श्रीकेदारसहस्रनामस्तोत्रम्
श्रीगणेशाय नमः ।
श्रीकेदारनाथाय नमः ।
श्रीदक्षिणामूर्तये नमः ।
श्रीरवलनाथाय नमः ।
कदाचित्सञ्चरन्योगी जामदग्न्याश्रमागतः ।
सत्कृतस्नेनतं प्राहश्लक्ष्णं मधुरयागिरा ॥ १॥
मुने रवलनाथस्य रत्नाचलनिवासिनः ।
सहस्रनामस्तोत्रं मे कथयस्व सविस्तरे ॥ २॥
एवं स योगिना पृष्ठो जामदग्न्यरुवाच तम् ।
त्वया रवळनाथस्य यत्पृष्ठो मङ्गलप्रदम् ॥ ३॥
सहस्रनामस्तोत्रं ते शृणुष्व वदतो मम ॥ ४॥
अस्य श्रीकेदारसहस्रनामस्तोत्रमन्त्रस्य जामदग्न्यऋषिः, अनुष्टुप् छन्दः,
श्रीरवलनाथ परमात्मादेवता, श्रीरवलनाथ प्रसादसिध्यर्थे जपे विनियोगः ॥
अथ न्यासः -
ॐ रं अङ्गुष्ठाभ्यां नमः ।
ॐ वं तर्जनीभ्यां नमः ।
ॐ लं मध्यमाभ्यां नमः ।
ॐ नं अनामिकाभ्यां नमः ।
ॐ वं कनिष्ठिकाभ्यां नमः ।
ॐ लं करतलकरपृष्ठाभ्यां नमः ॥
एवं हृदयादि -
ॐ रं हृदयाय नमः ।
ॐ वं शिरसे स्वाहा ।
ॐ लं शिखायै वौषट् ।
ॐ नं कवचाय हुम् ।
ॐ वं नेत्रत्रयाय वौषट् ।
ॐ यं अस्त्राय फट् ॥
अथ ध्यानं -
ध्यायेद्देवं परेशं त्रिगुणगुणमयं ज्योतिरूपस्वरूपं
वामेपात्रं त्रिशूलं डमरूगसहितं खड्गदक्षेविराजम् ।
शेषारूढं सुरेशं क्रमणपदयुगं भक्तकारुण्यगम्यं (कमलपदयुगं)
सर्वाङ्गेलिङ्गभूषं उपवितसहितं नाथमार्गाधिपत्यम् ॥ १॥
दैत्यघ्नं भक्तपालं सकलमघहरं ज्ञानमानन्दचित्तम् ।
सर्वार्थं सर्वरूपं अगुणसगुणदं श्रीपदं नाथरूपम् ॥ २॥
शेषारूढो भवेद्विष्णु त्रिशूलीशिवरूपधृत् ।
उपवीतिभवेद् ब्रह्मा खड्गशक्तिसमन्वितः ॥ ३॥
सर्वदेवमयीमूर्तिः सर्वाराध्यस्वरूपवान् ।
सर्वाचरण मार्गाणां सर्वकर्मफलप्रदः ॥ ४॥
हेतुभूतशरीरस्थं हेतुसाधनवर्जितम् ।
अहेतुक सदानन्दं श्रीनाथप्रकृतीश्वरम् ॥ ५॥
अथ सहस्रनामस्तोत्रम् ।
ॐ श्रीनाथो रेणुकानाथो जगन्नाथो जगाश्रयः ।
श्रीगुरुर्गुरुगम्यश्च गुरुरूपो कृपानिधिः ॥ १॥
गणेशो गणनाथश्च गणपूज्यो गणाश्रयः ।
पीठेशो पीठरूपस्थो पीठपूज्यो सुखावहः ॥ २॥
भैरवो भैरवश्रेष्ठो भैरवायुधधारकः ।
सिद्धिः सिद्धिप्रदः साध्यः सिद्धमण्डलपूजितः ॥ ३॥
बटुरूपो बटुस्वामिन् बटुपालनकारणः ।
पदरूपो पदप्राप्तो पदेशः पदनायकः ॥ ४॥
दूतकर्मो दूतनाथः शाम्भवः शङ्करप्रदः ।
वीरो वीरप्रदः शूरो वीरेशो वरदायकः ॥ ५॥
वीरनाथो वीररूपो वीर आयुधधारकः ।
चतुराश्रमनिष्ठश्च चतुरमूर्तिश्चतुर्भुजः ॥ ६॥
षष्ठीशो घण्टिकारूपः पलसङ्केतवर्धकः । (घटिकानाथः)
नवनाथो नवाङ्कस्थो नवचक्रेश्वरो विभुः ॥ ७॥
वीरावलिप्रियः शान्तो युद्धविक्रमदर्शकः ।
पञ्चपञ्चकतत्त्वस्थतत्त्वातीतस्वरूपकः ॥ ८॥
श्रीमन्तः श्रीकलानाथः श्रेयदः श्रेयवानिधिः । (श्रेयवरिधिः)
मालाधरो मुनिश्रेष्ठो मुनिमानसहंसकः ॥ ९॥ (मनश्रेष्ठो मनोमानसहंसकः)
मन्त्रराजो मन्त्ररूपो मन्त्रपुण्यफलप्रदः ।
गुरुमण्डलरूपस्थो गुरुमण्डलकारणः ॥ १०॥
