं सुतः ।
काश्यां श्राद्धं विशेषेण करिष्यति न संशयः ॥ १४२॥
ज्ञानवापीजलं रम्यं धृवकृतामृतमुत्तमम् ।
दास्यत्यस्मभ्यममलमयं नास्त्यत्र संशयः ॥ १४३॥
ज्ञानवापीतटे रम्ये सोऽयमस्मभ्यमोदरात् ।
श्राद्धं कृत्वा विधानेन पिण्डदानं करिष्यति ॥ १४४॥
स्नात्वाऽयं शिवगङ्गायां वंशोद्धारकरः सुतः ।
श्राद्धं कृत्वा विधानेन पिण्डदानं करिष्यति ॥ १४५॥
अयं कार्कोटके कुण्डे विषदुःखविनाशके ।
स्नात्वा श्राद्धं पिण्डदानं करिष्यति न संशयः ॥ १४६॥
श्रीमदोङ्करकुण्डेऽपि स्नात्वा श्राद्धं करिष्यति ।
पिण्डदानमयं कृष्णतिलैः सार्धं करिष्यति ॥ १४७॥
केदारकुण्डे विमले पिण्डदानं करिष्यति ।
जलं कृष्णतिलैः सार्धं बहुदास्यत्यसंशयम् ॥ १४८॥
पद्भ्यां वा यज्जलं स्पृष्ट्वा काशीस्थमघनाशनम् ।
दास्यत्यक्षय्यममलं दुःखं त्याज्यं ततः परम् ॥ १४९॥
॥ इति शिवरहस्यान्तर्गते काशीयात्राविध्युपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः १२ । वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 12 . vAvRRittashlokAH ..
Notes:
Śiva शिव details to Pārvatī पार्वती about the do's and don't's of Kaśīyātrā काशीयात्रा. Some Śloka-s are collated here for this webpage.
Kaśī काशी harbors several TīrthaKṣetra तीर्थक्षेत्र that are outlined in ŚivaRahasyam saptāṃśaḥ शिवरहस्यं सप्तांशः.
Proofread by Ruma Dewan