केदारनाथमहिम

केदारनाथमहिम

Kedaranatha Mahima or Kedareshashivastuti Varnanam by Dikpalas and Devatas केदारनाथमहिम अथवा दिक्पालादिकृत केदारेशशिवस्तुति वर्णनम् देव्युवाच - श्रुतं बाणासुराख्यानं भवतः परमेश्वर । केदारस्थानमहिमां वदाद्य शिव शङ्कर ॥ १॥ सूतः - महादेवो महेशान्या पृष्टो दक्षमखान्तकृत् । देवीं प्राहारविन्दाक्षः केदारस्थानवैभवम् ॥ २॥ ईश्वरः - अस्ति क्षेत्रवरं देवि केदारं भुवि विश्रुतम् । तत्क्षेत्रमहिमा सुभ्रु वेदैर्न ज्ञायते शिवे ॥ ३॥ तस्मिन् क्षेत्रवरे देवि ब्रह्माद्या विबुवोत्तमाः । निवसन्ति महाभागे केदारेश्वरपूजकाः ॥ ४॥ तल्लिङ्गसदृशं लिङ्गं न भूतं न भविष्यति । हित्वा कैलासशिखरं गिरीशो वसतीश्वरः ॥ ५॥ सदा तत्र महाशैवा वसन्ति शिवतत्पराः । भस्मरुद्राक्षवीताङ्गा त्रिपुण्ड्रावलिभासुराः ॥ ६॥ केदारेशस्य देवस्य नित्यमाराधने रताः । षट्सहस्रं फलाहारा वाय्वाहाराश्च पञ्चकम् ॥ ७॥ त्रिसहस्राम्बुपर्णाशा भासुराः शिवतत्पराः । च्यवना भार्गवाश्चैव भारद्वाजाश्च काश्यपाः ॥ ८॥ मौद्गल्या वीतहव्याश्च वैश्वामित्रात्रिसम्भवाः । मत्पादपूजकाः सर्वे केदारक्षेत्रवासिनः ॥ ९॥ ब्राह्मणा ब्रह्मसदृशाः ऋग्यजुःसामपारगाः । निवसन्ति सदा देवि मम लिङ्गार्चने रताः ॥ १०॥ पञ्चाग्निनिरताः केचित्त्रेताग्निशरणाः परे । नारदाद्याश्च मुनयो वसन्ति सततं शिवे ॥ ११॥ गन्धर्वाः सिद्धनागाद्या यक्षाः किम्पुरुषाः सदा । पत्नीभिः शैलशिखरे केदारश्वरसेविनः ॥ १२॥ मामाराध्यं समाराध्य ब्रह्मविष्ण्वादयः सुराः । स्वं स्वं स्थानमवापुस्ते केदारेशसमर्चनात् ॥ १३॥ अत्र केदारनाथं यो शिवरात्रौ चतुर्दशीम् । उपोष्य प्रयतो भक्त्या देवि यामचतुष्टयम् ॥ १४॥ पूजां कुर्याद्बिल्वपत्रैः स मोक्षमधिगच्छति । अन्यत्र कोटिलिङ्गार्चाफलं यत् सुरसत्तमे ॥ १५॥ केदारेश्वरमौलौ तु एकबिल्वार्पणाद्धि तत् । एकं वा भोजयेद्विप्रं केदारे कोटि तद्भवेत् ॥ १६॥ भोजयेच्छैवमेकं तु तदनन्तफलं स्मृतम् । तस्य केदारनाथस्य कुण्डं पर्वतमूर्धनि ॥ १७॥ ख्यातं केदारकुण्डं तदुत्फुल्लकमलोज्ज्वलम् । तत्कुण्डपूतपानीयैः स्नात्वा सन्तर्पयेत्पितॄन् ॥ १८॥ पितरस्तृप्तिमायान्ति द्वादशाब्दं सुरेश्वरि । पुरान्धकासुरं हत्वा तच्छूलाग्रेण शङ्करि ॥ १९॥ त्वत्पितुः शिखरे पुण्ये त्वया तत्खानितं सरः । तस्मिन्सरसि विस्तीर्णे त्वत्तटे त्वत्तपोवनम् ॥ २०॥ मत्प्रीयते त्वया देवि विचीर्णाऽत्र तपःक्रिया । तत्तीरे स्थापितं लिङ्गं त्वया गौरीश्वराभिधम् ॥ २१॥ तल्लिङ्गदर्शनादेव मम लोके महीयते । वसिष्ठात्रिमृकण्ड्वाद्या भरद्वाजपराशरौ ॥ २२॥ दुर्वासा गौतमाद्याश्च भृगुकुम्भोद्भवादयः । दधीच्याङ्गिरसोचथ्याः जामदग्न्यो महाबलः ॥ २३॥ क्षेत्रमुत्साद्य विप्रेन्द्रैः प्रार्थितः शममागतः । हिमवन्मूर्ध्नि सरसस्तीरे तप्यन्ति तापसाः ॥ २४॥ केदारनाथं दृष्ट्वा मां पूज्य बिल्वैः सुकोमलैः । उपहारैश्च विविधैरपारैः फलमण्डलैः ॥ २५॥ ईश्वरः - तद्गौरीसरसि स्नात्वा पुण्ये पापौघहारिणि । वृत्रं हत्वाथ जम्भारिर्वज्रेणासुरसत्तमम् ॥ २६॥ छद्मना स्वच्छसरसि गौर्याख्ये पापनुत्तये । स्नात्वा सुरगणैः सार्धं वृत्रहा शुद्धिमागतः ॥ २७॥ केदारनाथं दृष्ट्वा मां शक्रः सुरगणैः सह । तुष्टाव मां तदा भक्त्या तत्सुतिं श्रृणु शाम्भवि ॥ २८॥ इन्द्रः - शम्भो विश्वेश भर्ग त्रिनयन भगवन्कालकालान्धकारे पुरहर दुरिताहे घोररूपान्तकारे । शमय शमय दुःखं दैत्यवर्गारियुद्ध ज्वरहर भयहारिन् पाहिं केदारनाथ ॥ २९॥ ईश्वरः - शक्रः केदारनाथं मामेवं स्तुत्वा प्रणम्य च । विहाय पापं तद्देवि त्रिविष्टपमगात् तदा ॥ ३०॥ वरुणोऽपि महादेवि विप्रभार्यां पुराऽहरत् । उचथ्यस्य बलात पाशी कामबाणप्रपीडितः ॥ ३१॥ जलोदरमहारोगग्राहग्रस्तोऽभवच्छिवे । प्रणम्य मां महादेवि केदारेशं प्रपूज्य च ॥ ३२॥ विमुक्तस्तेन पापेन मां स्तुत्वैव स भक्तितः ॥ ३३॥ वरुणः - मारमार करवीरसुमाढ्य स्रग्धरामरवारादिसुपूज्य । संस्थितामरगणेन्द्रभूधर पाहि मामखिलपारदवीर्य ॥ ३४॥ ईश्वरः - स्तुत्वैवं पाशहस्तो मां नत्वा सम्पूज्य मा शिवे । ययौ स्थानं स नीरोगो मुक्तमेघ इवोडुराट् ॥ ३५॥ माण्डव्येनापि सुभगे शप्तश्चण्डांशुनन्दनः । शापमुक्त्यै स केदारं मां प्रणम्याथ शूलिनम् ॥ ३६॥ बिल्वपत्रैः समभ्यर्च्य स्नात्वा गौरीसरित्तटे । पुण्याग्निसप्तकैर्मन्त्रैः समुद्धूल्य स्वकां तनुम् ॥ ३७॥ तुष्टाव मां विशुद्धात्मा केदारेशं महेश्वरम् । यमः - तस्थुषस्पतिमहो भगवन्तं बभ्रुशं च हरिकेशमुदारम् । मृगं न भीममुपहत्नुमुग्रं प्रसाद्य पापैर्न बिभेमि शम्भो ॥ ३८॥ ईश्वरः - एवं मामम्बिके स्तुत्वा मुक्तशापः स सूर्यजः । जगाम दक्षिणामाशां पितृभिः परिपालिताम् ॥ ३९॥ कुबेरो यक्षराड्देवि पौलस्त्येनाथ निर्जितः । जगाम परमामार्तिं मां केदारं प्रणम्य च ॥ ४०॥ संस्नाय गौरीसरसि भस्मरुद्राक्षभूषणः । तत्कुण्डशोधितैर्नीरैर्बिल्वपत्रैः समर्च्य च ॥ ४१॥ यक्षराण्मां विरूपाक्षमस्तौषीज्जगदम्बिके ॥ ४२॥ कुबेरः - मीढुष्टमः शिवतमस्त्वमसि प्रसिद्धं सिद्धान्तसारमहिमन् मृडयाशु शम्भो । संसारघोरविपिनोद्भवदावदग्धं त्वन्मूर्धचन्द्रकिरणैर्मम शीतयाङ्गम् ॥ ४३॥ ईश्वरः - इत्थं स यक्षराड्देवि स्तुत्वा मामगजापतिम् । धनाधिपत्यं सम्प्राप उत्तराशापतिस्तदा ॥ ४४॥ एवं दिशानामधिपा विदिशां पतयस्तथा । अभीष्टं प्रापुरत्यर्थं मामाराध्यैव भक्तितः ॥ ४५॥ अग्निश्च निरृतिर्वायुरीशानो मद्गणोत्तमः । सत्सारूप्यं मुदा प्राप मां केदारं समर्चयन् ॥ ४६॥ तुष्टुवुर्विदिशां नाथा विप्रशापप्रपीडिताः । अग्निश्च सर्वभक्षत्वं निरृतिः पापकारिताम् ॥ ४७॥ वायुरायासराहित्यमीशानो मत्स्वरूपताम् । अग्निवायुनिरृतीशानाः - महादेवो देवः सकलजगदाराध्यचरणो जगद्रक्षाशिक्षास्थितिजननचातुर्यकरणः । हरिर्ब्रह्मा स्कन्दो गणपतिरुमा शक्रदितिजास्त्वधर्वाणेषु त्वं प्रथितयशसो वै तव नमः ॥ ४८॥ ईश्वरः - एवं स्तुत्वाऽथ ते सर्वे विदिशां पतयस्तथा । लेभिरे परमां सिद्धिं केदारश्वरपूजनाम् ॥ ४९॥ मुनयश्चापि देवेशि विश्वामित्रोऽत्रिरङ्गिराः । तेपुस्तपो महाघोरं ज्वलत्पञ्चाग्निमध्यगाः ॥ ५०॥ ब्राह्मण्यप्राप्तये देवि विश्वामित्रेण संस्तुतः ॥ ५१॥ विश्वामित्रः - गायत्र्या प्रतिपादितोऽसि भगवन् संसारसम्भर्जको भर्गस्त्वं सवितुर्वरेण्यमहसस्त्वां सर्वदा धीमहि । तेजस्त्वात्मगतं दिनोदयविधौ विप्रादिभिर्ध्यायसे बुद्धिं निश्चयकारिणीं च भगवन् सञ्चोदयस्यान्तरः ॥ ५२॥ अत्रिः पुत्रविहीनश्च रिरिचानोऽन्वतप्यत । और्वाय पुत्रान् दत्वा स्वान् पुत्रानाप्तुं तदाद्रिजे ॥ ५३॥ इष्टवांश्चातिरात्रेण ह्यस्मिन् भूधरसत्तमे । मां स्तुत्वा चाम्बिके पुत्रांश्चतुरः प्राप्तवांस्तदा ॥ ५४॥ अत्रिः - राजानं त्वामध्वरेश च रुद्रं होतारं त्वा सत्ययुजं च रोदस्योः । विद्युत्पातसमादचित्तमरणात्पूर्वं शिवं शाश्वतं प्राप्तोऽस्म्यन्वहमेकमेव शरणं हिरण्यरूपमवसे कृणुध्वम् ॥ ५५॥ मन्त्रार्थवादविधिषु श्रुतिषु प्रवृत्ताः तासु क्रिया मखशतोत्थफलैर्विचित्रैः । पोषं रयिं स्वर्गमथ प्रजां पशून् पुष्टिं प्रतिष्ठां च तथोजसि त्वम् ॥ ५६॥ तत्र प्ररोचकपदेषु निविष्टचित्ताः किं नश्वरैः फलगणैः प्रमथाधिनाथ । त्वामध्वरेश्वरमहो फलदानशीलं नाराधयन्ति सहसा जडबुद्धयस्ते ॥ ५७॥ अङ्गिराश्च महादेवि केदारेशमथास्तवीत् । भ्रात्रा विनिकृतः पूर्वं दौरात्म्यौद्धत्यगर्विणा ॥ ५८॥ अङ्गिराः - तथ्यं त्वदीयजन इत्ययि सामिचन्द्रचूड प्रभो मयि महाघसमुद्रकाये । त्वं वेदगीत अधिवक्तृतया प्रसिद्ध पाहीश मामधिकया सहमान शम्भो ॥ ५९॥ एवं स्तुत्वाऽथ मुनयः स्वाभीष्टं प्रापुरम्बिके । केदारेशप्रसादेन अन्ये सर्वे मरुद्गणाः ॥ ६०॥ सूतः - को वा केदारलिङ्गं जनिशतविततापारपापैकभङ्गं प्रालेयाचलकन्यकापरिलसद्वामाङ्गसङ्गं सदा । दृष्ट्वाऽनङ्गभुजङ्गसङ्गजनितामन्दाङ्गकोपस्फुरत्भालापाङ्गकृताङ्गसङ्गरहितं श्रीशङ्गमीशं भजे ॥ ६१॥ ॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे केदारनाथमहिम अथवा दिक्पालादिकृत केदारेशशिवस्तुति वर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः ११॥ - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 11.. Notes: The Kedarnatha Jyotirlinga is located in Kedaranatha Shiva Kshetra, near Kedara Kunda. Shiva describes the merit of worshipping at Kedaresha, especially during Shivaratri and (Krishna) Chaturdashi tithi-s. The Dikpala-s and Rishi-s (Vishvamitra, Atri and Angiras) worshipped Kedareshwara Shiva with the above mentioned Stuti. Kedaranatha Shiva Kshetra is also an abode to Shivalingas known as Gaurishwara, Nandishwara, Skandeshwara and Ganeshwara. The shloka numbers are maintained per the source text. Proofread by Ruma Dewan
% Text title            : Kedaranatha Mahima or Kedareshashivastuti Varnanam by Dikpalas and Devatas
% File name             : kedAreshashivastutivarNanamkedAranAthamahimadikpAlAdikRRita.itx
% itxtitle              : kedAreshashivastutiH evaM kedAranAthamahima dikpAlAdikRitA (shivarahasyAntargatA)
% engtitle              : kedAreshashivastutiH evaM kedAranAthamahima dikpAlAdikRitA
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 11||
% Indexextra            : (Scan)
% Latest update         : June 18, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org