काश्याः भैरवमाहात्म्यम् अथवा कालभैरवमाहात्म्यम्

काश्याः भैरवमाहात्म्यम् अथवा कालभैरवमाहात्म्यम्

- शिवपार्वतीसंवादे - अशैवं भैरवो वीक्ष्य दावानलसमप्रभः ॥ ४०३॥ दहिष्यति न सन्देहस्तमशैवं दुरासदम् । अशैवनाशनार्थाय काश्यां श्रीकालभैरवः ॥ ४०४॥ स्थापितोऽस्ति मया देवि सुरगन्धर्वपूजितः । दृश्यते भैरवः काश्यामशैवप्रलयानलः ॥ ४०५॥ चतुर्दशेऽपि भुवने तत्तुल्यो नास्ति शासकः । हन्त्यहं ब्रह्मविष्ण्वादीन् क्रोधसङ्कुलितेक्षणः ॥ ४०६॥ महाकालानलप्रख्यो दुराधर्षो ममाप्ययम् । यातनास्तम्भनिकटे यदा शूलधरः स्थितः ॥ ४०७॥ तदा ममापि सुभगे दुर्निरीक्षो हि भैरवः । एकोऽप्यनेकधा भूत्वा विश्वरूपोऽतिभीषणः ॥ ४०८॥ सञ्चरत्यस्त्रहस्तोऽयं यातनास्तम्भवीथिषु । विग्रहं कालनाथस्य प्रज्वलद्भूधरा इव ॥ ४०९॥ यातनास्तम्भपार्श्वेषु दृश्यन्ते भैरवाः शिवे । अवापुर्भैरवं क्रुद्धं पुरा विष्णुपुरोगमाः ॥ ४१०॥ ते तत्क्रोधानलहताः निपेतुर्भुवि मूर्च्छिताः । ततस्ते युगपर्यन्तं पतिताः पुनरुत्थिताः ॥ ४११॥ शान्ते क्रोधानले नो चेद्यास्यन्ते तेऽपि भस्मताम् । प्रत्याश्रमं प्रतिगृहं प्रविश्यायं तु भैरवः ॥ ४१२॥ अशैवान्पातयेत्प्राज्ञः शिवार्चनपराङ्मुखान् । भस्मोद्धूलितरुद्राक्षधारणादिपराङ्मुखान् ॥ ४१३॥ लिङ्गपूजाविहीनांश्च दृष्ट्वा क्रुद्धो भवत्ययम् । तत्क्रोधो विफलो नैव भविष्यति कदाचन ॥ ४१४॥ यस्मिन् क्रोधोऽस्य तं धोरे पातयत्यस्त्रमण्डले । देवानामपि सर्वेषां शास्ता श्रीकालभैरवः ॥ ४१५॥ तदन्ये तृणभूतास्तु गन्धर्वा मुनयो नराः । भैरवो भीमवेषोऽयं दुर्निरीक्ष्यः सुरैरपि ॥ ४१६॥ यदा क्रोधसमाक्रान्तस्तदा द्रष्टुं न शक्यते । अशैवशासकं क्रूरं प्राप्य श्रीकालभैरवम् ॥ ४१७॥ सुखेन संवसाम्यत्र काश्यां नित्यं वरानने । यदा तु शैवधर्माणां सङ्क्षयः सम्भविष्यति ॥ ४१८॥ अशैवानां तु दुष्टानां दुःखदो भैरवो भवेत् । अशैवानां तदन्यस्तु शासको न भविष्यति ॥ ४१९॥ माहात्म्यं भैरवस्येदं समाख्यातं मया शिवे । सर्वपापक्षयकरं पठतां श‍ृण्वतामपि ॥ ४२०॥ येनेदं पठ्यते प्रातर्माहात्म्यं भैरवस्य तु । न तस्य सर्वथा दुःखं स्वप्नेऽपि कमलानने ॥ ४२१॥ इदं माहात्म्यममलमादित्याभिमुखो यदि । पठति प्रीतिह्रदयो स न प्राप्नोति यातनाम् ॥ ४२२॥ बालग्रहादिरोगेषु रक्षाकरममुत्तमम् । कुष्ठापस्माररोगादिविनाशकमपि प्रिये ॥ ४२३॥ भूर्जपत्रे लिखित्वेदं माहात्म्यं प्रत्यहं शिवे । यः पूजयिष्यति प्राज्ञः स दुःखानि न पश्यति ॥ ४२४॥ एतन्माहात्म्यमन्त्रैस्तु प्रत्यहं भैरवार्चकैः । प्रीणनीयो भीमरूपो भैरवो भीमविक्रमः ॥ ४२५॥ कालाष्टम्यां विशेषेण कालभैरवसन्निधौ । तत्प्रादुर्भावमाहात्म्यं पठनीयं प्रयत्नतः ॥ ४२६॥ श‍ृण्वन् श्रीभैरवस्येमां प्रादुर्भावकथान्नरः । भैरवाचरितः शैवो यातनां नैव पश्यति ॥ ४२७॥ नित्यं भैरवमाहात्म्यं मन्त्रावर्तनपूर्वकम् । प्रदक्षिणादिकं कार्यं श्रद्धया यातनापहम् ॥ ४२८॥ श्री कालभैरवे भक्तिः सदा कार्या प्रयत्नतः । पूजनीयोऽन्वहं पूज्यो देवानामपि शासकः ॥ ४२९॥ देवाश्च सर्वदा भीताः शासकं कालभैरवम् । पूजयन्त्यतियत्नेन प्रत्यहं भीमविक्रमम् ॥ ४३०॥ भैरवादुग्ररूपाद्धि नान्यः काश्यां प्रकाशकः (प्रशासकः) । अशैवादपरः काश्यां शास्योऽपि न वरानने ॥ ४३१॥ अशैवं मृतमालोक्य काश्यां भैरवकिङ्कराः । दीर्घतप्तायसैः शस्त्रैस्ताडयन्त्युरुविक्रमाः ॥ ४३२॥ प्रलयानलसङ्काशो ज्वालामालासमावृतः । कालभैरवकोपाग्निरशैवेन्धनदाहकः ॥ ४३३॥ ततः काश्यां विशेषेण शिवैकपरदैवतैः । शैवैः स्थातव्यमनिशमशैवैर्न कदाचन ॥ ४३४॥ कपाली कुण्डली भीमो भैरवो भीमविक्रमः । व्यालोपवीती कवची शूली शूरः शिवप्रियः ॥ ४३५॥ एतानि दशनामानि पठन् यः प्रणमेत्सदा । शैवः शिवार्चकस्तस्य नास्ति भैरवयातना ॥ ४३६॥ ॥ इति शिवरहस्यान्तर्गते काश्याः भैरवमाहात्म्यं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः ११ । ४०३.२-४३६॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 11 . 403.2-436.. Notes: Śiva शिव reveals to Pārvatī पार्वती the significance of Manifestation and Presence of Bhairava भैरव -- more specifically, Kālabhairava कालभैरव, and His worship, especially during Kālāṣṭamī कालाष्टमी. Śiva शिव mentions about the ten names (daśanāmānī दशनामानि that can protect one against the wrath of Bhairava भैरव. Proofread by Ruma Dewan
% Text title            : Kashyah Bhairavamahatmyam Kalabhairavamahatmyam
% File name             : kAshyAHbhairavamAhAtmyamathavAkAlabhairavamAhAtmyam.itx
% itxtitle              : bhairavamAhAtmyam athavA kAlabhairavamAhAtmyam kAshyAH (shivarahasyAntargatam)
% engtitle              : kAshyAH bhairavamAhAtmyam athavA kAlabhairavamAhAtmyam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 11 | 403.2-436||
% Indexextra            : (Scan)
% Latest update         : March 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org