तिथिमण्डलरूपश्च वृद्धिक्षयविवर्जितः ।
तिथिरूपस्तिथिप्रीतस्तिथिलावण्यसुन्दरः ॥ ११॥
प्रथमः प्रथमाकारो द्वितीयः शक्तिसंयुतः ।
गुणत्रयतृतीयाऽसौ युगरूप चतुर्थकः ॥ १२॥
पञ्चभूतात्मसाक्षीशो ऋतुषड्गुणभावनः ।
सप्तधातुस्वरूपश्च अष्टमः अष्टसिद्धिदः ॥ १३॥
नवनाद नवम्यस्थो दशदिग्रूपधारकः ।
रुद्रएकादशाकारो द्वादशादित्य दीपगः ॥ १४॥
सर्वसिद्धि त्रयोदश्यो मनुरूप चतुर्दशः ।
पूर्णरूप त्रिपञ्चस्थः त्रिपञ्चातीतमानसः ॥ १५॥
रकारो ब्रह्मरूपश्च वकारो विष्णुरव्ययः ।
लकारशिवरूपोऽसौ श्रीनाथप्रकृतीश्वरः ॥ १६॥
अकारादिक्षकारान्तवर्णसङ्करमन्त्रगः ।
व्यञ्जनो व्यञ्जनातीतो विसर्गः स्वरभूषणः ॥ १७॥
अनन्तः अव्ययस्त्वाद्यादिशक्तिवरप्रदः ।
आनन्द आद्यसंस्थान आद्यकारणलक्षणः ॥ १८॥
कर्ता कारयिताकार्यः कार्यकारण भावगः ।
कलानाथः कलातीतः काव्यनाटकबोधकः ॥ १९॥
कालहन्ता कालसाध्यः कालवक्तृ प्रवर्तकः ।
कालाग्नि रुद्रसन्दिप्तः कालान्तक भयङ्करः ॥ २०॥
खड्गीशः खड्गनाथश्चः खड्गशक्तिपरायणः ।
गर्वघ्नो दैत्यसंहर्ता गमागमविवर्जितः ॥ २१॥
घनश्यामो घनानन्दो घनधारा प्रवर्तकः ।
घनकर्ता घनत्राता घनबीज समृद्धिदः ॥ २२॥
ओङ्कारबीज साध्यश्च नादवर्णन साङ्गकः ।
चत्वारि वर्णरूपश्च चतुराश्रम निश्चयः ॥ २३॥
छन्दसार छन्दकर्ता छन्दान्वयधारकः ।
छत्रसिंहासनाधीशो भक्त छत्र समृद्धीमान् ॥ २४॥
जपो जपप्रियो जाप्यो जपसिद्धिप्रदायकः ।
जपसङ्ख्या जपाकारः सर्वमन्त्रजपप्रियः ॥ २५॥
झषरूपधरोदेवो झषवृद्धिविवर्धकः ।
यमशासनकर्ता च यमपूज्यो धनाधिपः ॥ २६॥
टङ्कायुध शिवप्रीतो ठकारो लाङ्गलाश्रयः ।
डमरू प्रीति डामर्यो तन्त्रडामर स्थापकः ॥ २७॥
ढकारढवलाध्यानः पशुपाश विमोचकः ।
नवार्णव जपप्रीतस्तन्त्री विग्रह विग्रहः ॥ २८॥
थकितश्चित्तचित्तस्थो दयारूपो दयाकरः ।
धनदो धननाथश्च धनधान्यप्रदायकः ॥ २९॥
नवरूपो नवश्रेष्ठो नरोत्तमनराधिपः ।
नरसंस्थानकर्ता च नरसर्वत्र व्यापकः ॥ ३०॥
नादो नादप्रियोनाद्यो नादब्रह्माण्डपूरकः ।
नादज्ञान रतो नित्यो नादान्त पददायकः ॥ ३१॥
पलरूपः पलातीतः पलाक्षरलक्षणः ।
पलसङ्ख्याक्षरोवर्ण सङ्ख्या सङ्ख्येयकारकः ॥ ३२॥
फलदः फलदाता च फलकर्ता फलप्रियः ।
फलाश्रयः फलातीतः फलमुक्तिनिरञ्जनः ॥ ३३॥
बलरूपो बलप्रीतो बलाश्रय निराश्रयः ।
बलानन्दो बलग्रामो बलिशो बलनायकः ॥ ३४॥
भविष्यज्ञो भयत्राता भयकर्ता भयारिहा ।
भावनारूपध्यानस्थो भावार्थफलदायकः ॥ ३५॥
मानस्थो मनमध्यस्थो मनमानविवर्जितः ।
मनः सन्तापहर्ता च मनमानसमोहनः ॥ ३६॥
मनःकल्पितकल्पस्थः कल्पनापूरणालयः ।
मनसङ्कल्प सङ्कल्पो मन सङ्कल्पपूरकः ॥ ३७॥
मनः स्वच्छन्दकर्ता च छन्दमानसतोषकः ।
मानसो मानसाक्षिस्थो मानसोल्हासकारणः ॥ ३८॥
मानातीत स्वयं मान्यो भक्तानन्दः समाश्रयः ।
