शिवलिङ्गक्षेत्राण्येवं कैलासदर्शनमहिमवर्णनम्
॥ हिमावन्प्रति ईश्वरप्रोक्तं शिवलिङ्गक्षेत्राण्येवं कैलासदर्शनमहिमवर्णनम् ॥
(शिवरहस्यान्तर्गते कैलासदर्शनम् - ५)
ईश्वरः (उवाच)
दृष्टः कैलासशैलो मे त्वया नगवरोत्तम ।
दृष्टानि शिवलिङ्गानि सर्वपापहराण्यग ॥ २५.३४॥
काट्यर्बुदानि लिङ्गानि गोपुराण्यत्र सत्तम ।
प्रासादवरसौधाश्च किं दृष्टा मण्टपावलिः ॥ २५.३५॥
सरांसि रत्नकमलभ्राजिष्ण्वन्ति नगोत्तम ।
रत्नानां गिरयोऽप्यद्रे तन्मौलिमणिमण्टपाः ॥ २५.३६॥
कैलासेश्वरलिङ्गं मे दृष्टं मुक्तिप्रदायकं
अम्बिकेशं सदाम्बाया हृदयागारसंस्थितम् ॥ २५.३७॥
गणानां भवनान्यत्र किं दृष्टानि त्वयानग(द्रिप) ।
महावनानि पुष्पोद्यत्सुरभीणि समन्ततः ॥ २५.३८॥
सहस्रलिङ्गधामोद्यत्कलशाली सुपुण्यदा ।
क्रीडारत्नमहासौधपङ्क्ती दृष्टा (पङ्क्तिर्दृष्टा) त्वयानग ॥ २५.३९॥
रम्यं बिल्ववनं दृष्टं मणिलिङ्गोरुमूलकम् ।
पुण्याश्चात्र सभादृष्टास्सेयं मे नर्तनस्य हि (नर्तनस्थली) ॥ २५.४०॥
सहस्रायुतलक्षोद्यत्कोटिस्तम्भोरुमण्टपाः ।
त्वया दृष्टा नगश्रेष्ठ सागरा मेरुपर्वतः ॥ २५.४१॥
शैलप्राकारराजश्री गोपुरालिवृषावली ।
दृष्टं भुवनगोलं ते शिवक्षेत्राण्यपि क्रमात् ॥ २५.४२॥
धन्यस्त्वं नगमूर्धन्य धन्यः कैलासदर्शकः ।
कैलासदर्शनेनाद्य सफलं ते जनुर्नग ॥ २५.४३॥
विष्णुब्रह्मादयो देवास्तथान्ये मुनयो गणाः ।
कैलासदर्शनार्थाय तप्यन्त्यद्यापि ते तपः ॥ २५.४४॥
किं ममैवानुग्रहेणैव (ममैवानुग्रहेण)
कैलासस्याय (मत्कैलासस्य) दर्शनम् ।
महादानैश्च विविधैष्षोडशैश्च नगोत्तम ॥ २५.४५॥
मम कैलासभवनदर्शनं नैव जायते ।
कोटियज्ञतोभिश्च व्रतोपोषणकृच्छ्रकैः ॥ २५.४६/- ॥
मम कैलासभवनदर्शनं नैव जायते ।
अष्टाङ्गयोगैर्विविधैर्यमादिनियमासनैः ॥ २५.४७/४६॥
(अष्टाङ्गयोगैर्विविधैर्नियमादियमासनैः) ॥ २५.४७/४६॥
मम कैलासभवनदर्शनं नैव जायते ।
गवां कोटिप्रदानेनाप्यश्वमातङ्गकोटिभिः ॥ २५.४८/४७॥
(गवां कोटिप्रदाने अश्वमातङ्गकोटिभिः) ॥ २५.४८/४७॥
मम कैलासभवनदर्शनं नैव जायते ।
धनधान्यमणीनाञ्च वस्त्राभरणदानतः ॥ २५.४९॥
मम कैलासभवनदर्शनं नैव जायते ।
तीर्थप्रक्रमकन्यान्नदानैश्च गृहदानतः ॥ २५.५०॥
मम कैलासभवनदर्शनं नैव जायते ।
पानीयधूपदीपादिदानेनापि तपस्विषु ॥ २५.५१॥
मम कैलासभवनदर्शनं नैव जायते ।
वेद वेदान्तवादैश्च वर्णाश्रमरतात्मनाम् ॥ २५.५२॥
मम कैलासभवनदर्शनं नैव जायते ।
किन्तु प्रसादेन मम भक्त्या चैवाप्यनन्यया ॥ २५.५३॥
लभ्यते दर्शनं शैल मम कैलासमौलिगम् ।
अनन्यभावस्सततं भस्मपुण्ड्रोज्ज्वलोऽनिशम् ॥ २५.५४॥
रुद्राक्षहारवलयः पञ्चाक्षरपरायणः ।
रुद्रलिङ्गार्चनपरो रुद्राध्यायजपादरः ॥ २५.५५॥
शिवक्षेत्रैकवसतिस्तेन लभ्योऽयमद्रिराट् ।
किमुक्तेनापि बहुना लभ्योऽयं मदनुग्रहात् ॥ २५.५६॥
न देवो नैव गन्धर्वा ब्रह्मविष्णुमहेश्वराः
मनसा तैरचिन्त्योऽयं कैलासो मम भूधरः ॥ २५.५७॥
॥ इति शिवरहस्यान्तर्गते भवाख्ये कैलासदर्शने हिमावन्प्रति ईश्वरप्रोक्तं शिवलिङ्गक्षेत्राण्येवं कैलासदर्शनमहिमवर्णनम् ॥
- ॥ श्रीशिवरहस्यम् । भवाख्यः द्वितीयांशः । अध्यायः २५ । ३४-५७ ॥
- .. shrIshivarahasyam . bhavAkhyaH dvitIyAMshaH . adhyAyaH 25 - shivavAkyam ..
Notes
Īshvara ईश्वर speaks to Himāvan हिमावन् about his preceding experience of Kailāsadarshana कैलासदर्शन, and continues further to describe the various Śivaliṇga-Kṣetra-s शिवलिङ्गक्षेत्र in the region. Īshvara ईश्वर then outlines the several merits that alone do not earn such a visit, and that these are outweighed by Devotion towards Him.
Śloka numbering differs amongst the two referenced texts.
Proofread by Ruma Dewan