कैलासवर्णनम् ४

कैलासवर्णनम् ४

(कैलासशैले गणेशगोपुरवर्णनम् ४) स्कन्दः- पश्चाद्भागे हरिज्योतिहरिन्मणिविराजितम् । पञ्चलक्षप्रमाणेन प्राकारं मणिगोपुरम् ॥ १॥ महामरकतैः कॢप्तगवाक्षावलिभिर्युतम् । अष्टाशीति सहस्राणि योजनैः परिकल्पितम् ॥ २॥ पश्चाद्भागे तु तद्योति हरिन्मणिनिभा दिशः । तत्र गारुत्मतमणीकॢप्तमण्डपशोभितम् ॥ ३॥ उद्यदिन्दकरस्वच्छनिर्यज्झरिभिरावृतम् । तत्राच्छस्फटिकोद्दामसिह्मासनशतैर्वृतम् ॥ ४॥ धूपदीपादिबहुलं नानासुमनावृतम् । मणिमाणिक्यखचितमण्डपे स्वास्तृतासने ॥ ५॥ तस्मिंस्तिष्ठति विश्वेशस्स्वगणैरर्चिताङ्घ्रिकः । सप्तलक्षगणेन्द्रैश्च विघ्नाद्रिकुलिशो महान् ॥ ६॥ नानारत्नचितानेकभूषणैः परिशोभितः । सिन्धूरविलसद्भालो महासिन्धूरवक्त्रकः ॥ ७॥ माणिक्यमुकुटोद्भासिभालचन्द्रविराजितः । शुण्डादण्डमहोच्चण्डबृह्मितानन्दिताम्बरः ॥ ८॥ कुम्भान्तरललन्मुक्तागुच्छसच्छायितास्यकः । कर्णपत्रमणिभ्राजञ्चलत्कर्णयुगछविः ॥ ९॥ दन्तावलिमहारत्नदन्तवेष्टनसुन्दरः । तदधस्ताल्ललन्मुक्तामणिपत्रविराजितः ॥ १०॥ सितभस्मत्रिपुण्ड्राङ्ककुम्भमध्यविराजितः । सिन्धूरतिलकोत्फुल्लवदनानन्दशोभितः ॥ ११॥ मुक्तागुम्फितकर्णाग्रवीजितोड्डीनषट्पदः । स्रवत्कटतटोद्भासि मदगन्धितदिक्तटः ॥ १२॥ शिवपादाम्बुजध्यानानन्दोन्मीलितलोचनः । गणसन्दर्शनानन्दसदोन्मीलितलोचनः ॥ १३॥ महानागनिबद्धोरुपिठरोदरसंयुतः । फुल्लपद्मामलपदस्सुरासुरगणानतः ॥ १४॥ पाशाङ्कुशरदद्योतिमोदकासक्तसत्करः । रत्नाङ्गदैश्च केयूरैर्भ्राजत्करिकरप्रभः ॥ १५॥ पादकॢप्तरणत्सिञ्जद्रत्नमञ्जीरशोभितः । दिव्याङ्गरागसुभगो मणिहाराम्बरावृतः ॥ १६॥ पार्श्वद्वयविराजच्छ्रीसिद्धिबुद्धिविराजितः । सर्वाभरणभूषाभ्यां सेवितः पार्श्वर्द्वयोः ॥ १७॥ गणेन्द्रैश्छत्रदण्डोद्यन्मणिचामरसत्करैः । सेवितश्श्रीगणेशानस्तस्मिन्कैलासमण्डपे ॥ १८॥ चलच्चामरवातैश्च चलत्कर्णाग्रचामराः । तादृशा गणपास्तत्र पाशाङ्कुशधरास्तथा ॥ १९॥ महाबला महोत्साहाः कुठारवरपाणयः । सिन्धूरारुणभालाग्रास्त्रिपुण्ड्रपरिशोभिताः ॥ २०॥ रक्षन्ति ते गणास्तत्र प्राकारं तच्च गोपुरम् । सप्तलक्षामितवला गणेशा गणपास्तथा ॥ २१॥ तत्रैव देवदेवस्य शासनाच्चन्द्रमौलिनः । गणेशोऽपि सदा ध्यायन् गणेशेश्वरपूजकः ॥ २२॥ तत्रेष्टलिङ्गं तस्यैव वरप्राकारगोपुरम् । नवरत्नचितन्दिव्यं मणिस्तम्भचितान्तरम् ॥ २३॥ गणेश्वराख्यं तल्लिङ्गं मणिधामगतं तथा । प्रोद्यत्कुम्भपताकाग्रपवनाधूतसाञ्चलम् ॥ २४॥ स्वपुष्करधृतोत्तुङ्गकुम्भपञ्चामृतैरपि । सुधाधाराभिरासिच्य चन्दनालेपिसुन्दरम् ॥ २५॥ फणामणिमहामौलिरत्नाभरणशोभितम् । सोऽद्यसम्पूजयत्येव बिल्वमन्दारचम्पकैः ॥ २६॥ दूर्वाभिः कमलैरीशं धूपैर्दीपैर्मनोहरैः । नैवेद्यैर्विविधैश्चैव ताम्बूलैश्छत्रचामरैः ॥ २७॥ गानैर्नृत्यैर्मृदङ्गाब्जकाहलानाञ्च निस्वनैः । भस्मरुद्राक्षसम्पन्नस्स्तौति देवं महेश्वरम् ॥ २८॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासशैले गणेशगोपुरवर्णनम् ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः २४ - कैलासवर्णने गणेशकृतस्तुतिः । १-२८॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 24 - kailAsavarNane gaNeshakRRitastutiH . 1-28.. Notes: Skanda स्कन्द describes about the residence of Gaṇeśa गणेश towards the Western region of Mount Kailāsa कैलास शैल, that has predominance of Emerald - viz. Harinmaṇi हरिन्मणि / Marakatamaṇi मरकतमणि / Garutmatmaṇi गरुत्मत्मणि; and mentions about the Gaṇeśvara Śivaliṅga गणेश्वर शिवलिङ्ग that He worships there. Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) शिवरहस्यम् अंशः-१ (माहेश्वराख्य) has several descriptions about Mount Kailāsa कैलास शैल and Śiva शिव. Selected verses from some of the chapters are presented here. Encoded and proofread by Ruma Dewan
% Text title            : Kailasavarnanam 4
% File name             : kailAsavarNanam4.itx
% itxtitle              : kailAsavarNanam 4 kailAsashaile gaNeshagopuravarNanam 4 (shivarahasyAntargatA)
% engtitle              : kailAsavarNanam 4
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 24 - kailAsavarNane gaNeshakRitastutiH | 1-28||
% Indexextra            : (Scans 1, 2)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org