मनःकामादिवाचांशो मनोबुद्धिविवर्जितः ॥ ३९॥
यशस्वीच यशः कर्ता यशेशो यशनायकः ।
यशमार्गो यशप्राप्तो यशमार्गसुदीपकः ॥ ४०॥
रकाराग्निबीजस्थो रवलाख्यानकीर्तनः ।
रत्नप्रभा रत्नदीप्तो रत्नासुरवधोत्सवः ॥ ४१॥
रतिनाथो रतिप्रीतो रतिलावण्यसुन्दरः ।
रमा प्रियकरो रम्यो रमासाम्य महोत्सवः ॥ ४२॥
रत्नाचलनिवासस्थो रत्नभूषणः भूषणः ।
रत्नेशो रत्नदाता च रत्नविक्रमविग्रहः ॥ ४३॥
लययोगो लयध्येयो लयसाधनसाधकः ।
लयालय जितोलभ्यो लब्धवाञ्छाप्रवर्तकः ॥ ४४॥
वर्धमानो वर्धरूपो वृद्धिभक्ति प्रियोत्तमः ।
नवस्थो नवरूपस्थो नवक्रीडापरायणः ॥ ४५॥
वयातीतो वयतृप्तो वरुणो वरुणालयः ।
वर्षाकालो वर्षरूपो वर्षान्तो वर्षणक्रमः ॥ ४६॥
शक्तिरूपः शक्तिदाता सर्वशक्तिपतिप्रभुः ।
शक्तिनाथः शक्तिजितः शक्ति एव उपासकः ॥ ४७॥
षण्मासायन् कर्ता च विषुवादि विभावकः ।
ऋतुकर्ता ऋतुप्रीत ऋतुषट् ग्रहाश्रयः ॥ ४८॥
सर्वत्रः सर्वदापूज्यो सर्वपूजकरक्षकः ।
सर्वसौभाग्यनित्यस्थो नित्यार्चन रताश्रयः ॥ ४९॥
सदाचार रतोनित्यो नित्याश्रयो निराश्रियः ।
सर्ववर्णमयो वर्णो वर्णधर्मपरायणः ॥ ५०॥
सर्वज्ञः सर्वगः सर्वः सर्वजित् सर्वनायकः ।
सर्वान्तरः सर्वव्यापी सर्वकर्मप्रवर्तकः ॥ ५१॥
सर्वार्थसाधकः साध्यः सिद्धिः साधन साधकः ।
साधनोपायदाता च साधना श्रेयदायकः ॥ ५२॥
हयासनसमारूढो हयनाथो हयाधिपः ।
हविर्भोक्ता हविःप्रीतो हव्यवाहनहव्यकृत् ॥ ५३॥
लकारवर्णभेदस्थो लघुरूपो लघुप्रियः ।
स्थूलरूपः स्थूलकार्यःस्थूलास्थूलविशालकः ॥ ५४॥
क्षमारूपो दयासिन्धुः क्षमालक्षणदायकः ।
क्षमाकारो क्षमानाथो क्षमापूरितलोचनः ॥ ५५॥
क्षमाचिन्तनप्रीतस्थ क्षमासाधन साधकः ।
क्षमावन्तातिप्रीतः क्षमासञ्चरणोन्मुखः ॥ ५६॥
ओङ्कारमूलमन्त्रस्थो मातृकार्णवः सम्भवः ।
मातृकाव्यापितब्रह्म मातृकासिद्धिदायकः ॥ ५७॥
षट्चक्रभेदकर्ता च षट्चक्राश्रयदायकः ।
षट्चक्रमातृकाव्याप्तो षट्चक्रवर्णलक्षणः ॥ ५८॥
मूलाधारनिवासश्च गणेशः सिद्धिदायकः ।
स्वाधिष्ठानो ब्रह्मरूपः प्रजाजननकारणः ॥ ५९॥
मणिपूरे महाविष्णुः इच्छाशक्तिसमन्वितः ।
अनाहतो महादेवो द्रव्यशक्तिसमाहितः ॥ ६०॥
जीवरूपो विशुद्धस्थो प्राणशक्तिसुखाश्रयः ।
हङ्क्षार्णगुरुरूपो सौहं मन्त्रार्धः समन्त्रगः ॥ ६१॥
सहस्रारे सहस्राक्षःशीर्षपाद सहस्रवान् ।
सहस्रायुध हस्तस्थो वर्णः साहस्रः कर्णिकः ॥ ६२॥
सञ्चिन्मयसमाधिस्थो बिन्दुरूप सुखाश्रयः ।
सर्वलक्षणसम्पन्नः सर्वत्रः सर्वतोमुखः ॥ ६३॥
सर्वज्ञः प्रीतिचित्तोऽसौ सर्वज्ञानप्रियोत्तमः ।
सर्वसंस्थानदेवस्थः सर्वशक्तिसमन्वितः ॥ ६४॥
सर्वेश्वरसर्वकार्यः कार्याकारणनिर्जिताः ।
ज्योतिरूपो जगत्साक्षी ज्योतिर्विज्ज्योतिराश्रयः ॥ ६५॥
ज्योतिर्लयो ज्योतिर्मूर्तिः ज्योतिःकर्ता जगाश्रयः ।
