श्रीकण्ठेशस्तुतिः
(शिष्याशीर्वचनात्मकस्तवाः)
श्रीशाम्भोजभवादिमामरगणप्रस्तूयमानागजा-
चित्ताम्भोरुहबालवासरपते कारुण्यवारान्निधे ।
श्रीविद्याप्रदपादपङ्कजसकृत्प्राणम्रलोकालये
श्रीकण्ठेश महाप्रभोऽव ससुतं श्रीचामराजप्रभुम् ॥ १॥
पापाम्भोनिधिबाडवप्रविलसज्ज्योत्स्नाभदेहच्छवे
कालाहङ्कृतिवारणव्रतविधिप्रावीण्यभाक्शङ्कर ।
प्राणायामपरायणैर्मुनिवरैः सञ्चिन्त्यमूर्तेऽनिशं
श्रीकण्ठेश महाप्रभोऽव ससुतं श्रीचामराजप्रभुम् ॥ २॥
श्रीमच्छङ्करदेशिकेन्द्ररचितव्याख्यानसिंहासना-
धीशश्रीनरसिंहभारतिकराम्भोजार्चिताङ्घ्रिद्वय ।
श्रीवाणीपरिसेवितागतनयासंशोभिताङ्कस्थल
श्रीकण्ठेश महाप्रभोऽव ससुतं श्रीचामराजप्रभुम् ॥ ३॥
हस्त्यश्वादिसमस्तमङ्गनिवहं प्रापय्य वृद्धिं परां
हस्तीन्द्राननकार्तिकेयविलसत्पार्श्वद्वय प्रेमतः ।
दारामात्यसुमित्रबन्धुसहितं श्रीकृष्णराजात्मजं
श्रीकण्ठेश महाप्रभोऽव ससुतं श्रीचामराजप्रभुम् ॥ ४॥
विद्यावृद्धिकृते सभा बहुविधा निर्माय तत्राग्रिमं
दत्त्वा वेतनमादरात्सुविदुषः संस्थाप्य देशे स्वके ।
अध्येतॄन् परिपोषयन्तमनिशं दत्त्वाशनाच्छादने
श्रीकण्ठेश महाप्रभोऽव ससुतं श्रीचामराजप्रभुम् ॥ ५॥
गौरीनाथरमाधवाङ्घ्रिसरसीसञ्जातशृङ्गायित-
स्वान्तं मन्मथगर्वहारिवपुषं कारुण्यरत्नाकरम् ।
देवब्राह्मणभक्तिजन्मसदनं वाणीविलासाश्रयं
श्रीकण्ठेश महाप्रभोऽव ससुतं श्रीचामराजप्रभुम् ॥ ६॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचिता श्रीकण्ठेशस्तुतिः समाप्ता ।
Proofread by PSA Easwaran