कुमारकृता शिवस्तुतिः
कुमारः -
संसार दुःखविनिवारकमिन्दुमौलिमाखण्डलादिसुरवन्दितपादमूलम् ।
आजानुदीर्घकरपद्मधृतोर्ध्वशूलं वन्दामहे गलतलस्थितनीलजालम् ॥ १२॥
देवाधिदेव इति शङ्कर एव वेदैः वृन्दारकैरपि तथा मुनिसिद्धवृन्दैः ।
यः संस्तुतो मुहुरपारगुणप्रवाहस्तं तावदादरभरैः वयमाश्रयामः ॥ १३॥
यः भाललोचन इति प्रथितः सुरेषु यश्चन्द्रखण्डललितोन्नतदीर्घमौलिः ।
यः सर्वदेवमुनिकिन्नरसिद्धसेव्यः तं शैलराजतनयापतिमाश्रयामः ॥ १४॥
यः सृष्टिपालनविनाशकरोऽतिशूरो गौरीविहारचतुरो मुहुरादरेण ।
यः कालजातभयजातनिवारकोऽपि तं नीलकण्ठमनिशं शरणं व्रजामः ॥ १५॥
अस्माभिरीश्वरपदाम्बुजरेणुगौरगौरीकराननविलोचन चिन्तनेन ।
नेयं वयो न वयमन्यदुपाश्रयामः प्राणप्रयाणसमयेऽपि शिवे शयामः ॥ १६॥
गौरीमनोरमणचारुभुजान्तरालकाश्मीरसारघनसाररसातिगौरम् ।
हारातिधीरमरुणारुणरेणुवाणीपूरातिशोणचरणाम्बुरुहं भजामः ॥ १७॥
गौरीमनोरमणचारुकराङ्घ्रिपद्मसद्भानुधावननिधानमनःप्रसादैः ।
अस्तावसादगिरयो गिरिराजकन्याविन्यस्तहस्तमनिशं शरणं व्रजामः ॥ १८॥
॥ इति शिवरहस्यान्तर्गते प्रलयानलप्रति कूर्मप्रोक्तं शिवार्चनमहिमवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ३७। १२-१८ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 37. 12-18 ..
Proofread by Ruma Dewan