लिङ्गचिन्हितसर्वाङ्गो लिङ्गार्चनः प्रियोत्तमः ॥ ६६॥
एककालो द्विकालश्च त्रिकालः सार्वकालिकाः ।
कालकर्ता कालनेमी कालसंज्ञाख्य दीपकः ॥ ६७॥
उपासकप्रियोपास्य उपासकः प्रियङ्करः ।
महाकालो महारूपो महाशूरो महोत्सवः ॥ ६८॥
महाभागो महावेगो महायोगो महानिधिः ।
महानिर्वाणरूपस्थः चित्तनिर्वाणदर्शकः ॥ ६९॥
महाबोधो महायोद्धो स्वास्त्रप्रत्यस्त्रः वर्षकः ।
महायाग हविर्भोक्ता महाकर्मफलप्रदः ॥ ७०॥
ब्रह्मयज्ञो ब्रह्मरूपश्च ब्रह्मण्यो ब्राह्मणोत्तमः ।
ब्रह्मकर्मक्रियासक्तः कर्मब्रह्मस्वरूपकः ॥ ७१॥
क्षेत्रज्ञक्षेत्रपालश्च क्षेत्रकीर्तनः वर्धनः ।
क्षात्रधर्मप्रवीणश्च ख्यातिकर्ता क्षयातिगः ॥ ७२॥
विश्वरूपो विश्वकर्ता विश्वासफलदायकः ।
मुनिध्येयो मुनित्राता मुनिमानस हंसगः ॥ ७३॥
इच्छाज्ञान क्रियातीत इच्छाज्ञान क्रियाश्रयः ।
वाञ्छा कल्पलतारूपः कल्पना वाञ्छितप्रदः ॥ ७४॥
कल्पवृक्षः कल्पनस्थः कल्पनाकारमानसः ।
कल्पकर्ता कल्पसाक्षी महाकल्पप्रवर्तकः ॥ ७५॥
सामगायनसुप्रीतः सामवेदः प्रवर्तकः ।
वेदसारो वेदगम्यो वेदवेदाङ्गपारगः ॥ ७६॥
वेदान्तभाष्यरूपस्थो वेदान्तप्रीतिदायकः ।
भाष्यलक्षणवेदान्तः सिद्धान्तः सर्वदर्शकः ॥ ७७॥
शास्त्रार्थशास्त्रकर्ता च शास्त्रमार्गः प्रवर्तकः ।
शास्त्रशासनप्राप्तिस्थः शास्त्राधारो जगन्मयः ॥ ७८॥
अनन्तरूपः नित्यस्थः प्रकाशानन्दरूपकः ।
अखण्डानन्द दाता च पूर्णानन्दस्वरूपवान् ॥ ७९॥
निराधारो निराकारो निर्मलो निर्मलाश्रयः ।
निर्गुणो निर्गुणातीतो निष्कामो निरुपद्रवः ॥ ८०॥
नित्यमुक्तो निर्विकारो निःप्रपञ्चो निराश्रयः ।
नित्यसिध्यो नित्यसाध्यो नित्यानन्दः वरप्रदः ॥ ८१॥
निष्कारणो निष्कलङ्को निरूपाधिर्निरीश्वरः ।
निर्भेदो निरहङ्कारो निश्चितो निरहङ्कृतिः ॥ ८२॥
निर्मोहो मोहनाशश्च निर्ममो ममताहरः ।
निःपापः पापनाशश्च निःक्रोधः क्रोधनाशकः ॥ ८३॥
निःसंशयः संशयघ्नो निर्लोभो लोकनाशकः ।
निर्भावो भावनाशश्च निर्विकल्पो विकल्पहृत ॥ ८४॥
निर्भेदो भेदहन्ता च निर्नाशो मृत्युनाशकः ।
निन्दाद्वेषातीतकर्ता निन्दा द्वेषापहारकः ॥ ८५॥
गोपालो गोमतिप्रीतो गोधनादिप ईश्वरः ।
गोसाक्षी गोप्रवर्ता च गोरक्षको गुहाश्रयः ॥ ८६॥
ग्रहनक्षत्रसारस्थ सारक ज्योतिदायकः ।
तारणाश्रयरूपस्थः तारणाश्रयदायकः ॥ ८७॥
तारको तारकस्वामिन् तारणो तारणाश्रियः ।
एकतारो द्वितारश्च त्रितारो मन्त्रकाश्रयः ॥ ८८॥
एकरूपो एकनाथो बहुरूपस्वरूपवान् ।
लोकसाक्षी त्रिलोकेश त्रिगुणातीतमूर्तिमान् ॥ ८९॥
यज्ञपियो यज्ञकर्ता यजमानस्वरूपवान् ।
यजुर्वेदो यजुः साक्षी यजुर्वेदहविः प्रियः ॥ ९०॥
बालतारुण्यरूपस्थो वृद्धरूपप्रदर्शकः ।
अवस्थात्रयभूतस्थो अवस्था त्रयवर्जितः ॥ ११॥
वाचाचत्वारि निर्माण्यो वाचातीतप्रकाशवान् ।
