कैलासतपश्चर्यायां शिवध्यानम्
त्रिणेत्रं नीलकण्ठञ्च राजच्चन्द्रकलाधरं ॥ १०॥
गङ्गातरङ्गविलसत्पद्ममालाविराजितम् ।
भस्मोद्धूलितसर्वाङ्गं जटामुकुटमण्डितम् ॥ ११॥
नागयज्ञोपवीतञ्च फणिभूषाविराजितम् ।
भस्मोद्धूलितसर्वाङ्गं त्रिपुण्ड्रपरिशोभितम् ॥ १२॥
उमया सहितन्देवमङ्गरागोज्वलाङ्गकम् ।
मन्दारकुन्ददामोद्यत्कन्धरालङ्कृतोरसम् ॥ १३॥
करिकृत्तिपटीभास्वत्कटीतटविराजितम् ।
फणिमौलिमहारत्नगणाञ्चितसुकुण्डलम् ॥ १४॥
हीरतारमहासारपद्मरागसुकङ्कणम् ।
आरक्तोरुमहापट्टराजत्पादाम्बुजद्वयम् ॥ १५॥
महार्हवसनं देवं प्रसन्नास्यं सदाशिवम् ।
अष्टमीसोमसङ्काशनखराजिविराजितम् ॥ १६॥
उत्फुल्लपुण्डरीकाक्षवदनं स्मरसुन्दरम् ।
दाडिमीबीजसङ्काशरदनावलिभूषितम् ॥ १७॥
पकबिम्बफलोदाररदमच्छदशोभितम् ।
नीलेन्दीवरसङ्काशमानीलारक्तलोचनम् ॥ १८॥
प्रसादसुमुखं साक्षाज्जगतां साक्षिमीश्वरम् ।
हरिन्मणिनिभाकारां ममाङ्कस्थाञ्च त्वामपि ॥ १९॥
दध्यौनगेन्द्रतिलकः पुष्पधम्मिल्लशोभिताम् ।
चाम्पेयकलिकोद्भामिदिव्यनासाविराजिताम् ॥ २०॥
उद्यत्कविनिभात्यच्छमुक्ताफलसुनासिकाम् ।
सीमन्तरेखासिन्दूरराजत्भालसुशोभिताम् ॥ २१॥
मणिध्वजमहाचापसन्निभभ्रूयुगोज्वलाम् ।
कस्तूरीतिलकोल्लासिभालभागमनोहराम् ॥ २२॥
उद्यदुत्फुल्लनीलाच्छदलरक्तदृशा युताम् ।
हीरसारकणात्यच्छदन्तपङ्क्तिविराजिताम् ॥ २३॥
दाडिमीपुष्पसङ्कनशाधरधारारसां शिवाम् ।
ताम्बूलापूरितमुखीं प्रसन्नां सस्मितामुमाम् ॥ २४॥
तपनोडुपविभ्राजत्कर्णताटङ्कमण्डिताम् ।
कर्णपत्रमणिव्रातभास्वन्मण्डितगण्डकाम् ॥ २५॥
कपोलपालिकादर्शधगद्धगितदिक्तटाम् ।
चम्पकोद्दामकह्लारयकुलाशोकनागकैः ॥ २६॥
मरुद्दमनकोद्भासिमल्लीमुल्लीसरावृताम् ।
वेणुमण्डलरत्नाङ्कचन्द्रखण्डशिखण्डकाम् ॥ २७॥
ग्रैवेयलग्नमणिजसरावलिलसद्गलाम् ।
चिन्ताकल्लोलमुक्ताच्छराजत्पदकसन्ततिम् ॥ २८॥
नवरत्नमणिभ्राजद्धीरहारोरुवक्षजाम् ।
सुरत्नपुष्पगुच्छाच्छधारितायतवेणिकाम् ॥ २९॥
पराकेतोत्थितापारपीतोद्यत्केतकैर्युताम् ।
केतकीगन्धसुभगशीतवातायिताङ्गकाम् ॥ ३०॥
त्रिभङ्गीसुभगाकारतलोदरविराजिताम् ।
तारास्वच्छमहावृत्तमुक्ताहारविराजिताम् ॥ ३१॥
स्फुरत्पदकरत्नाच्छकान्तिकाञ्चितदिक्तटाम् ।
रत्नहारमणीभास्वन्नवरत्नालिशोभिताम् ॥ ३२॥
उन्मत्तकरटीकुम्भसुवर्णाभकुचोज्वलाम् ।
पाटीरसारकस्तूरीचन्द्रचन्दनचर्चिताम् ॥ ३३॥
पटवासागरुभवतैलगन्धैकभासुराम् ।
निचोलरत्नपर्यन्तमुक्ताजाललसत्कुचाम् ॥ ३४॥
त्रिवलीललितोदारसुनाभ्युदरशोभिताम् ।
मृणालनालसुभगरत्नबाहुद्वयाञ्चिताम् ॥ ३५॥
नानादल(नानारत्न)चितानेकबाहुभूषणभूषिताम् ।
नागबन्धफणारत्नलोलितापारमौक्तिकाम् ॥ ३६॥
वङ्किकाफल्लिकाभ्राजद्रवपङ्कजशोभिताम् ।
मणिमाणिक्यखचितहस्तकङ्कणशोभिताम् ॥ ३७॥
रत्नाङ्गुलीयविलसन्नखपङ्क्तिविराजिताम् ।
महाहीराच्छफलकाङ्गुष्ठवेष्टनवेष्टिताम् ॥ ३८॥
तदङ्गुष्ठशिरोत्तुङ्गचलनात्कान्तदिक्तटाम् ।
सुरत्नकाञ्चीखचितनवरत्नप्रभोत्कटाम् ॥ ३९॥
तदधस्ताल्ललत्क्षुद्रघण्टारणितसुन्दराम् ।
दाडिमीफुल्लकुसुमकान्तिरञ्जितचेलिकाम् ॥ ४०॥
रत्नपर्यन्तसाराच्छधाराप्लुष्टकु(क)चोत्तराम् ।
मणिमञ्जीरशिञ्जानलग्नपादाम्बुजद्वयाम् ॥ ४१॥
पदपाथोजकाङ्गुष्ठवेष्टनाग्रोत्थगुच्छकाम् ।
पादाङ्गुलीयभूषाभिरालक्ताङ्कितपद्वयाम् ॥ ४२॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासतपश्चर्यायां शिवध्यानम् ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ४४ - कैलासतपश्चर्या । १०.२-४२॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 44 - kailAsatapashcharyA . 10.2-42..
Notes:
Īśvara ईश्वर narrates to Devī देवी; the Śivadhyāna shivadhyAna performed by Kailāsa कैलास during his tapaścaryā तपश्चर्या.
Encoded and proofread by Ruma Dewan