काश्यि पञ्चक्रोशीयात्रोपदेशम्

काश्यि पञ्चक्रोशीयात्रोपदेशम्

- शिवपार्वतीसंवादे - दिनाष्टकेन विधिवत्पश्चक्रोशप्रदक्षिणम् । कर्तव्यमतियत्नेन भक्तिश्रद्धासमन्वितैः ॥ ३७७॥ मध्ये सर्वेषु तर्थेषु स्नात्वा सम्यग्यथा विधि । श्राद्धं कार्यं प्रयत्नेन स्वाद्वन्नैरतिशोभनैः ॥ ३७८॥ पूजनीयाः प्रयत्नेन पञ्चक्रोशस्य रक्षकाः । यात्राविघ्नहराः सर्वे वन्दनीयाः प्रयत्नतः ॥ ३७९॥ सहस्रकोटिलिङ्गानि दिव्यान्यत्यद्भुतानि च । पञ्चक्रोशमहामार्गे ईष्ठन्ति कमलानने ॥ ३८०॥ बिल्वपत्राक्षताद्यैस्तु तानि यत्नेन सर्वथा । पूजनीयानि लिङ्गानि यथालिङ्गं यथा क्रमम् ॥ ३८१॥ भैरवाणां गणेशानां दुर्गाणां च वरानने । सङ्ख्या न वर्तते तेषां दर्शनं चातिदुर्लभम् ॥ ३८२॥ निराहारेण कुर्वन्ति देवगन्धर्वदानवाः । केचिन्मुनीश्वरा दिव्याः पञ्चक्रोशप्रदक्षिणम् ॥ ३८३॥ पञ्चक्रोशस्य यात्रायां तिलमात्रमपि प्रिये । नातिक्रमेद्यथामार्गं गन्तव्यमपि यत्नतः ॥ ३८४॥ करसञ्चलनं त्यक्त्वा कृताञ्जलिपुटैः सदा । मौने नैव हि कर्तव्यं पञ्चक्रोश प्रदक्षिणम् ॥ ३८५॥ मामेव सर्वदा ध्यात्वा शिवमद्व्यमव्ययम् । मत्कथाश्रवणासक्तैस्तत्कर्तव्यं प्रयत्नतः ॥ ३८६॥ रात्रौ जगरणं कार्यमादिनाष्टकमादरात् । भोजनीयाः प्रयत्नेन शैवा ब्राह्मणपुङ्गवाः ॥ ३८७॥ ततो ममान्तिकं प्राप्य मामभ्यर्च्य सदाशिवम् । यात्रां निवेद्य शुभदां ततः स्वगृहमाविशेत् ॥ ३८८॥ प्रति पक्षेऽपिकर्तव्यं पञ्चक्रोशप्रदक्षिणम् । एवं तु स्थूलमार्गेण पञ्चक्रोश प्रदक्षिणम् । यथाकथञ्चित्कर्तव्यं मनुजैरल्प साधनैः ॥ ३८९॥ यथाशास्त्रं तु तत्कर्तुं देवैरपि न शक्यते । यथाशास्त्रं कृतं चेत्स्यान्मोक्षः स्यादेव तत्क्षणात् ॥ ३९०॥ ब्रह्मविष्ण्वादयो देवाः पञ्चक्रोश प्रदक्षिणम् । एकवारं यथाशास्त्रं कर्तव्यमिति निर्ययुः ॥ ३९१॥ साङ्गं प्रत्येकमेकैकं लिङ्गं सम्पूज्य सादरम् । भैरवान् गणपान्सम्यक्पूजयाम इति प्रियात् ॥ ३९२॥ पञ्चक्रोशस्य यात्रार्थं सङ्कल्प्य विधित्ततः । निर्ययुश्चामराः सर्वे ब्रह्मविष्णु पुरोगमाः ॥ ३९३॥ प्रत्येकं दिव्यलिङ्गानां कुर्वन्तः पूजनं मुदा । रविरक्ताक्षगन्धर्वाः प्रापुर्विंशतिवत्सरैः ॥ ३९४॥ ततो विश्रान्तचित्तास्ते प्रत्येकं विस्मयं गताः । यात्रेयं विधिवत्वर्तुं न शक्यत इति प्रिये ॥ ३९५॥ स्थितानि पश्चाल्लिङ्गनि स्वल्पान्येव पुरः सरम् । बहूनि सन्ति लिङ्गानि दिव्यान्यत्यद्भुतानि च ॥ ३९६॥ गणेश भैरवादीनां गणनैव न सर्वथा । प्रत्येकं पूजनात्कालो भूयानेव गमिष्यति ॥ ३९७॥ क्व तावदायुरस्माकं क्वतावत्पादयोर्बलम् । यावद्देशं यथाशास्त्रं पूजनं मोक्षसाधकम् ॥ ३९८॥ यथाशास्त्रं कृतं चेत्स्यात्पञ्चक्रोश प्रदक्षिणम् । मोक्षोभवति शीघ्रेण तत्तु कर्तुं न शक्यते ॥ ३९९॥ ॥ इति शिवरहस्यान्तर्गते काश्यां पितृकर्मोपदेशं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः १२ । १९४-२२८॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 12 . 194-228.. Notes: Śiva शिव details to Pārvatī पार्वती about the regulations and merits of performing the Pañcakrośī Yātrā पञ्चक्रोशी यात्रा. Proofread by Ruma Dewan
% Text title            : Kashyi Panchakroshiyatropadesham
% File name             : kAshyipanchakroshIyAtropadesham.itx
% itxtitle              : kAshyipanchakroshIyAtropadesham (shivarahasyAntargatam)
% engtitle              : kAshyipanchakroshIyAtropadesham
% Category              : shiva, upadesha, advice, shivarahasya, tIrthakShetra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 12 | 194-228||
% Indexextra            : (Scan)
% Latest update         : March 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org