वाच्यवाचक भावार्थो वाक्यार्थ प्रियमानसः ॥ १२॥
महावाक्यप्रमाणस्थो महावाक्यार्थ प्रबोधकः ।
अर्थसाक्षी अर्थरूपो ज्योतिरूपः प्रकाशवान् ॥ ९३॥
जिताहारो जितक्रोधो जितमानस मानसः ।
परमाणुः प्रमाणस्थो कोटी ब्रह्माण्डनायकः ॥ ९४॥
श्रीकृष्ण द्वारकानाथो गोपिका भोगदायकः ।
कंसारीः पूतनाहन्ता संसार श्रमनाशकः ॥ ९५॥
मुकुन्दो मुक्तिदाता च मुक्तो मुक्तजनाश्रयः ।
मुचुकुन्दवरप्रीतो दैत्यसंहारकारकः ॥ ९६॥
नादासक्तो नादकर्ता वेणुनादनतत्परः ।
गोपिका मनसंहर्ता गोपबालकनायकः ॥ ९७॥
गोवर्धनधरोगुप्तो भावना गुप्तसंज्ञकः ।
भावनापूरणश्रेष्ठो भावाभावविवर्जितः ॥ ९८॥
नरनारायणो विष्णुः कार्याकारणरूपवान् ।
कार्यसाक्षी कार्यरूपी कार्याकार्यः प्रवर्तकः ॥ ९९॥
पन्नगःपन्नगाधीशःपन्नगासनविग्रहः ।
पञ्चाशद्वर्णपीठस्थो पञ्चाक्षरजपप्रियः ॥ १००॥
स्वरविकृति कर्ता च स्वरातीतःस्वयंविभुः ।
स्वर्गतः स्वर्गतेर्दाता नियन्ता नियताश्रयः ॥ १०१॥
भूमिरूपो भूमिकर्ता भूधरो भूधराश्रयः ।
भूतनाथो भूतकर्ता भूतसंहारकारकः ।
भूतावासो भूपतिश्च भूतभद्रप्रदायकः ॥ १०२॥
भविष्यज्ञो भयत्राता भवदो भवहारकः ।
वरदो वरदाता च वरप्रीतो वरप्रदः ॥ १०३॥
कूटस्थःकूटरूपस्थः त्रिकूटो मन्त्रविग्रहः ।
मन्त्रार्थो मन्त्रगम्यश्च मन्त्रांशो मन्त्रभागकः ॥ १०४॥
सिद्धिमन्त्रः सिद्धिदाता जपसिद्धि स्वभागकः ।
नामातीतो नामरूपो नामरूपो गुणाश्रयः ॥ १०५॥
गुणकर्ता गुणत्राता गुणीतो गुणकारकः ।
गुणप्राप्तो गुणाधीशो गुणनिर्गुणहारकः ॥ १०६॥
अकारमन्त्ररूपस्थो आकारातीतभावनः ।
परमैश्वर्यदाता च परमप्रीतिदायकः ॥ १०७॥
परमः परमानन्दपरानन्दः परायणः ।
वैकुण्ठः पीठरूपस्थो वैकुण्ठो विष्णुविग्रहः ॥ १०८॥
कैलासवासी कैलासःशिवरूपीः शिवप्रदः ।
जटाजूटो भूषिताङ्गो भस्मधूसरभूषणः ॥ १०९॥
दिग्वाससो भागसंज्ञो दिगन्तरनिवासकः ।
ध्यानकर्ता ध्यानमूर्ति धारणा धारणप्रियः ॥ ११०॥
सत्त्वस्थस्तत्त्वरूपस्थो तत्त्वातीतोति तत्त्ववित् ।
तत्त्वसाम्यस्तत्त्वगम्यस्तत्त्वार्थस्तत्त्वदर्शकः ॥ ११॥
तत्त्वासनस्तत्त्वमार्गस्तत्त्वान्तस्तत्त्वविग्रहः ।
तत्त्वेश्वरस्तत्त्वनाथ तत्त्वदस्तत्त्वकारणः ॥ ११२॥
दर्शनातीतगोदृश्यो दृश्योतीतोऽतिदर्शकः ।
दर्शनो दर्शनातीतो भावनातिस्वरूपधृक् ॥ ११३॥
मणिपर्वतसंस्थानो मणिभूषणभूषणः ।
मणिप्रीतो मणिस्रष्टा मणिस्थो मणिरूपकः ॥ ११४॥ (मणिश्रेष्ठो)
चिन्तामणिगृहान्तस्थ सर्वचिन्ताविवर्जितः ।
चिन्ताक्रान्तो चित्तभक्तचित्तज्ञ परचिन्तकः ॥ ११५॥
अचिन्त्यो चिन्त्यरूपश्च निश्चित्यो निश्चयात्मकः ।
निश्चयो निश्चयाधीशो निश्चयात्मकदर्शकः ॥ ११६॥
त्रिविक्रमस्त्रिकालज्ञः त्रिधामात्रः स्वयंविभुः ।
त्रिपुरान्तक सुप्रीतो गृहस्थो गृहवासकः ॥ ११७॥
परब्रह्म पञ्चधामा परमात्मा परन्तपः ।
