कैलासशैललिङ्गमहिमा

कैलासशैललिङ्गमहिमा

ईश्वरः - पश्य लिङ्गानि मे देवि मणिधामगतान्युमे । धाममौलिमहाकुम्भधाराव्याप्तानि शङ्करि ॥ १॥ चन्द्रचन्दनलिप्तानि त्रिपुण्ड्रोज्वलितानि च । मणिमुन्दरमन्दारपुष्पमौलीनि शङ्करि ॥ २॥ बिल्वोत्तमाङ्गसौन्दर्यसारगर्भाणि पार्वति । वरकाकोदरानद्धफणाभूषणकान्यपि ॥ ३॥ नन्दनानन्दमालाभिश्चन्दनालङ्कृतान्यपि । दावदग्धागरुरसैर्धूपितानि सदाम्बिके ॥ ४॥ दीपितानि मणिज्वालाजालकान्तीनि पश्य मे । यथा मे देवदेवेशि मनो लिङ्गप्रपूजने ॥ ५॥ न तथा जगतो जालनिर्माण मे मनोऽम्बिके । तत्पालने तद्धनने नान्यधर्मेषु मे मनः ॥ ६॥ नगोऽयं मम कैलासस्सर्वानन्दपयोनिधिः । एतस्य तपसा तुष्टः प्रायच्छं वरमुत्तमम् ॥ ७॥ तवमौलो निवत्स्यामि नानालिङ्गसमाश्रयः । प्रलयेनैव नाशोऽस्ति मत्सान्निध्यवलात्तव ॥ ८॥ इत्युक्तो गिरिराजोऽयं ममानन्दप्रदस्सदा । (इत्युक्तो गिरिराजोऽयं ममानन्दप्रदस्शिवः ।) प्रलये सागरास्सर्वे कैलासस्य शतोत्तरे ॥ ९॥ पादमूले स्थितिं देवि यास्यन्ति च नगा अपि । महर्लोकावधि महावीचीकल्लोलसङ्कुलैः ॥ १०॥ सप्तभिः पवनैर्वापि चालितास्ते तदाद्रिजे । हिमाचले मन्दरेऽपि केदारेश्वरसञ्ज्ञकः ॥ ११॥ निवत्स्यामि शुभापाङ्गि सदा लिङ्गाश्रयो हि सः । मेरावयि महादेवि शिखरं मम सुन्दरं ॥ १२॥ तदुत्तरेऽपिकैलासे नानालिङ्गैकभासुरम् । शिखरं तत्र देवैश्च पूजितो निवसाम्यहम् ॥ १३॥ एक एवाहमद्वैतो नीरूपोऽहमिहाद्रिजे । त्वया कैलासशिखरे तुष्टो वासमरोचयम् ॥ १४॥ सर्वावासोऽप्यहं देवि कैलासे निवसाम्यहम् । अनन्तार्बुदलिङ्गानि मम कैलासपर्वते ॥ १५॥ तत्प्रासादमणीरागशिखराद्योदितप्रभाः । तिरस्कृतार्कचन्द्रेन्द्रा न तच्छक्यं हि वर्णितुम् ॥ १६॥ तत्रापि कोटिलिङ्गानां गणना किल सुन्दरि । उत्तमेषु महादेवि तत्रापारेषु पार्वति ॥ १७॥ तत्रापि लिङ्गसाहस्रं ममैव प्रीतिदायकम् । दर्शनात्संस्पर्शनाच्च पूजनान्मोक्षदायकम् ॥ १८॥ विना ज्ञानेन तपसा कर्मणा श्रद्धया शिवे । नयज्ञैर्न व्रताचारैर्योगैस्साङ्ख्यैर्महेश्वरि ॥ १९॥ सागतिर्नैव लभ्येत यथा तल्लिङ्गपूजया । कैलासाचलमौलिस्थलिङ्गानां दर्शनं शिवे ॥ २०॥ दुर्लभं सर्वदेवानां नृणां किमुत शङ्करि । कैलासेश्वरमुख्यानि लिङ्गान्यत्यद्भुतानिच ॥ २१॥ मणिगर्भगृहाधारसंस्थितान्यगजे सदा । प्रोद्यत्कुम्भपताकानि मया सम्पूजितान्यपि ॥ २२॥ प्रातस्सङ्गवसायाह्नप्रदोषेषु महेश्वरि । तेषु लिङ्गावलिं भद्रे श‍ृणु वक्ष्यामि सादरम् ॥ २३॥ कीर्तनश्रवणेनापि पापभेदीनि शङ्करि । स्वर्गापवर्गदान्याशु नृभिस्तङ्कीर्तितान्यपि ॥ २४॥ पूर्वतो मम कैलासे नानालिङ्गकुलेष्वपि । तग्निरेर्दक्षिणे चापि पश्चादपि शुभानने ॥ २५॥ तदुत्तरेऽपि देवेशि नानाज्योतिर्मयानि च । न शक्यं वर्णितुं देवि देवैश्शेषेण भामिनि ॥ २६॥ आद्यं मङ्गलदं देवि कैलासेश्वरसञ्ज्ञितम् । यन्नवेदैरपिज्ञातं वेदान्तैरखिलैरपि ॥ ४२॥ अस्मिन्नेव लयं यान्ति ब्रह्मविष्णुमहेश्वराः । (अत्रैवान्तेलयं यान्ति ब्रह्मविष्णुमहेश्वराः) । लयनात्सर्वजगतां लिङ्गमित्युच्यते बुधैः ॥ ४३॥ ममैव निर्गुणं साक्षाद्रूपमेतन्महेश्वरि । अस्यैव भासा सर्वेऽपि भान्ति लोकाश्चतुर्दश ॥ ४४॥ अस्यैव चेतनात्सर्वजगच्चेतयति प्रिये । अस्यैवानन्दलेशेन सर्वानन्दमयं प्रिये ॥ ४५॥ लिङ्गमेतद्भूमधामसोमधामप्रभाधिकम् । एतद्ब्रह्मैव देवेशि ममैव परमं प्रियम् ॥ ४६॥ यस्मिन्त्सम्पूजितेज्ञातेध्यातेस्वात्मनिशैलजे । लिङ्गीलिङ्गातिगोभातितदिदंलिङ्गमुत्तमम् ॥ ५३॥ नामरूपातिगं भाति कैलासेश्वरसञ्ज्ञितम् । तन्नामानि श‍ृणुष्वार्ये सादरं कमलानने ॥ ५४॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासशैललिङ्गमहिमा ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ३९ - कैलासशैललिङ्गमहिमा । वावृत्तश्लोकाः ॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 39 - kailAsashailalingamahimA . vAvRRittashlokAH .. Notes: Īśvara ईश्वर describes to Devī देवी about His Residence and the several Śivaliṅga-s शिवलिङ्ग at Kailāsa कैलास, especially the Kailāseśvaraliṅga कैलासेश्वरलिङ्ग. Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) शिवरहस्यम् अंशः-१ (माहेश्वराख्य) has several descriptions about Mount Kailāsa कैलास शैल and Śiva शिव. Selected verses from some of the chapters are presented here. Encoded and proofread by Ruma Dewan
% Text title            : Kailasashailalingamahima
% File name             : kailAsashailalingamahimA.itx
% itxtitle              : kailAsashailaliNgamahimA (shivarahasyAntargatA)
% engtitle              : kailAsashailalingamahimA
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 39 - kailAsashailaliNgamahimA | vAvRittashlokAH ||
% Indexextra            : (Scans 1)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org