कैलासवासमहिमा

कैलासवासमहिमा

कैलासाचलवार्तापि न शक्या गमनङ्कथम् । सुरा विष्ण्वादयः पूर्वे ब्रह्मापि भगवद्गणाः ॥ १९॥ मुनयस्तपतेऽद्यापि कैलासनगवीक्षणे । कैलासगमने लिप्सान्धृत्वा ते सुरसत्तमाः ॥ २०॥ शिवप्रसादसिध्यर्थं तप्यन्ते परमन्तपः । केचित्पञ्चाग्निनिरतास्समीरणसुपारणाः ॥ २१॥ वृन्तश्लथछदाशाश्च केचिद्वारिषु संस्थिताः । कटधूमशिखापानाः केचिच्चैवोर्ध्वबाहवः ॥ २२॥ भस्मछन्नाभस्मसंस्थाः केचिच्छ्रीरुद्रजापकाः । भस्माङ्काबिल्वमूलेषुकेचित्पञ्चाक्षरादराः ॥ २३॥ रुद्राक्षवरकोटीराश्शिवनामपरायणाः । केचिल्लिङ्गार्चनपरास्त्रिकालं बिल्वपल्लवैः ॥ २४॥ एवं तपोभिरत्युग्रैस्तप्यन्ति मुनयस्सुराः । सदाशिवप्रसादो हि तेषाम्भावि मुनीश्वराः ॥ २५॥ सर्वलोकेषुगन्तारस्सर्वधर्मपरायणाः । पुनरावृत्तिनस्सर्वे न कैलासगता मुने ॥ २६॥ यतयोऽपि निवर्तन्ते ज्ञाननिर्धूतकल्मषाः । शिवप्रसादलभ्योऽयङ्कैलासो ह्यतिदुर्लभः ॥ २७॥ मेरुश‍ृङ्गगकैलासशिखरेवरशाम्भवाः । पूजया श्रद्धया शम्भोरीशानस्य पदङ्गताः ॥ २८॥ सुखिनस्सम्प्रमोदन्ते स्वर्गकोटिगुणाधिके । महाकैलासगमनमस्माकङ्किं पुनर्नृणाम् ॥ २९॥ शिवप्रसादहीनानां तत्कथाश्रवणं न हि । अनेककोटिकल्पोत्थतपसा प्राप्य एव सः ॥ ३०॥ मेरुमन्दरसङ्काशरत्नस्वर्णादिदानतः । सत्रातिरात्रकलनैर्वेदाध्ययनकोटिभिः ॥ ३१॥ गवाङ्कोटिप्रदानैर्वा विद्यया तपसापि वा । इष्टापूर्तादिधर्मैंर्वा कैलासप्राप्तिरेव न ॥ ३२॥ शिवप्रसादाल्लभ्योऽयं प्रसादो दुर्लभो नृणाम् । देव्या मया गणेशेन नन्द्याद्यैर्गणपैरपि ॥ ३३॥ कैलासबाह्यप्राकारे तपसा याचिता स्थितिः । अनेकयुगसन्तप्ततपसा तोषितश्शिवः ॥ ३४॥ शिवप्रसादेन वयं तद्ब्राह्यशिखराश्रयाः । गण्यन्ते सिकता भूमौ गण्यन्ते दिवि तारकाः ॥ ३५॥ कैलासापारश‍ृङ्गस्थलिङ्गानाङ्गणना न हि । तत्रापि कोटिलिङ्गानामुत्तमानां श्रुता मया ॥ ३६॥ ततोस्पि लक्षलिङ्गानां ततोऽयुतसहस्रकम् । उत्तमानाञ्च देव्यै तद्गदता श्रीशिवेन हि ॥ ३७॥ गणना गण्यते केन कल्पकोटिशतैरपि । अनिर्वचनमायस्य मायिनश्श्रीत्रिशूलिनः ॥ ३८॥ को वेद महिमानं तु तत्र तन्मौलिलिङ्गगम् । स वेद वेदनिश्वासस्सर्वज्ञश्शशिशेखरः ॥ ३९॥ शिवसन्निधिरेव सन्निधिस्स्याद्विबुधाधीशपदाब्जरत्नवारिधिः । जनिनाशप्रभवापराधसन्धिः प्लुतिजापारविशेषतोषगाधिः ॥ ४०॥ निधिरेवाखिलसम्पदां युगाधिर्भवभक्तामलचेतदारिताखिलाधिः ॥ एवङ्कैलासशैलामलशिखरवरैर्मौलिकुम्भैकजालैः तत्रापारशिवालयस्थितमहालिङ्गौघलिङ्गाश्रयैः । ईशापारमनोविलासजनितैर्दृष्ट्वा महेशस्स्वयं बालार्धाकृतिरिन्दुमौलिरनलालङ्कारभालाक्षकः ॥ ४१॥ कालारिः कलधौतशैलशिखरं लिङ्गालिपूर्णङ्करोत् ॥ ४२॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासवासमहिमा ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ३७ - कैलासवासमहिमा । १९-४२॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 37 - kailAsavAsamahimA . 19-42.. Notes: Skanda स्कन्द describes about the merits of residing in the premises of Mount Kailāsa कैलास शैल, and mentions about the aspirantions of sādhaka-s साधकाः to be able to conduct their respective sādhanā-s साधना at or at least near to or around Kailāsa कैलास. Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) शिवरहस्यम् अंशः-१ (माहेश्वराख्य) has several descriptions about Mount Kailāsa कैलास शैल and Śiva शिव. Selected verses from some of the chapters are presented here. Encoded and proofread by Ruma Dewan
% Text title            : Kailasavasamahima
% File name             : kailAsavAsamahimA.itx
% itxtitle              : kailAsavAsamahimA (shivarahasyAntargatA)
% engtitle              : kailAsavAsamahimA
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 37 - kailAsavAsamahimA | 19-42||
% Indexextra            : (Scans 1)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org