सर्वेश्वरः सर्वमयः सर्वसाक्षी विलक्षणः ॥ ११८॥
मणिद्वीपो द्वीपनाथो द्वीपान्तो द्वीपरक्षकः ।
सप्तसागरकर्ता च सप्तसागरनायकः ॥ ११९॥
महीधरो महीभर्ता महीपालो महीस्वकः ।
महीव्याप्तो व्यक्तरूपः सुव्यक्तो व्यक्तभावनः ॥ १२०॥
सुवेषाढ्यः सुखप्रीतःसुगमो सुगमाश्रयः ।
नारसिंहो वीरसिंहो विराजो रञ्जनाश्रयः ॥ १२१॥
तापत्रयाग्नि सन्तप्तो समाह्लादनचन्द्रमाः ।
तरुणस्तपसाराध्यः तनमध्यस्तनोपहः ॥ १२२॥
पररूपः परध्येयः परदैवत दैवतः ।
ब्रह्मपूज्यो जगत्पूज्यो भक्तपूज्यो वरप्रदः ॥ १२३॥
आश्विनीचाश्व कर्तारो भरणीभरणोत्सवः ।
कृत्तिका कृत्यरूपश्च रोहिणी बीजरोहकः ॥ १२४॥
मृगशीर्ष मृगस्वामी आर्द्राच आर्द्रचित्तकः ।
पुनर्वसु वसुप्रीतः पुष्य पुष्यार्क उत्तमः ॥ १२५॥
आश्लेषा श्लेषनाशश्च मघा मघव गर्जकः ।
पूर्वापूर्वपरदैवं उत्तरा उत्तरोत्तराः ॥ १२६॥
हस्तोहस्त क्रियाशक्तिः चित्राचित्र विचित्रगः ।
स्वातिस्वस्थ मनश्चैव विशाखा विषहारकः ॥ १२७॥
अनुराधा राधिकेशो ज्येष्ठाज्येष्ठप्रियोत्तमः ।
मूलकन्दजगत् स्रष्टा पूर्वाषाढा धनाश्रयः ॥ १२८॥
उत्तराषाढा उद्योगो श्रवणः श्रवणप्रियः ।
धनिष्ठा धनरूपश्च शततारकतारकः ॥ १२९॥
पूर्वाभाद्रपदा भद्रो उत्तराभद्रदायकः ।
रेवतीरवलेशश्च सपिण्डाक्ष रविग्रहः ॥ ११३०॥
अद्वैतद्वैत चित्तस्थो द्वैताद्वैतविवर्जितः ।
अभेद्यःसर्वभेद्यश्च भेदाभेदक बोधकः ॥ १३१॥
लाक्षारस सुवर्णाभो लक्ष्मणो लक्ष्मणाग्रजः ।
अयोध्यावास कर्ता च रामरूप नृपोत्तमः ॥ १३२॥
धनुर्धरो धनुर्वेगो धनुर्भङ्गो धनुर्जितः ।
नृपरूपो नृपाधीशः प्लवङ्गम प्रियोत्तमः ॥ १३३॥
यागरक्षण कर्ता च हयमेध हविर्हविः ।
रावणान्तक रामश्च विभीषण वरप्रदः ॥ १३४॥
दैत्यसंहार कर्ता च अवतारपरोहरिः ।
सीतावरण कर्ता च सीताप्राणप्रियोत्तमः ॥ १३५॥
संविदेशः संविदात्मा संविज्ञानप्रदायकः ।
संवित्कर्ता च भक्तश्च संविदानन्दरूपवान् ॥ १३६॥
संशयातीत सर्वार्थः सर्वसंशय हारकः ।
निःसंशय मनोध्येयः संशयात्माति दूरगः ॥ १३७॥
शिवमन्त्रः शिवप्रीतो दीक्षाशैवस्य भावुकः ।
भूपशिक्षा कृतोभूपो भूपभूपत्वदायकः ॥ १३८॥
सर्वधर्म समायुक्तः सर्वधर्मविवर्धकः ।
धर्मार्थकाममोक्षस्थश्चातुर्वर्गफलप्रदः ॥ १३९॥
इच्छाज्ञानक्रियाकर्ता इच्छाज्ञानस्य साधकः ।
इच्छामय इच्छितश्रीः इच्छितार्थार्थनिश्चयः ॥ १४०॥
रविवंश कुलोत्पन्नः सर्ववंशाधिकारणः ।
सर्वशास्ता सर्ववेत्ता सर्वभोक्ता स्वतृप्तिवान् ॥ १४१॥
भक्तिभावावतारश्च भुक्तिमुक्तिप्रदायकः ।
भक्तसिद्धार्थसिद्धश्च सिद्धिबुद्धिप्रदायकः ॥ १४२॥
वाराणसी वासदाता वाराणसी वरप्रदः ।
वाराणसी नाथरूपो गङ्गामस्तकधारणः ॥ १४३॥
यमुनाप्रियवित्तश्च यमुनातीरः वासकः ।
गङ्गाधरो गिरिपतिर्गजचर्मविभूषणः ॥ १४४॥
पार्वतीशो पर्वतीशो पर्वतो पर्वतालयः ।
