कैलासेश्वरप्रदोषपूजावर्णनम् १

कैलासेश्वरप्रदोषपूजावर्णनम् १

(स्कन्दप्रोक्तं कैलासेश्वरप्रदोषपूजाभाषः १) सूत उवाच - कैलासेश्वरलिङ्गस्य महादेवः सनातनः । वरिवस्यां स्वयं चक्रे (ततश्चक्रे) सर्वपूज्योऽपि शङ्करः ॥ १॥ ऋषयः - स कथं सर्वपूज्योऽपि भगवानगजापतिः । कैलासेश्वरलिङ्गस्य पूजनं कृतवान्वद ॥ २॥ सूत उवाच - एवमेव पुरा पृष्टो जेगीषव्येन शङ्करः । तमाह विनयानम्रं देवसेनापतिः पुरा ॥ ३॥ स्कन्दः - साधु पृष्टन्त्वया विप्र तत्ते वक्ष्यामि साम्प्रतम् । देवदेवस्य चरितं श‍ृण्वतामघनाशनम् ॥ ४॥ स सर्वगोप्यो धर्मात्मा सर्वाकारतया स्थितः । लिङ्गार्चनं हि सर्वेषां विमुक्तिदमिति द्विजाः ॥ ५॥ स्वयं करोति भगवानम्बिकापतिरीश्वरः । भुक्तिदं मुक्तिदञ्चेति सर्वेषां बोधनाय हि ॥ ६॥ संसारसागरेमग्नान्त्समुद्धर्तुम्महेश्वरः । कार्यं सुरासुरैश्चैवं विष्णुब्रह्ममरुद्गणैः ॥ ७॥ देवैर्मुनीन्द्रैर्गणपैर्द्विजैश्चैवाथ शाङ्करैः । पूजैव परं श्रेय इति दर्शयितुं शिवः ॥ ८॥ स्वयं देव्या महादेवः पूजां लिङ्गे करोति हि । तल्लिङ्गपूजनं देव्या शिवेनाकारि तच्छृणु ॥ ९॥ प्रातस्सङ्गवमध्याह्नप्रदोषेषु मुनीश्वराः । नन्दिकेशादिगणपैः रुद्राणीभिस्सदाशिवः ॥ १०॥ पूजाप्रकल्पनं शम्भोश्शम्भुना वरिवस्यया । कैलासेश्वरलिङ्गस्य पूजनन्तच्छृणुष्व मे ॥ ११॥ सप्तसागरपात्रोत्थरसधारादिभिश्शिवः । गणानीतैश्च सम्भारैर्मनसा कल्पनक्षमैः ॥ १२॥ पूजया भोगमोक्षौ च सर्वेषाञ्च प्रदर्शितुम् । करोत्यपचिति शम्भुः कैलासेश्वरपूजनम् ॥ १३॥ जगीषव्यः - तत्पूजन प्रकारं मे कथय श्रवणोद्धतः । एभिर्मुनिवरदेवैर्गणेन्द्रैश्च विशेषतः ॥ १४॥ स्कन्द उवाच - श‍ृणुत्वं देवदेवेन कैलासेश्वरपृजनम् । यथाकृतं महेशेन श‍ृणुत्वं मुक्तिदायकम् ॥ १५॥ श्रवणेनापि भक्तानां सर्वेषां मुक्तिदायकम् । श‍ृणुष्वैकमना विप्र त्वमेभिर्भूसुरैस्सुरैः ॥ १६॥ गणौघैर्नन्दिकेशाद्यैरम्बिकापतिपूजनम् । देव्यै देवेन कथितं पृच्छैन्त्यै शङ्करस्स्वयम् ॥ १७॥ तदवक्ष्यामि समासेन श‍ृणु त्वं पापनाशनम् ॥ - - स्नात्वा कैलासगङ्गातटमणिकलिते मण्डपे शम्भुरीशो । देव्या नन्दीशमुख्यैर्गणवरसहितो भस्मनोद्धूल्य गात्रम् । स्थित्वा लिङ्गालये स्वे मणिगणखचिते स्वासने सन्निविष्ट- श्शिष्टस्सर्वेष्टदाता समसमसमदो ह्यर्चति प्राज्ञवर्यः ॥ १८॥ कृत्वा फालतले त्रिपुण्ड्ररचनां बालेन्दुमौलिस्स्वयं रुद्राक्षामलहारकण्ठवलयः पञ्चास्यपञ्चाक्षरः । किञ्चित्किञ्चिदुदञ्चदञ्चलहृगम्भोजावलीमालिकां वारंवारमिहार्पयत्यगजया जीवज्जयार्थी शिवः ॥ १९॥ तत्रेशानवरस्य पञ्चवरदास्यास्यास्यपञ्चानने- शानस्येश्वरलिङ्गद्भुततमं तत्पञ्चवक्त्रेश्वरम् । तद्वक्त्रामलतो झरीभररसैः पञ्चापगा निस्सृताः कैलासाचलनिम्नगातटमहालिङ्गैकसौधालयाः ॥ २०॥ प्राच्यां रत्नाच्छगङ्गा शिवतरगभवा देवगङ्गाकिलास्ते पश्चात्कैलासगङ्गा तदपरभुविगा रत्नसोपानयुक्ता । तत्रावाच्यां च शुद्धा कमलगणगणैस्संयुतात्युग्रगङ्गा तन्मध्ये ब्रह्मगङ्गा स्फटिकनिभजला पञ्चताः पञ्चतान्ताः ॥ २१॥ एता या मणिलिङ्गपञ्चमुखतस्सन्निस्सृता मण्डपा- त्पुण्याः पुण्यतरङ्गशीतलजलाः कूलङ्कपाख्याः पराः । दिव्यापारशिवालयस्थितमहालिङ्गैकसङ्घाकुला- स्तीरेषु प्रथितोरुमण्डपमणीकॢप्तैस्सुधाब्धिंगमाः ॥ २२॥ नानाबिल्ववनैरपारतरुजैः फुल्लप्रसूनाकुलैः पक्षीणां च रवैश्च तीरवकुलै रक्ताच्छदेहल्लकैः । कोकानाञ्च कुलैस्सुकच्छपमहामीनैर्बकानां कुलै- स्स्तोकैः पोतकचक्रवाककुररैः पुण्यैश्च सत्सारसैः ॥ २३॥ तत्तीरामलमण्डपे मणिमहाकॢप्ते सुसिह्मासने देव्या नन्दिगणेश्वरैर्हरवरः पश्यन्त्सरिन्निर्झरीः । लिङ्गं पञ्चमुखेश्वरं मधुरिमानेत्राञ्चलैशङ्कर- स्तद्वक्त्रामलपङ्कजोद्भवनदीः पुण्यास्तदाहेश्वरः ॥ २४॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासेश्वरप्रदोषपूजावर्णने स्कन्दप्रोक्तं कैलासेश्वरप्रदोषपूजाभाषः ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः १३ - कैलासेश्वरप्रदोषपूजावर्णनम् । १-२४॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 13 - kailAseshvarapradoShapUjAvarNanam . 1-24.. Notes: Skanda स्कन्द; upon being inquired by Jaigīṣavya जैगीषव्य, provides an introductory overview of of Kailāśeśvara-Liṅga Pradoṣa Pūjā कैलाशेश्वरलिङ्गप्रदोष पूजा. Skanda स्कन्द metions about the five Gaṇgā-s पञ्चगङ्गा (viz., Śivagaṇgā शिवगङ्गा, Devagaṇgā देवगङ्गा, Ratnagaṇgā रत्नगङ्गा, Kailāsagaṇgā कैलासगङ्गा and Brahmagaṇgā ब्रह्मगङ्गा) and the Pañcamukheśvaraliṅga पञ्चमुखेश्वरलिङ्गं; and, that the details of the Pūjā पूजा were narrated by Śiva शिव to Devī देवी upon being requested Her. Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) शिवरहस्यम् अंशः-१ (माहेश्वराख्य) has several descriptions about Mount Kailāsa कैलास शैल and Śiva शिव. Selected verses from some of the chapters are presented here. Encoded and proofread by Ruma Dewan
% Text title            : Kailaseshvarapradoshapujavarnanam 1
% File name             : kailAseshvarapradoShapUjAvarNanam1.itx
% itxtitle              : kailAseshvarapradoShapUjAvarNanam 1 kailAseshvarapradoShapUjAbhAShaH 1 (shivarahasyAntargatA)
% engtitle              : kailAseshvarapradoShapUjAvarNanam 1
% Category              : shiva, shivarahasya, pUjA
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 13 - kailAseshvarapradoShapUjAvarNanam | 1-24||
% Indexextra            : (Scans 1, 2)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org