पर्वताश्रय कर्ता च लिङ्गपर्वत त्र्यम्बकः ॥ १४५॥
द्वादश ज्योतिर्लिङ्गश्च सर्वलिङ्गस्वरूपवान् ।
लिङ्गदेहो लिङ्गकर्ता लिङ्गपूज्योति दुर्लभः ॥ १४६॥
रुद्रप्रियो रुद्रसेव्यो रुद्ररूपो विराट्कृत् ।
मालारुद्राक्षभूषाङ्गो जपरुद्राक्षतोषकः ॥ १४७॥
सत्यसिन्धु सत्यदाता सत्यकर्ता सदाश्रयः ।
सत्यसाक्षी सत्यलक्ष्मी लक्ष्म्यातीतो मनोहरः ॥ १४८॥
जनको जगदाधीशो जननी जननीस्वरः ।
जगदो जगदाकारो जगद्रूपो जनाश्रयः ॥ १४९॥
सृष्टिस्थितो सृष्टिरूपो स्थितिरूपो स्थितिप्रदः ।
संहाररूपो कालाग्निः कालसंहारकारकः ॥ १५०॥
पञ्चवक्त्र पञ्चभूतस्त्रिनेत्रस्त्रिपुरारिहा ।
सप्तपाताल पादस्थो महदाकाशः शीर्षवान् ॥ १५१॥
जातवेदो महादेवः सद्योजातः श्रुतिः स्मृतिः ।
स्रष्टा सृष्टीकरश्रेष्ठो जयिष्ठो जयवर्धनः ॥ १५२॥
नागभूषो नागनाथो नागरूपो नगाधिपः ।
नागो नागक्रियो नाग्यो नागालय नगान्तकः ॥ १५३॥
अमिता अमृताकारो अमृतामृतरूपगः ।
अमृताकारचित्तस्थो अमृतोद्भव कारणः ॥ १५४॥
अमृताहार नित्यस्थो अमृत इव रूपवान् ।
अमृतांशो अमृताधीशो अमृतप्रीतिवर्धनः ॥ १५५॥
अनिर्देशो अहिशयो अनन्तो जगदाश्रयः ।
श्रेयदः श्रेयरूपश्च श्रेयातीत फलोत्तमः ॥ १५६॥
उत्तमानुत्तम ध्येयो ध्येयातीतोति धेयकृत् ।
ध्रुवसंस्थान दाता च ध्रुवनिश्चयः कारणः ॥ १५७॥
निश्चयो निश्चयश्रेष्ठो निश्चयातीतः निश्चयः ।
निश्चयाश्चित्त रहितश्चित्तनिश्चयकारकः ॥ १५८॥
सुरसः सुरसाक्षी च सारासार विचारणः ।
विचार्य मानमानस्थो विचारातीतधारणः ॥ १५९॥
धारणातीत भावस्थो धारणा चय गोचरः ।
गोचरो गोचरातीतातीव प्रियगोचरः ॥ १६०॥
प्रियातीतप्रियः स्वार्थः स्वार्थ स्वार्थः फलप्रदः ।
अर्थार्थसाक्षी लक्षांशो लक्षालक्षणविग्रहः ॥ १६१॥
विग्रहो विग्रहानाथो भक्तनाथो जनार्दनः ।
जगदीशो जगत् त्राता जगन्मयजगद्गुरुः ॥ १६२॥
गुरुमूर्ति स्वयंवेद्यो वेद्यवेदकरूपकः ।
रूपातीतो रूपकर्ता सर्वरूपार्थदायकः ॥ १६३॥
अर्थदो अर्थमान्यश्च अर्थार्थि अर्थदायकः ।
अर्थांशो अर्थकर्ता च अर्थान्तर मनोगतः ॥ १६४॥
मनोगतो मनस्वामिन् मनोबुद्धिपरायणः ।
बुद्धिप्रदो बुद्धिदाता विबुद्धो जनमानसः ॥ १६५॥
मानसो मानसाकारो मनसातीत मानसः ।
सर्वमानस सम्पूर्णः पूर्णाश्रयः जगत् प्रभुः ॥ १६६॥
विभवो वैभवश्रेष्ठो सर्ववैभवदायकः ।
चतुःषष्ठि कलाश्रेष्ठः सूत्रः षष्ठी कलालयः ॥ १६७॥
पुराण श्रवणाकालः पुराणपुरुषोत्तमः ।
पुरातनः पुराख्यात पूर्वजः पूर्वपूर्वगः ॥ १६८॥
मन्त्रतन्त्रार्थसर्वज्ञः सर्वतन्त्रप्रकाशकः ।
तन्त्रवेत्ता तन्त्रकर्ता तन्त्रान्तरतीदायकः ॥ १६९॥ (तन्त्रानन्तरनिवासकः)
तन्त्रगम्यस्तन्त्रमान्यस्तन्त्रमन्त्रफलप्रदः ।
सर्वतन्त्रार्थ सर्वज्ञस्तन्त्रराजः स्वतन्त्रगः ॥ १७०॥
ब्रह्माण्डकोटिकर्ता च ब्रह्माण्डोदरपूरगः ।
ब्रह्मोपदेशदाता च ब्रह्मज्ञानपदायणः ॥ १७१॥ (ब्रह्मज्ञानपरायणः)
जन्मकर्ता जन्मदाता जन्मकर्मफलप्रदः ।
जन्मनाशो जन्मवेद्यो जन्मान्तर निवासकः ॥ १७२॥
जगद्वन्द्यो जगत्पूज्यो जङ्गमो जङ्गमाश्रयः ।
जगदाधारकर्ता च जगदाधारणाकरः ॥ १७३॥ (जगदाकारकारणः)
नरनारीशरीरस्थो नरनारीस्वभागकः ।
हेतुभूतो हेतुरूपो हेतुसाधनवर्जितः ॥ १७४॥
सर्वधातुस्वरूपस्थः सर्वधातुविवर्जितः ।
स्वयम्भूः शम्भुरूपश्च सर्वसंशयहारकः ॥ १७५॥
सोऽहम्भावस्वभावश्च सोऽहंरूपः प्रदर्शकः । (हंसविग्रहनिग्रहः)
सोऽहमस्मिती नित्यस्थो सोऽहं हंसस्वरूपवान् ॥ १७६॥
सोऽहं हंसस्वरूपश्च हंसविग्रहनिस्पृहः ।
श्वासनिश्वास विश्वासः केदारो रवलेश्वरा ॥ १७७॥
फलश्रुतिः ।
अष्टाधिकसहस्रैस्तु नामसाहस्रमुत्तमम् ।
कीर्तयन्ति सदातेषामिच्छितार्थफलं लभेत् ॥ १७८॥
एककालं द्विकालं वा त्रिकालं नित्यमेव च ।
शत्रुवस्तस्य नश्यन्ति क्षमारूपो भविष्यति ॥ १७९॥
नित्यं सङ्कीर्तनासक्तः कीर्तयेत् पुण्यवासरे ।
सङ्क्रान्तौ विषुवश्चैव पौर्णिमास्यां विशेषतः ॥ १८०॥
पौर्णिमास्यां रविवारे सप्तत्रिवारे (एकविंशतिः) पाठकः ।
स्वप्नेदर्शनमाप्नोति कार्यमार्गोऽपि दृश्यते ॥ १८१॥ (कार्यभोगोऽपि)
रविवारे दशावृत्या रोगनाशो भविष्यति ।
सर्वदा सर्वकार्येषु जपः सिद्धिश्च सर्वदा ॥ १८२॥
धनार्थी धनमाप्नोति यशार्थी यशमाप्नुयात् ।
विद्यार्थी लभते विद्यां ज्ञानार्थी ज्ञानमाप्नुयात् ॥ १८३॥
पुत्रार्थी लभते पुत्रं मोक्षार्थी मोक्षमाप्नुयात् ।
निष्कामं कीर्तयेन्नित्यं ब्रह्मज्ञानमयोभवेत् ॥ १८४॥
बिल्वैर्वा तुलसीपत्रैश्चम्पकैः बकुलादिभिः ।
कल्हारैर्जाति कुसुमैरम्बुजैर्वा तिलाक्षतैः ॥ १८५॥
एभिर्नामसहस्त्रैतु अर्चयेद्भक्तिमान्नरः ।
कुलं तारयते तेषां कल्पकोटी समन्वितः ॥ १८६॥
षट्त्रिंशद्दिनपर्यन्तं त्रिरावृत्या पठेन्नरः ।
एकचित्तो अर्थयुक्तो सत्यवाक्सिद्धिनिश्चयः ॥ १८७॥
द्विमासञ्च त्रिमासञ्च षण्मासं एकभक्तितः ।
आयुःकीर्तिश्च ऐश्वर्यं प्राप्नोत्येव न संशयः ॥ १८८॥
भूपो भूपत्वमाप्नोति वैश्यो धनपतिर्भवेत् ।
सस्यानि बहुशूद्रस्य निश्चितार्थेन सिध्यति ॥ १८९॥
यं यं वाञ्छति यो वर्णः सिद्धिर्भवति वाञ्छति ।
प्रातःस्नात्वा विधानेन नित्यकर्म समाप्य च ॥ १९०॥
सम्यक् पूजाविधिः कुर्यान्नामपाठस्तदन्तरम् ।
पूजा कर्तुमशक्तोऽपि पूजाफलमवाप्नुयात् ॥ १९१॥
इति श्रीब्रह्माण्डपुराणे केदारमाहात्म्ये जमदग्नि अगस्ति संवादे
जमदग्नि प्रोक्तं श्रीकेदारसहस्रनामस्तोत्रं सम्पूर्णम् ।
श्रीकेदारनाथचरणार्पणमस्तु ॥
॥ शुभं भवतु ॥
Although it is mentioned in colophone that
the stotra is in Brahmandapurana, the
location is not traceable in the printed book.
Proofread by Aruna Narayanan