श्री कुञ्चिताङ्घ्रिस्तवः

श्री कुञ्चिताङ्घ्रिस्तवः

श्रीमदुमापतिशिवप्रणीतः श्रीगणेशाय नमः । श्री चित्सभेशाय मङ्गलम् ॥ कुञ्चिताङ्घ्रिं नमस्कृत्य कुण्डलीकृतगायकम् । कुञ्चिताङ्घ्रिं स्तवं वक्ष्ये ब्रह्मनिष्ठ उमापतिः ॥ ब्रह्माण्डं यस्य देहं रविजदिशिपदो वक्त्रवृन्दान्युदीच्यां तद्वैराजान्तरङ्गे विलसति हृदयाम्भोरुहे दक्षिणाग्रे । मध्ये सम्मेलनाख्ये मुनिवरमनसा भाविते यन्त्रराजे यश्शक्त्या नृत्यतीशस्तमपि नटपतिं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १॥ पञ्चाशत्कोटिसङ्ख्या परिमितधरणि श्रीविराडाख्यधात्रो- रेकस्वान्ताब्जभित्तिस्थित कनकमहायन्त्रराट्कर्णिकायाम् । नृत्यन्तं चित्सभेशं त्रिसृभिरपि सदा शक्तिभिस्सेविताङ्घ्रिं नादान्ते भासमानं नवविधनटनं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २॥ यस्मिन्नामूलपीठावधि कनकशिलामातृकावर्णक्लृप्ते ब्रह्मश्रीनाथरुद्रेश्वर शरमुखभाक्साम्बसादाख्यमूर्ध्नि । भूतैश्शास्त्रैश्च वेदैः स्तुतबहुचरितं स्तम्भरूपैश्च कुड्ये नृत्यन्तं चित्सभेशं निरवधिसुखदं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ३॥ यत्संसत्पूर्वभागे दिशिदिशि विलसत्पूर्वभागा नितान्तं स्वान्तर्गूढोत्तरांशाश्शिवमुख भवनाश्चागमाः कामिकाद्याः । अष्टाविंशानुसङ्ख्या धृतकनकमय स्तम्भरूपाः स्तुवन्ति स्तुत्यं तं नृत्तमूर्तिं श्रुतिशतवितुतं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ४॥ यद्गोष्ठ्यां द्वारबाह्ये रजतगिरिनिभं पञ्चवर्णस्वरूपं सोपानं द्वारभागं जयविजयमुखै रक्षितं द्वारपालैः । तत्त्वानां षण्णवत्या सह विधिमुखराः पञ्च देवाश्च नित्यं यस्यान्तर्भान्ति तस्मिन्नविरतनटनं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ५॥ यत्स्तूप्यश्शक्तिरूपाः तदधरविलसद्रोमरूपाश्च कीलाः उच्छ्वासाः स्वर्णपट्टाः तदुदरनिहिता दण्डरूपाश्च नाड्यः । नाड्यन्तस्सर्वलोकाः फलकतनुगता हस्तरूपाः कलाश्च तस्यां यो नृत्यतीशः तमनुपमतनुं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ६॥ विघ्नेशस्कन्दलक्ष्मी विधिमुखशरराट्पादुकावज्रलिङ्ग- ज्योतिर्नृत्तस्वरूपैः वरुणमुखजुषा हाटकाकर्षमूर्त्या । स्वाग्रे दक्षे च वामे परिवृत सदसि श्रीशिवानायको यो मध्ये नृत्तं करोति प्रभुवरमनघं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ७॥ आदौ मासे मृगाख्ये सुरगुरुदिवसे तस्य भे पूर्णिमायां भित्तौ श्रीचित्सभायां मुनिवरतपसा दत्त वाक्पूर्तये यः । नृत्तं कृत्वाऽवसाने फणधरवपुषं व्याघ्रपादं महर्षिं चाहूयाभ्यां अदात् यो नियतनिवसतिं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ८॥ यस्मिन्नृत्यत्यनादौ निकटतटगतौ भानुकम्पाख्यबाणौ शङ्खध्वानैः मृदङ्गध्वनिभिरपि महाम्भोधि घोषं जयन्तौ । यस्योङ्कारप्रभायां ध्वनिमनुसहिता रश्मयश्चैकविंशा विद्यन्ते तं सभेशं नतसुरनिकरं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ९॥ पूर्वं माध्यन्दिनिर्यच्छिवजनिमवरं पूजयन्यत्प्रसादात् लब्ध्वा व्याघ्राङ्घ्रिभावं तनयमपि शिवानुग्रहाद्दुग्धसिन्धुम् । आनीयास्मै प्रदत्वा सदसि च परमं दृष्टवान्यस्य नृत्तं तं देवं चित्सभेशं निगमनुतगुणं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १०॥ यन्नृत्तध्यानयोगद्विगुणिततनुभृत् श्रीशसंवाहभुग्न- स्वाङ्गश्शेषः कदाचिद्धरिमुख कमलोत्पन्नयद्वृत्तमाध्वीम् । पीत्वा तप्त्वाऽतिघोरं रजतगिरिबिलद्वारमार्गेण यस्य क्षेत्रं प्राप्यान्वपश्यन्नटनमधिसभं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ११॥ आदौ यः कर्मकाण्ड प्रवचनमहिमा जैमिनिर्नाम योगी व्यासोक्त्या चित्सभेशं प्रभुवरमुरसाऽऽनम्य गत्वा सभान्तः । पादान्ते वेदयुक्तं स्तववरमकरोत्सर्व सौभाग्यदं यं पश्यन्नद्यापि देवं सदसि वसति तं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १२॥ गौडेशः सिंहवर्मा स्वतनुगतरुजा व्याकुलस्स्वीयदेशात् आगत्य स्वर्णपद्माकरवरसलिलस्नान निर्मुक्तरोगः । भूत्वा श्रीहेमवर्मा मुनिवरसहितश्शम्भुनृत्तं च दृष्ट्वा यत्प्रासादं विचित्रं मणिमयमकरोत् कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १३॥ आम्नायेष्वप्यनन्तेष्वनितरसुलभान्भिन्नसंस्थान्विधीन- प्याहृत्य श्रीफणीन्द्रो नटयजन महप्रोक्षणार्थञ्च सूत्रम् । कृत्वाऽऽदौ दत्तवान् यत्तदुदित विधिना यं सदाऽऽराधयन्ति त्रैसाहस्रं द्विजेन्द्राः तमपि नटपतिं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १४॥ नित्यं षट्कालपूजां नटनपतिमुदे कुर्वतां भूसुराणां तद्भक्तानां द्विजादि प्रमुखतनुभृतां सौख्यदाता भ्रकुंसः । स्वस्थाने लिङ्गमेकं स्फटिकमणिमयं मज्जनादीनि कर्तुं यज्वभ्यो दत्तवान् यस्तमतिसुखकरं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १५॥ अन्तर्वेद्यां महत्यां शतधृतिरकरोदब्दसाहस्र साध्यं यज्ञं तस्मिन्मुनीन्द्रास्सदसि समभवन्व्याघ्रपादोक्तिभिर्ये । तत्पूजार्थं शिखीन्द्र प्रभवमणिनटः प्रेषितो येन मोदात् तन्मूर्तेर्मूलभूतं नवमणिमकुटं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १६॥ नित्यं पुण्याहमादौ गुरुवरनमनं शोषणादि त्रयं च भौतीं शुद्धिं कराङ्ग प्रणवसुरमुखन्यास जातं च कृत्वा । जप्त्वा मन्त्रान् समस्तान् शिवमयतनवश्चान्तराराध्य यं प्राक् विप्रा बाह्ये यजन्ति प्रभुवरमपि तं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १७॥ स्थानादि प्रोक्ष्य पाद्याचमनमपि सुमैरर्चयित्वाऽथ शङ्खं गव्यार्चां कुम्भपूजां जलयजन वृषाभ्यर्चने द्वार पूजाम् । कृत्वा विघ्नादिपूजां स्फटिकजनिमरत्नेशयोर्मज्जनाद्यैः यन्मूर्तिं पूजयन्ति प्रतिदिनमनघाः कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १८॥ गव्यैस्तैलैः पयोभिर्दधिघृत मधुभिश्शर्कराभिश्च शुद्धैः पश्चात्पञ्चामृताद्यैः लिकुचफलरसैः कैरपाथोभिरन्नैः । गन्धैः गङ्गाद्भिरन्यैरनुदिनमनघा यस्य लिङ्गं मुनीन्द्राः षट्कालं पूजयन्ति प्रभुमपि तमजं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १९॥ भित्तौ श्रीचक्रसंस्थां तदनु नटपतिं शैवचक्रान्तरस्थं तद्वामे युग्महस्तामपि च शुककरां ज्ञानशक्तिञ्च यष्ट्वा । गोब्रह्मादीनथेष्ट्वा सकलविधचरूनर्पयित्वा बलींस्तान् होमं कृत्वा यजन्ति प्रतिदिनमपि यं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २०॥ धूपैर्दीपै रथाख्यैः फणिपुरुषवृषैः कुम्भपञ्चाग्निहोत्रैः ऋक्षैः कर्पूरभस्मव्यजनवरसितच्छत्रकैश्चामरैश्च । आदर्शैः मन्त्रपुष्पैरुपरितलसुकर्पूरकैः प्रार्च्य यं द्राक् त्यक्त्वाऽविद्यां प्रपश्यन्त्यनुदिनमनघाः कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २१॥ यद्गेह प्रान्तबाह्ये दशवृषसहितान्यब्जपीठानि नित्यं शक्रादीनां त्रिकालेष्वपि बलिहरणे पीठमुत्तुङ्गमन्यत् । यद्बाह्ये दिक्षु चाग्रे नवशिखरिसमा भान्ति दण्डा ध्वजानां तद्गेहान्तस्सभायां अनवरतनटं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २२॥ प्रत्यब्दं ज्येष्ठमासे नववृषसहिताः केतवो भान्ति माघे मासे पञ्च ध्वजास्स्युः मृगशिरसि तथा केतुरेकः प्रधानः । यस्य ब्रह्मोत्सवानां नवशरशिखिनश्चैकवह्निः प्रधानः तं देवं चित्सभेशं नवनिधिनिलयं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २३॥ यस्याद्ये सप्तविंशत्यमलदिनमहे ऋत्विगग्र्या नव स्युः माघे पञ्चर्त्विगग्र्या मृगशिरसि शिवर्क्षोत्सवे चैक एव । नित्यार्चास्वेक एको यजनकृत इमे यज्ववर्येषु शुद्धाः तं देवं चित्सभेशं निरुपमिततनुं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २४॥ आदौ कृत्वाऽग्निहोत्रं वपनपवनमन्त्राचमानानि पश्चात् कूश्माण्डैर्देहशुद्धिं पदयजनमुखं वास्तुपर्यग्निकर्म । नान्दीमृत्स्वङ्कुराणि प्रतिसरमृषभप्रोक्षणं यन्महेष्व- प्यारादारोहयन्ति ध्वजपटमनघाः कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २५॥ मञ्चे चन्द्रार्कभूतेष्वपि वृषगजराड्राजताद्रिष्वथाश्वे सोमास्कन्दस्वरूपस्स्वयमुरुनयने गोरथे मार्गणो यः । स्थित्वा ब्रह्मोत्सवेषु त्रिषु च नटपतिः प्रत्यहं वीथियात्रां कृत्वा स्नात्वा सदस्स्वं प्रविशति शिवया कुञ्चिताङ्घ्रिं भजेऽहम् ॥ क्रोडेन श्रीशनाम्ना चरणसरसिजं यस्य शम्भोर्न दृष्टं हंसेन ब्रह्मनाम्ना न मकुटशिखरं यस्य दृष्टं किलासीत् । ओङ्कारे नित्यवासं त्रिदलसुमवरैरर्च्यमानाङ्घ्रियुग्मं हंसं हंसैरुपास्यं हरिहरवपुषं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २७॥ पूर्वं ज्ञानोपदेशं मणिमयवचसे कुन्दवृक्षस्य मूले कृत्वा सादित्वमाप्त्वा नृपतिकरलसत्स्वर्णवेत्रप्रहारम् । लब्ध्वा तेनोक्तगानैर्मधुरसभरितैस्तृप्तिमाप्तवाऽथ तस्मै मुक्तिं प्रादाद्य ईशस्तमखिलसुहृदं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २८॥ देवो यः पुल्कसाय द्विजकुलजनुषे वल्कलस्यात्मजाय नन्दाभिख्याय मुक्तिं कणतृणसुधिये दत्तवान्भक्तिवश्यः । नित्यत्वं व्याघ्रपादप्रथितफणिपतिस्तोत्रकृत्जैमिनिभ्यः तांस्तान्कामांश्च सर्वान् तमजरममरं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २९॥ आहृत्य ब्रह्मशीर्षं सकलजनिमतां दर्शनाय स्वदक्षे पार्श्वे संस्थाप्य पूर्वं श्रुतिवदनविधिं वामतोऽस्थापयद्यः । अद्यारभ्यात्मयोने मदुपहृतहविश्शेषभुक्त्वं भवेति स्वाज्ञाप्याकाशरूपस्तमपि नटपतिं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ३०॥ पार्थाय स्वास्त्रदानं पशुपतिरकरोद्यः पुराराजताद्रौ युद्धं तेनैव कृत्वा वनचरतनुभाग्भिन्नशीर्षस्तथासीत् । भीमस्वान्तार्चनाढ्यैस्त्रिदलसुमवरैश्छन्नगात्रो नितान्तं जातस्तं चित्सभेशं निखिलतनुगतं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ३१॥ आसीन्मेरुश्शरासो धरणिरपि रथो ज्याऽभवत्सर्पराजोऽ- प्यास्तां चक्रेऽर्कसोमौ सरसिजनिलयस्सारथिर्यस्य शम्भोः । आसन्नश्वाश्च वेदो जलनिधिशरधेस्त्रैपुरं हन्तुमिच्छोः हेतुं तं लोकसृष्टिस्थितिलयकरणे कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ३२॥ क्षीराब्धेर्मन्दराद्रि प्रमथनसमयेऽप्युत्थिते कालकूटे गच्छत्सु प्राप्य भीतिं निखिलसुर कुलेष्वप्यनादिः पुरस्तात् । आविर्भूय प्रभुर्यस्सकलसुरगणान् प्राश्य तं कालकूटं सद्योऽरक्षत्तमीशं तुहिनगिरिनुतं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ३३॥ कृत्वा जम्बूफलाभं विषमखिलजगद्भक्षणे जागरूकं स्वास्ये प्रक्षेपमात्रान्निजजठरवसत्प्राणिसौख्याय देवी । कण्ठं सङ्गृह्य हस्तात्प्रियमुखकमलं वीक्षमाणा किलासीत् तां दृष्ट्वाऽन्वग्रहीद्यस्तमखिलवरदं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ३४॥ मार्कण्डेये पुरा श्रीरजतगिरिपतेर्लिङ्गपूजाप्रवृत्ते पाशैः कर्षत्यथार्कौ भयकरवदने लिङ्गमध्यान्महेशः । आगत्यारक्षदेतं मुनिमथ शमनं मारयामास देवो यस्तं नित्यं नटेशं निखिलनृपनुतं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ३५॥ सृष्ट्वा ब्रह्माणमादौ श्रुतिगणमखिलं दत्तवान्यो महेशः तस्मै निर्माल्यभुक्त्वं स्वसदसि विलसत्पञ्चपीठाधरत्वम् । सूतत्वं स्वस्य मूर्धस्थितमकुटवरप्रेक्षणे हंसभावं तं देवं चित्सभायां स्थितिजुषममलं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ३६॥ यो मारः प्रेषितोऽभूत्स्वसविधमसुरोत्सारितैस्स्वर्गिभिः स्वं योगारूढात्समाधेश्चलयितुमचले राजतेऽनन्यदृष्टिम् । तं मारं भालनेत्रज्वलनहततनुं योऽकरोद्दक्षिणास्यः सेवाहेवाकलक्ष्मीपतिमुखनिबिडं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ३७॥ विष्णुर्ब्रह्मा रमेन्द्रो दहनपितृपती राक्षसानामधीशः पाशी वायुः कुबेरः त्रिदृगरुणमुखा देवताश्चन्द्रसूर्यौ । नित्यं यत्क्षेत्रराजे पशुपति नटनं दृष्टवन्तः स्वनाम्ना लिङ्गान् संस्थाप्य नत्वा सुखवरमभजन्कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ३८॥ सीताजानिः पुरस्ताद्विधिकुलजनुषं रावणं साङ्गमेको हत्वा तद्दोषशान्त्यै नलमुखकपिभिः निर्मिते रामसेतौ । लिङ्गं संस्थाप्य यस्यानवरतयजनात्प्राप्तवानिष्टसिद्धिं तं शम्भुं वेदवेद्यं प्रणतभवहरं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ३९॥ मोहिन्या शम्भुरादावति निबिड वने दारुकाख्ये चरन्यः सौन्दर्याद्विप्रदारान्मुनिगणमपि तं मायया मोहयित्वा । व्यर्थीकृत्याभिचारं द्विजकुलविहितं सम्प्रदर्श्यात्मनृत्तं विप्रांश्चान्वग्रहीद्यस्तमपि गिरिशयं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ४०॥ पूर्वं वाल्कल्यभिख्यान्निहततनुवरो देवराड्विष्णुमाप्त्वा चोक्त्वा स्वोदन्तमस्मै सह मुररिपुणा प्राप्य यत्क्षेत्रमीशम् । आराध्याप्त्वा सुवीर्यं यदनघकृपया मारयामास शत्रुं तं देवं चित्सभेशं वररुचिविनुतं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ४१॥ यद्दक्षेऽद्यापि विष्णुर्मणिमयसदने दक्षिणे स्वाङ्घ्रियुग्मं कृत्वास्यं चोत्तरस्यां शरमुखफणिराड्भोगतल्पेशयानः । नित्यं निद्रां प्रकुर्वन्नपि हृदि सततं यत्पदं ध्यायतीड्यं देव्या तं चित्सभेशं सुतगजवदनं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ४२॥ सम्बन्धस्सुन्दरः श्रीमणिमयवचनो जिह्विकाराजनामा चत्वारोऽप्यात्मगानैर्विविधरसभरैस्स्तोत्ररूपैर्यमीशम् । स्तुत्वा तत्तत्स्थलान्तः स्थितिजुषमपि यं चैकमद्वैतमूर्तिं प्रापुर्मुक्तिं तमाद्यं कृतविधुमकुटं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ४३॥ कैलासाद्रौ वटद्रोर्निकटमधिगतो दक्षिणामूर्तिरूपः तर्जन्यङ्गुष्ठयोगात्सनकमुखमहायोगिनां ज्ञानदाता । मौनेन श्रीकुमारं निटिलनयनतो दग्धदेहञ्च कृत्वा यश्चाप्त्वाद्रीन्द्रकन्यां सुतवरमसृजत्कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ४४॥ शूरादिध्वंसनार्थं सुतकरकमले दत्तवान्शक्तिमादौ सर्वास्त्रञ्चोपदिश्य प्रबलसुररिपून्कालसामीप्यभाजः । कृत्वोदूह्येन्द्रकन्यां वनचरतनुजां गेहमायाहि ताते- त्युक्त्वा चान्वग्रहीद्यो गुहमपि मुदितः कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ४५॥ काल्या साकं पुरा यस्सुरमुनिसदसि स्वाङ्घ्रिमुद्यम्य चोर्ध्वं नृत्तं कृत्वाऽथ कालीं पशुपतिरजयत्तद्बहिष्कारपूर्वम् । सर्वे देवा मुनीन्द्राः प्रभुरिति च वदन्त्यूर्ध्वनृत्तेशमूर्तिं यं देवं पूजयन्ति प्रतिदिनमनघाः कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ४६॥ अन्तर्वेद्यां स्वयज्ञे दिविषदधिपतौ सामगानैस्तथोच्चैः आहूतेऽनागतेऽस्मिन्यदमलनटनं दृष्टवन्तं सुरेन्द्रम् । सद्यो बुध्वाऽऽत्मभूस्तं स्वयमतितरसाऽऽनीय यस्यातिदेशात् विप्रैस्साकं स्वयज्ञं सुरनुतमकरोत्कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ४७॥ यश्शम्भुः कालहन्ता जलधरमसुरं स्वाङ्घ्रि चक्रेण हत्वा तद्दुष्कृत्यास्त्रशस्त्रैः विनिहतवपुषस्सर्वलोकानरक्षत् । यं स्वक्रोधस्वरूपं जलधरमसुरं नाशयन्तं वरेण्यं सर्वे लोका वदन्ति प्रमथपतिनुतं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ४८॥ कैलासाद्रौ कदाचित्पशुपतिनयनान्यद्रिजातापिधाय क्रीडां चक्रेऽन्धकारात्सुररिपुरुदभूदन्धकाख्योऽतिदुष्टः । तद् दुष्कृत्यं जगत्यां प्रसृमरमसहैस्सर्वलोकैः स्तुतो यः तं हत्वाऽरक्षदेतांस्तमजहरिनुतं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ४९॥ हालास्ये मीननेत्रापरिणयसमये दर्शनायागताभ्यां सर्पेन्द्रव्याघ्रपद्भयां रजतसदसि यस्स्वाङ्घ्रिमुद्यम्य वामम् । नृत्तं कृत्वा मुनीन्द्रावितरमुनिसुरांस्तोषपाथोधिमग्नान् चक्रे तं सुन्दराङ्गं मधुरिपुविनुतं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ५०॥ माघे मासे मखर्क्षे वरुणविरचित ब्रह्महत्याविमुक्त्यै प्रीत्या यस्सन्निधाय स्वयमुरुमकरैः पूरितेऽब्धौ जलेशम् । स्नानान्मुक्तस्वपापं निखिलमपि जनं कारयामास पूर्वं तं देवं चित्सभायां अनवरतनटं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ५१॥ दक्षे यष्टुं प्रवृत्ते परमशिवमनादृत्य तत्कन्यकायां गत्वा तत्र स्वतातं नतवदनमुपेक्ष्यैन्द्रमग्निं विशन्त्याम् । गौर्यां कोपाद्य ईशो दशशतवदनं वीरमुत्पाद्य कालीं ताभ्यां दक्षादिनाशं व्यरचयदतुलं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ५२॥ पार्थो यल्लिङ्गबुद्ध्या यदुकुलतिलकं पूजयामास पूर्वं तन्निर्माल्यं समस्तं रजतगिरिनिषच्छङ्कराङ्घ्रौ प्रदृष्ट्वा । भीमस्वान्तार्चितं च स्वसखमपि गुरुं पृष्टवान्तच्चरित्रं तं देवं चित्सभायां कृतनटनवरं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ५३॥ कृष्णो यल्लिङ्गपूजामनुदिनमकरोद्यामुने वामतीरे तन्निर्माल्यं गृहीत्वा यजति परशिवं चोपमन्यौ मुनीन्द्रे । ज्ञात्वैतद्वृत्तमारात्तदमलकरवाग्दृष्टिभिर्दीक्षितोऽभूत् तत्पूजालिङ्गमूलं तमनघनटनं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ५४॥ ओङ्कारार्थं षडास्ये रजतगिरिवरे पृच्छति ब्रह्मदेवं चोङ्कारार्थोऽहमस्मीत्यनुवदति विधौ शिक्षयामास तं यः । तद्वक्तादर्थमेनं स्वयमपि कुतुकाच्छ्रोतुमत्यादरेण स्वाङ्के संस्थाप्य सूनुं प्रमुदितमकरोत् कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ५५॥ वैकुण्ठो नित्यमादौ पशुपतिमनघैः पुण्डरीकैस्सहस्रे- णार्चां कुर्वन् कदाचिन्न चरमकमलं दृष्टमासीत्तदैव । उत्पाट्य स्वाक्षिपद्मं यदमलपदयोरर्पयित्वाऽथ यस्मात् चक्रं सम्प्राप्य रेजे तमपि नटपतिं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ५६॥ कैलासोद्यानदेशं सह गिरिसुतयाऽऽप्त्वैकदा चन्द्रचूडः सद्यस्तत्रेन्दिरागाधरभुवि निवसन्यः कपीशार्चितोऽभूत् । यस्तस्मै सार्वभौमत्वपदमपि ददावस्त्रशस्त्रावलिञ्च तं देवं पारिजाताद्यखिलसुमधरं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ५७॥ स्वर्गाधीशः कदाचित्कपिवदननृपान्नाशयित्वा स्वशत्रून् दत्वाऽस्मै त्यागराजं षडपि तदितरान्प्रेषयामास राज्ञे । सोऽप्याधारादि सप्तस्थलवरसदनेष्वग्रजैरर्चते स्म तन्मूर्तीनां च मूलं मुनिगणविनुतं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ५८॥ वासिष्ठाद्या मुनीन्द्राः प्रतिदिनमयुतं पञ्चवर्णं जपन्तो यत्क्षेत्रे वत्सरान्ते हवनमपि तथा तर्पणं ब्रह्मभुक्तिम् । कृत्वा स्वाभीष्टमापुर्नटपतिपुरतस्तत्सपर्यां विधाय प्रेम्णा तं चित्सभेशं विधिमुखविनुतं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ५९॥ कञ्चिद्देवं सभायां सकलमुनिवरैरर्च्यमानाङ्घ्रिपद्मं इच्छादेव्या स्वशक्त्या मिलितमनुपमं सच्चिदानन्दनृत्तम् । वामे भित्त्यर्धवामे स्थितयुगभुजया ज्ञानशक्त्या च दृष्टं सर्वेषां भक्तिभाजां निखिलसुखकरं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ६०॥ लक्ष्मीपुष्पं तथार्कं बकगरुतमधः कृष्णधुत्तूर पुष्पं गङ्गाचन्द्रौ जटाश्च स्वशिरसि सततं कर्णयोर्गायकौ द्वौ । हस्तेष्वह्यग्निढक्काः पदकमलयुगे रत्नमञ्जीरभूषा धृत्वा यस्साम्बरूपस्सदसि जयति तं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ६१॥ भूषारूपैः फणीन्द्रैर्द्विगुणितमहसं पुष्पहासं पुरारिं भस्मालिप्ताङ्गमीशं भवमयजलधेस्तारकं भक्तिभाजाम् । धर्मादींस्तान्पुमर्थान्ददतमनुदिनं दक्षिणास्यं स्वभक्तैः भाषारूपैश्च गानैः कृतनुतिममितं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ६२॥ यस्योर्ध्वे दक्षपाणौ विनिहितडमरोर्मातृकावर्णरूपं त्रैचत्वारिंशदर्णं चतुरधिकदशालङ्कृतं सूत्रजालम् । जातं यत्तद्गृहीत्वा पणनसुतमुखाः शब्दशास्रादिगर्भं तत्तच्छास्राण्यकुर्वन्दरहसितमुखं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ६३॥ वामे कृत्वा शिखीन्द्रं डमरुमपि करे दक्षिणेऽभीतिमुद्रां योऽन्यस्मिन्वामपादं सरसिजसदृशं कुञ्चितं डोलहस्तात् । भुक्तेर्मुक्तेश्व दाने निपुणमिदमिति प्राणिनां दर्शयित्वा नृत्यन्तं चित्सभायां श्रुतिशिखरनुतं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ६४॥ मूलाधारादिषट्केऽप्यनवरतनटं यं विराजो हृदब्जे सर्पेन्द्रव्याघ्रपादप्रमुखमुनिनुतं षट्सु कालेषु वेदैः । आराध्याभीष्टसिद्धिं द्विजकुलतिलकाः प्राप्नुवन्ति प्रभुं तं चिच्छक्त्या युक्तमाद्यं कनकगिरिकरं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ६५॥ वेदान्तोक्तात्मरूपं विधिहरितनुजं विश्वनाथं सदस्स्थं स्वध्यानान्नाशयन्तं सकलभुवनगं मोहमप्यन्धकारम् । चन्द्रोत्तंसं स्मितास्यं सितभसितलसत्भालदेशं त्रिनेत्रं विश्वैर्देवैर्नताङ्घ्रिं विविधतनुगतं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ६६॥ चक्षूंष्यर्काग्निचन्द्राश्चरणमहिभुवि व्योम्नि केशाश्च यस्या- प्यष्टावाशाश्च वस्त्रं निखिलभुवन संलग्नहस्तोऽद्वितीयः । कुक्षिर्वाराशिजालं नटनशुभतलं रुद्रभूमिश्च नित्यं तं देवं चित्सभेशं श्रुतिगणविनुतं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ६७॥ दीर्घायुः पुत्रपौत्रान्धनगृहवसुधावस्त्रभूषागजाश्वान् विद्यारोग्येशभक्तीर्जलजसममुखीस्सुन्दरीः भृत्यवर्गान् । मुक्तिं यन्नृत्तमूर्तेश्चरणसरसिजं पूजयन्तो लभन्ते तं देवं चित्सभेशं सकरुणहृदयं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ६८॥ नित्यार्चास्वन्वहं यः प्रदिशति नितरां भुक्तये काञ्चनादीन् विप्राणां सप्तपाकान्हविरपि सकलं सौमिकास्सप्तसंस्थाः । कृत्वा नृत्तेशपूजां श्रुतिविहितपथा कुर्वतां श्रीसभेशः तं देवं नृत्त मूर्तिं मणिमयपदकं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ६९॥ भूते संस्थाप्य चैकं चरणसरसिजं दक्षिणं वामपादं शिञ्जन्मञ्जीरशोभं विधिमुखदिविषत्पूजितं भक्तिभाजाम् । धर्मादीष्टान्प्रदातुं धनलिपिसहितं किञ्चिदुद्धृत्य तिर्यक् चाकुञ्च्यानन्दनृत्तं कलयति वरदं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ७०॥ याम्ये श्रीन् पुराख्या जनिभृदघहरा निम्नगा भाति यस्यो- दीच्यां श्वेताभिधाना वरुणदिशि महावीरभद्राख्यवापी । प्राच्यामब्धिस्समीपे तदुदरविलसत्तिल्वकान्तारनाम्नि क्षेत्रे यश्चित्सभायां नटति सकलगं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ७१॥ पञ्चप्राकारयुक्ते प्रविलसति पुरे पङ्क्तितीर्थप्रवीते सर्वाशाव्याप्तकीर्तिद्विजवरनिबिडे व्योमनाम्न्यात्मरूपे । मध्ये श्रीचित्सभायां कलयति नटनं सर्वदा साम्बिको यः तं देवं वेदमूर्धस्थितिजुषमनघं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ७२॥ भासन्ते नैव यस्मिन् रविशशिहुतभुक्तारकाश्चापि विद्युत् यस्माद्भीत्येन्द्रवायू मिहिरकिरणजो दूरतो यान्ति नित्यम् । यद्रूपं योगिवर्या हृदयसरसिजे चिन्तयन्त्यन्वहं तं श्रीमन्तं चित्ररूपं वसुकरकमलं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ७३॥ षट्कालार्चासु नित्यं स्फटिकमणिमये लिङ्गनृत्तेशमूर्ती शुद्धैस्तीर्थैः कदाचित्स्वमपि नटपतिं चाभिषेक्तुं समन्त्रम् । मूर्धालङ्कारभूता प्रवहति परमानन्दकूपे यदुक्त्या गङ्गा तं चित्सभेशं सुरवरविनुतं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ७४॥ स्तम्भाकारैः पुराणैर्धृतकनकसभा भाति यस्याग्रभागे यस्यां धर्मस्वरूपो वृषभपतिरुदग्वक्त्रपद्मो विभाति । यस्यामीशस्य देव्याः स्फटिकवटुकयो रत्नमूर्तेः मुनीन्द्राः कुर्वन्त्यद्भिः प्रपूजां तमपि नटवरं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ७५॥ यद्गेहं पञ्चसालैर्दिशि दिशि विलसद्गोपुरैर्वेदसङ्ख्यैः अन्नादि ब्रह्मकोशत्वमुपगतसभापञ्चकैर्भाति तीर्थैः । श्रीमूलस्थानदेवीहरिगजवदनस्कन्दगेहैश्च नित्यं तत्रत्यानन्दकोशे विरचितनटनं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ७६॥ गङ्गातीरस्य पश्चाद्विलसति सदने सच्चिदानन्दरूपा देवी या सर्वविद्यालयमुखकमला भासते वेदहस्ता । या यस्य ज्ञानशक्तिश्शिवपदसहिता कामसुन्दर्यभिख्या तद्देव्या दृष्टनृत्तं श्रुतिनिहितपदं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ७७॥ ब्रह्मैवाखण्डमेतन्नटनपतितनुं प्राप्य वक्त्रात् द्विजेन्द्रान् बाहुभ्यः क्षत्रवर्गान् सकलपशुततेः पालनायोरुयुग्मात् । वैश्यान्पद्भ्यां च शूद्रानविकलमसृजल्लीलया देवराड्यः तं देवं चित्सभेशं श्रुतिविनुतकथं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ७८॥ स्वस्यां श्रीचित्सभायां नटनमतिमुदा कर्तुमुद्युक्तवान् यो देवेन्द्रे वेणुहस्ते मुरजकरयुगे श्रीपतौ तालहस्ते । ब्रह्मण्यानन्दभाजो जिमिनसुतफणिव्याघ्रपादास्तदानीं जातास्तं ब्रह्मरूपं सगुणमतिगुणं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ७९॥ विष्णोर्मञ्चः कदाचिच्छरवदनयुतश्रीपतञ्जल्यभिख्यः चात्रेः पुत्रत्वमाप्त्वा शिवपणनजयोस्सूत्रभङ्गीं समीक्ष्य । शम्भोर्यस्य प्रसादादरचयदतुलं श्रीमहाभाष्यसंज्ञं ग्रन्थं यत्क्षेत्रराजे तमलिकनयनं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ८०॥ पञ्चाशद्वर्णयुक्तैर्मनुभिरभिमतं काङ्क्षिणां देहभाजां स्वक्षेत्राभिख्यमन्त्रैरपि विततमहापञ्च पञ्चप्रयोगैः । युक्तैर्गायत्रिसङ्ख्यैर्ध्वनिमनुभिरथाभीष्टसिद्धिप्रदो यः तं तत्त्वातीतमाद्यं कनककवचिनं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ८१॥ यस्य स्वान्ताम्बुजातादुडुपतिरुदभूच्चक्षुषश्चण्डरश्मिः वक्त्राम्भोजाच्च वह्निर्दिविषदधिपतिः प्राणतो गन्धवाहः । यन्नाभेरन्तरिक्षं चरणसरसिजात्कुम्भिनी द्यौश्च शीर्ष्णः काष्ठाश्च श्रोत्रयुग्मात्तमपि परशिवं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ८२॥ विद्यां वामेक्षणेन्दोः श्रियमपि कलयन् दक्षनेत्राब्जबन्धोः फालेक्षाच्चित्रभानोः सकलजनिमतां पापतूलं च दग्ध्वा । स्वस्याङ्घ्र्यालोकमात्रादुपनिषदुदितब्रह्मबोधं प्रयच्छन् यस्सर्वान् रक्षतीशस्तमुडुपतिधरं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ८३॥ कैलासे भोगपुर्यां सकलजनिमतां हेतुरास्ते शिवो यः सर्वक्षेत्रेषु गूढो विलसति सततं स्वांशसादाख्यरूपः । सोऽप्येवांशी धरण्या हृदयसरसिजे चित्सभान्तस्थभित्तौ कुर्वन्नृत्तं मुदाऽण्डानवति तमनघं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ८४॥ यद्भासा भाति नित्यं सकलमपि जगत्तत्परं ज्योतिरेव वैराजे हृत्सरोजे कनकसदसि वै साम्बनृत्तेशमूर्तिः । भूत्वा नृत्तं करोति प्रभुरपि जगतां रक्षणे जागरूकः तं देवं चित्सभेशं विधृतसुमसृणिं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ८५॥ आत्मैव श्रीनटेशो धरणिरविजलान्यग्निवायू विहाय- श्चन्द्रो यज्वा च भूत्वाऽवति जगदखिलं पञ्चविंशेशभिन्नः । तत्त्वातीतो महेशोऽप्युरुरणुरखिलाभ्यन्तरे राजते यः तं सोमं सोममित्रं सुमुखगुहसुतं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ८६॥ यद्ब्रह्मोच्छ्वासरूपा श्रुतिरपि सकला तत्समाना स्मृतिश्च कल्पा गाथाः पुराणं विविधमनुवरास्सेतिहासाश्च विद्याः । सर्वत्राद्यापि भान्ति स्वयमपि कृपया यत्सभायां नटेशो भूत्वा लोकान्समस्तानवति तमसमं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ८७॥ वेदान्ते वाक्यरूपा उपनिषद इमा ब्रह्मसामीप्यभाजः तासां मुख्या दशस्युर्यतिविरचितमहाभाष्ययुक्ता महत्यः । स्तम्भाकाराः स्तुवन्ति स्वविदितनटनं सर्वदा ब्रह्मरूपं तं देवं चित्सभेशं परमतिमहसं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ८८॥ शाब्दे शास्त्रे फणीन्द्रैः प्रमिति फणितिषु श्रीकणादाक्षपादैः वेदान्ते व्यासरूपैर्जिमिनसुतकृतौ भट्टकौमारतुल्यैः । कल्पे बोधायनैस्तैश्श्रुतिषु विधिसमैः पूज्यते यो मुनीन्द्रैः त्रैसाहस्रैस्सभायां तमपि गुरुवरं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ८९॥ कञ्जाक्ष्या स्वस्य शक्त्या सहकृतनटनं कस्य शीर्षच्छिदं तं कालं कामं पुराणि स्वपदसरसिजात्भालनेत्रास्मिताश्च । हत्वा ब्रह्मर्षिसूनुं सकलदिविषदश्चापि रक्षन्तमीशं देवेड्यं चित्सभेशं दशशतवदनं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ९०॥ यल्लिङ्गे ब्रह्मविष्णुप्रमुखसुरवरा भस्मरुद्राक्षभाजः सस्त्रीकास्साम्बमूर्तिं सकलतनुभृतां सर्वदं सर्वरूपम् । अभ्यर्च्याप्त्वेष्टसिद्धिं दिवि भुवि सकलैस्सेव्यमाना बभूवुः तं देवं चित्सभेशं विधिहुतहविषं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ९१॥ श्रद्धावन्तः श्रुतिज्ञाः परशिवकृपयाऽधीतशास्त्रादिविद्याः व्यर्थां वाचं त्यजन्तः प्रतिदिनमसकृत्पूजयन्तः प्रभुं यम् । कुर्वन्तः श्रौतकर्माण्यनितरसुलभान्यात्मबोधं लभन्ते विप्रेन्द्राः स्वांशभूताः परशुमृगधरं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ९२॥ फाले भस्मत्रिपुण्ट्रं फणिनमपि गले पादपीठे च भूतं बाह्वोर्वह्निञ्च ढक्कां वदनसरसिजे सूर्यचन्द्रौ शिखीन्द्रम् । ओङ्काराख्यप्रभायां सुरभुवनगणं पार्श्वयोर्वाद्यकारौ यः कृत्वाऽऽनन्दनृत्तं स्वसदसि कुरुते कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ९३॥ सर्वेषां प्राणिनां यस्स्वपदसरसिजं पूजितुं पाणियुग्मं स्वं द्रष्टुं लोचने द्वे स्वचरितमखिलं वक्तुमीशस्सुवाचम् । स्वस्य प्रादक्षिणार्थं चरणयुगमपि ध्यानयोगाय चित्तं दत्वा रक्षत्यजस्रं तमुदकमकुटं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ९४॥ नाहं कर्ता च भोक्ता, न च मम सुकरं दुष्करं कर्म किञ्चित् धर्माधर्मौ च, दुःखं सुखमपि, करणं नैव मत्तः परोऽन्यः । सोऽहं ब्रह्मास्मि नित्यो, नहि जनिमरणे, निर्वृतोऽहं सदेति स्वान्ते पश्यन्ति बोधाद्यमपि यतिवराः कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ९५॥ गङ्गापाथो वहन्तं गजवदननुतं गन्धवाहस्वरूपं गायत्रीवल्लभाख्यं नगपतितनुजास्वीकृतार्धाङ्गमीशम् । गोविन्दान्वेषिताङ्घ्रिं गुरुवरवपुषं गोपतेः पृष्ठवासं गौरीनाथं गुणीड्यं गिरिवरवसतिं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ९६॥ पद्माकारासनस्थं परमसुररिपुं पञ्चवक्त्रारविन्दं पाण्डोः पुत्रार्चिताङ्घ्रिं पविधरविनुतं पार्वतीप्रेमपात्रम् । पश्वीशं पीतरूपं परशुमुखधरं पञ्चवक्त्रारिमाद्यं नृत्यन्तं चित्सभायां निटिलवरदृशं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ९७॥ भीमस्वान्तार्चिताङ्घ्रिं भुजगवरधरं भोगमोक्षैकहेतुं भक्तानां रक्षितारं भवभयजलधेस्तारकं भासमानम् । भूषाभिर्भर्गमीशं भिषजमुपनिषद्वेदिनं भूतनाथं ब्रह्मानन्दस्वरूपं भवमखिलतनुं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ९८॥ शाटीपालाखिलाशापतिमुखविनुतं शङ्खपाण्यर्चिताङ्घ्रिं शम्भुं शर्वं शिवेशं शशधरमकुटं शाक्करेन्द्रे वसन्तम् । शोणाद्रीशं शुभाङ्गं शुककरशिवयाऽऽलिङ्गितं श्रौतगम्यं नृत्यन्तं स्वर्णसंसद्यखिलनतपदं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ९९॥ काञ्च्यां पृथ्वीशलिङ्गं जनिम जलमयं जम्बुकेशेऽस्ति नित्यं शोणाद्रौ वह्निलिङ्गं वनचरपतिना पूजितं कालहस्तौ । वाय्वीशं तिल्ववन्यां त्रिशिखरमकुटे संस्थमाकाशलिङ्गं यल्लिङ्गं सर्वमेतत्तमपि नटपतिं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १००॥ यस्मात्सर्वं चरं चाचरमपि समुत्पन्नमादौ जगत्तत् येनेदं रक्षितञ्च प्रविलयसमये लीयते यत्र सर्वम् । तं देवं चित्सभायां अनवरतनटं ब्रह्मविष्ण्वादिपार्श्वं तेजोरूपं त्रिकूटस्थितिजुषममलं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १०१॥ सृष्ट्यै ब्रह्माणमादौ हरिमथ जगतां रक्षणायात्मरूपः संहृत्यै रुद्रमूर्तिं त्वथ निखिलतिरोधानहेतोर्महेशम् । तल्लोकानुग्रहार्थं हिमगिरितनयासक्तसादाख्यमूर्तिं यस्सृष्ट्वाऽऽनन्दनृत्तं सदसि वितनुते कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १०२॥ त्र्यक्षं त्रैलोक्यवासं त्रिपुरविजयिनं त्रैगुणातीतरूपं त्रेताग्निष्वग्निमूर्तिं त्रिशिखरिशिखरे राजमानं त्रिशक्तिम् । त्रैसाहस्रद्विजार्च्यं त्रिसृभिरपि सदा मूर्तिभिर्दृष्टनृत्तं त्रैविद्यं चित्सभेशं निगममयतनुं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १०३॥ धर्मं दत्वा जनानां डमरुकनिनदैरर्थमप्यग्निना यः कामं दत्वाऽभयेन स्वपदसरसिजान्मोक्षरूपं पुमर्थम् । दत्वा लोकान् समस्तानवति नटपतिः नायकश्चित्सभायाः तं देवं नृत्तमूर्तिं विसदृशचरितं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १०४॥ अन्धःकोशे विधाता गरुडवररथः प्राणकोशे च रुद्रः चेतःकोशे महेशस्तदनु च वरविज्ञानकोशे सदाख्यः । आनन्दाभिख्य कोशे लसति च सततं यस्य शम्भोर्निदेशात् तं देवं राजराजेश्वरवरसुहृदं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १०५॥ धृत्वा यः सर्वदेशः पदजलजमुखे श्रेष्ठमुक्तालिमङ्गे सौवर्णं कञ्चुकञ्च प्रथितमणिचितं भूषणं दिव्यवस्त्रम् । नृत्तं कृत्वाऽऽगतानां सकलतनुभृतां धर्ममुख्यान्पुमर्थान् दत्वा रक्षत्यनादिर्मुनिकृतयजनः कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १०६॥ शिष्याणां वेदबाह्यस्थितिमधिजुषतां बोधनार्थं पठन्तः चर्यायोगाङ्घ्रिभेदप्रकटितविभवान् कामिकाद्यागमांस्तान् । भूदेवा वाजपेयक्रतुगतनृपतिप्रोद्धृतोद्दामशुक्ल छत्रा यं पूजयन्ति श्रुतिपथविधिना कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १०७॥ वेदान्तोद्गीतरूपं ज्वलनडमरुकौ धारयन्तं कराभ्यां अन्याभ्यां डोलमुद्रामभयमपि सदाऽपस्मृतौ दक्षपादम् । विन्यस्याकुञ्चितेन प्रणमदखिलदं वामपादेन नित्यं देव्या साकं सभायां रचयति नटनं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १०८॥ आमन्वश्रं सुदीप्तां निजतनुमभितस्सत्यरूपप्रभान्तः वामे युक्तं स्वशक्त्या वसुदलकमलस्वार्णकिञ्जल्कशोभम् । व्याप्तं साहस्रकोष्ठस्थितशिवमनुभिर्मोहनाद्यैर्यदीयं चक्रं सम्पूजयन्ति प्रतिदिनमनघाः कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १०९॥ त्रैचत्वारिंशदश्रे वसुनृपकमले वृत्तभूचक्रमध्ये बिन्दौ सन्तानकल्पद्रुमनिकरयुते रत्नसौधे मनोज्ञे । ब्रह्माद्याकारपादे शिवमयफलके स्वर्णमञ्चे निषण्णो देव्या यः पूज्यते तं हरिमुखविबुधैः कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ११०॥ यल्लीलारब्धनृत्त प्रसृतवरजटाजूटसम्मर्दवेग- प्रोद्यत्स्वर्गापगाम्भोजनितकणगणा यत्र यत्र प्रपेतुः । तेऽप्यासंस्तत्र तत्र स्वजनिममुखरा मूर्तयः क्षेत्रराजे तं देवं नन्दिमुख्यप्रमथगणवृतं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १११॥ श्रीविद्याषोडशार्णैर्मिलितमपि तथा पञ्चवर्णैः कुमारी- बीजैर्यन्मन्त्रराजं मुहुरजकमलानाथरुद्रेशशर्वाः । जप्त्वा संसृष्टिरक्षालयसकलतिरोधानकानुग्रहाद्याः सिद्धीरापुस्तमीशं शुभकरनयनं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ११२॥ यस्याहुर्नृत्तमूर्तेः श्रुतिहृदयविदश्शक्तिमेकामपीड्यां कालीं कोपे च दुर्गां युधि जगदवने विष्णुरूपां भवानीम् । भोगे ज्ञानक्रियेच्छामयविविधतनुं सर्वसंहारकाले स्वान्तर्लीनां प्रसन्नां तमिभमुखसुतं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ११३॥ श्रीहीराल्लब्धचिन्तामणि मनुमनुसन्धाय निर्जीवदेहे मातुर्मामल्लदेव्या निशि विगतभयो हर्षनामोपविश्य । विप्रः श्रीरुद्रभूमौ यदधिककृपया मातरं सर्वविद्यां सिद्धीरन्याश्च लेभे करधृतडमरुं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ११४॥ गङ्गामाहर्तुकामे कपिलमुनितपोवह्निसन्दग्धदेहान् स्वर्गं नेतुं पितॄन्स्वान्यजति रघुपतौ यः पुरस्तादुदेत्य । गर्वाद्व्योम्नः पतन्तीं स्वशिरसि कणिकासन्निभां तां निरुध्य स्तुत्या राज्ञः पृथिव्यां व्यसृजदनुपमं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ११५॥ वंश्यः काकुत्स्थराज्ञो दशरथनृपतिःयस्य पुत्रप्रदेष्टिं क्षेत्रे कृत्वा वसिष्ठप्रमुखवचनतः सश्रियं पञ्चवर्णम् । जप्त्वा वर्षं वसित्वा सदसि नटपतेः दर्शनाद्रामपूर्वान् विष्णोरंशान्सुपुत्रानभजदघहरं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ११६॥ कुम्भोद्भूतोपदेशाद्वनभुवि विरजाहोमसम्भूतभूत्यां आसीनं सोढसीताविरहमपि सदा वेदसारं सहस्रम् । नाम्नामावर्तयन्तं दशरथतनयं वीतशोकं व्यतानीत् गीतावाक्यैर्य ईशः स्वशरमपि ददौ कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ११७॥ गन्धर्वश्चित्रसेनः सुरपतिवचनात्तिल्वकान्तारमध्ये नृत्यन्तं चित्सभायां गिरिवरतनयापाङ्गदुग्धाब्धिचन्द्रम् । शम्भुं नत्वा मुहुर्यत्करडमरुरवाधीतसङ्गीतविद्या- सिद्धान्तोऽभूत्तमीशं सुरगणविनुतं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ११८॥ यन्नृत्तं द्रष्टुकामा रविशशिमुखराः स्वाभिधानैर्ग्रहेशाः लिङ्गान्संस्थाप्य गङ्गातटवरनिकटे पूजयित्वा सभायाम् । तेजोरूपं च लास्यं बहिरिव हृदये सन्ततं चिन्तयन्तः वासं चक्रुस्तमीशं निखिलतनुमयं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ११९॥ श्रीविद्यां सञ्जपन्तो बहुदिनमसकृद्ये हयग्रीवकुम्भो- द्भूतप्रष्ठा मुनीन्द्राः परशिवमहिषीं पाशकोदण्ड हस्ताम् । साक्षात्कृत्याथ तद्वागमृतजनिमयाद्देवमन्त्रप्रभावात् नृत्तं दृष्ट्वाऽऽत्मबोधं सुखकरमभजन् कुञ्चिताङ्घ्रिं भजेऽहम् ॥ गीत्यां सन्दिह्यमानः कलहरसिकहृन्नारदाख्यस्सुरर्षिः धातुर्वाक्येन गत्वा यदमलनिलयं मन्त्रयोगान्महेशम् । प्रत्यक्षीकृत्य ढक्कोद्भवसरिगमपाधानिवर्णाद्विषट्कान् बुध्वा गायन्सवीणः सदसि वसति तं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १२१॥ पाठीनाकारभाजं फणिभुवनसमानीतवेदासुरघ्नं पुच्छाघातप्रशान्ताम्बुनिधिशिखिशिखं पर्वतेन्द्रानुकल्पम् । विष्णुं दृष्ट्वाऽतिभीत्या विबुधपरिबृढैःस्तूयमानः कपाली यस्तं निघ्नन्जहार द्विनयनमपि तं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १२२॥ भीमं पीताम्बुराशिं कमठवरतनुं कालकूटोपमाग्नि- ज्वालासन्दिग्धवक्त्रं जगदपि निखिलं क्षोभयन्तं स्वकृत्यैः । ब्रह्माद्यैरप्यजय्यं हरिमधिवसुधं कर्षयन्यस्तदीयान् अङ्गान् कण्ठे दधौ तं निखिलसुरनुतं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १२३॥ पोत्रीरूपं महान्तं जलधिगतधरां दंष्ट्रयोद्धृत्य वेगात् युद्धे हत्वा हिरण्यं सुररिपुमखिलानिष्टकृत्यैश्चरन्तम् । वैकुण्ठं भैरवो यश्शितशिखविगलद्वह्निकीलासशूल- प्रोतं कृत्वा तदीयं रदमुरसि दधौ कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १२४॥ भीत्या सन्त्रासमाने नरहरिवपुषो देवतानां समूहे धात्रा संस्तूयमानः शरभवरतनुः सालुवः पक्षिराजः । वेगात्तं छेदयित्वा स्वपदनखमुखैस्तत्त्वचाऽलङ्कृतोऽभूत् दंष्ट्रासन्दीप्तलोकस्तमखिलवरदं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १२५॥ युद्धे भग्नोरुकायं नरहरिवपुषं गण्डभेरुण्डरूपी- भूत्वा गर्जन्तमग्रे शरभखगपतिर्यः स्वफालाक्षिकुण्डात् । उग्रप्रत्यङ्गिराख्यां शतशतवदनां कालिकामाशु सृष्ट्वा तस्या जिह्वाग्रवह्निं सुचरुवदनयत्कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १२६॥ याञ्चाखवीङ्कृताङ्गं बलिमखसदसि स्वां तनूं वर्धयित्वा द्यावाभूमी सुरारेर्मकुटमपि पदा मानयित्वा त्रिलोकीम् । हुङ्काराद्भीषयन्तं सुरगणविनुतो वामनं यो विनिघ्नन् कङ्कालं तस्य देहत्वचमपि हृतवान्कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १२७॥ श्रीचक्रस्यन्दनस्थां गजतुरगसमारूढशक्त्यग्रभागां नित्यावाराहिमन्त्रिण्यनुचरसहितां दृष्टबालास्रविद्याम् । सर्वास्त्राश्लिष्टहस्तां रणभुवि विलसद्युद्धवेषां भवानीं दृष्ट्वा तुष्टोऽभवत्तं धनपतिसुहृदं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १२८॥ विष्णोरंशावतारान्दश करनखरैः युद्धरङ्गे सृजन्ती कामेशालोकनोद्यद्गजवदनकरध्वस्तविघ्नेशयन्त्रा । यस्यास्त्रेणाशु भण्डं ससुतगणपुरं नाशयामास दैत्यं देवी श्रीचक्रसंस्था तमपि शिवकरं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १२९॥ द्वात्रिंशद्रागबोधच्युतमकुटशशिस्वच्छपीयूषधारा- सङ्गावाप्तस्वजीवाम्बुजभववदनोद्दामगीताभिरामम् । स्तब्धीभूतर्षिनारीगणमधिविपिनं सर्वश‍ृङ्गाररूपं यं दृष्ट्वा विष्णुमाया पतिमतिमतनोत् कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १३०॥ मातृद्रोहाघशान्तिं स्वपितृनिधनकृत्क्षत्रशैलेन्द्रपक्ष द्वन्द्वच्छेदातितीक्ष्णप्रबलपरशुमप्याप्तुकामो मुनीन्द्रः । नृत्तं यस्येदमात्मन्यनुगतमसकृद् भावयन् जामदग्न्यो रामो लेभे चिरायुःप्रमुखवरवरान् कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १३१॥ यत्पूजालब्ध भूतिप्रभवित युवती भाववृद्धस्वजायो यत्क्षेत्रानेकसेवाशमितमुनिवरध्वंसनागोविकारः । तालाङ्को रौहिणेयः प्रबलहलवराकृष्टदुष्टप्रलम्बो जातो यस्य प्रसादादमृतकरधरं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १३२॥ आरुह्याश्वं मुकुन्दः प्रतिकलिविगमं कल्किरूपी पृथिव्यां गच्छन्पाषण्डवर्गं कुमतिमघयुतं तत्र तत्रैव संस्थम् । अङ्गुष्ठाकारभाजं यदमलकरुणावाप्तखड्गेन निघ्नन् सर्वां भूमिं यथावत्कलयति तमजं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १३३॥ मध्ये मार्गं स्वभक्तं द्विजवरजनुषं गण्डभेरुण्डसिंह व्याघ्राश्वेभर्क्षतार्क्ष्यप्लवगनरमुखे माधवे भक्षयित्वा । क्रोधाद्ब्रह्माण्डवर्गं मुहुरपि च मुधा तर्जयत्याशु तं यः हत्वाऽरक्षत्स्वभक्तं जगदपि सकलं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १३४॥ येनोक्तं राजताद्रौ चरितमनितरज्ञातपूर्वं मृडान्यै श्रुत्वा तद्योगलब्धभ्रमरवरतनुः पुष्पदन्तः स्वसख्या । प्राकाश्यं नीयमानः कुपितनगसुताशापतो मर्त्ययोनौ उत्पन्नः संस्तुवन् यं स्वपदमधिगतः कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १३५॥ दैत्यानां ध्वंसनार्थं सकलमपि जगद्रक्षणार्थं मुरारिः लक्ष्म्या क्षीराम्बुराशौ कृतकठिनतपाः साम्बमूर्तिं प्रभुं यम् । भक्त्या सम्पूज्य चित्ते मनुवरमपि यन्नामसाहस्रसंज्ञं स्तोत्रं लब्ध्वा जपन्स्तत्प्रभुरभवदजं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १३६॥ आज्ञा यस्याखिलानां न भवति हि सदा लङ्घनीया यदीयं तत्त्वातीतस्वरूपं विधिमुखविबुधा वर्णितुं नैव शक्ताः । यं द्रष्टुं वेदवाचोऽप्यगणितविभवं नूनमद्यापि यत्नं कुर्वन्त्यम्बासहायं सनकमुखगुरुं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १३७॥ युद्धे सञ्जातकम्पः पितृपतितनयो भीष्ममुख्यप्रवीरान् चक्राब्जाकारसेनागतरथगजराडश्वपादातिवर्गान् । जेतुं कृष्णोपदिष्टो मधुमयनुतिभिस्तोषयन् यस्य शक्तिं दुर्गां तस्याः प्रसादादजयदरिबलं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १३८॥ यस्याघोरास्त्ररूपं वसुकरविधृतोद्दण्डभेताल घण्टा- ढक्का खेटासिपात्रत्रिशिखशिखिशिखं भीमदंष्ट्राधरोग्रम् । सौवर्णश्मश्रुवक्त्रं रथमुखनिहितस्वाङ्घ्रिमारक्तवस्त्रं ध्यायेच्चेत्कालमृत्युं तरति विधुजटं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १३९॥ आरोग्यं लब्धुकामो दिवसकरमहामण्डलान्तर्यमम्बा- युक्तं रुक्माभमाद्यं कलयति नितरां यो जपन् रौद्रमन्त्रान् । तस्य त्वङ्मांसरक्तावयवगतमहारोगवर्गाः प्रणाशं यान्ति श्रीसुन्दराङ्गः स च भवति शिवं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १४०॥ पुत्राकाङ्क्षी पुमान्यः परशुमृगवराभीतिहस्तं त्रिनेत्रं गौर्या स्कन्देन साकं वृषभमधिजुषं सानुकम्पं स्मितास्यम् । सर्वालङ्कारभाजं सकलनिगमविस्तूयमानापदानं ध्यायत्याप्नोति पुत्रं गुहमिव स च तं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १४१॥ यो विद्यार्थीं वटद्रोर्निकटतटगतं पुस्तकज्ञानमुद्रा- वीणारुद्राक्षमाला कृतकरकमलं योगपट्टाभिरामम् । तत्त्वार्थं बोधयन्तं सकलमुनिततेश्चन्द्रगङ्गाहिभूषं यं ध्यायत्याशु वाग्मी स च भवति गुरुं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १४२॥ भिक्षां देहीति चक्षन् मुनिसुतसहितः क्रोधभट्टारकाख्यः दूर्वासा यन्नगर्यामनधिगतचरुः क्षुन्निवृत्यै निशीथे । शक्तिं यस्यान्नपूर्णां हृदि परिकलयन् सत्वरं यत्प्रसादा - वाप्तक्षीरान्नभुक्त्या सुखमभजदजं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १४३॥ कश्चिल्लुब्धो गिरीन्द्रे मृगनिबिडवने लिङ्गमैशं यदीयं दृष्ट्वा गण्डूषतोयैः स्वकचधृतसुमैर्भुक्तशेषैश्च मांसैः । पूजां कुर्वन् कदाचिन्निजनयनवरं चार्पयित्वाऽतिभक्त्या नेत्रे यस्यानुरूपं पदवरमभजत् कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १४४॥ बालो विप्रस्य गोष्ठस्थितपशुनिकरं दोहयित्वा पयोभिः नद्यास्तीरे यदीयं जनिम सुखकरं पार्थिवञ्चाभिषिञ्चन् । ध्यायन् क्रोधात्स्वपूजाविकृतिकरपितुश्छेदयित्वा पदं यं स्तुत्वा यत्पार्षदानामधिपतिरभवत्कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १४५॥ येषां वेदोक्तकर्मस्वनधिकृतिरभूदद्रिजाता पृथिव्यां तेषां धर्मादिमाप्त्यै परशिवरचितं कामिकादिप्रभेदम् । साङ्गं सिद्धान्ततन्त्रप्रकरमपि चतुष्षष्टिसङ्ख्याः कलाश्च यस्यादेशात्प्रकाशं त्वनयदगनुतं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १४६॥ कुर्वन्तः क्षेत्रवासं हृदयसरसिजे चिन्तयन्तो जपन्तो विद्यां सौवर्णरङ्गे यमजहरिनुतं स्वेच्छयावाप्तनृत्तम् । पश्यन्तः सार्वकालं विबुधपरिबृढा लब्धकामास्सुखित्वा बाह्ये सौधे रमन्ते चरमवयसि तं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १४७॥ सर्वस्वाराभिधाने दिविषदभिमते सप्ततन्तौ द्विजेन्द्रः कश्चिद्यज्वा हुताशे निजमपि च वपुस्त्यक्तुमत्यन्तभीरुः । यं ध्यात्वा यत्प्रसादादगमदनितरप्राप्यमौपाधिहीनं धाम स्वर्गं सदेहस्तमतुलविभवं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १४८॥ क्रीडासंसक्तगौरीकनकघटनिभोत्तुङ्गवक्षोजशैल- प्रोद्यत्श‍ृङ्गारमाध्वीमधुररसधुनी लोलभृङ्गायताक्षम् । भूषानागोक्तसौख्य प्रवचनघटजस्तब्धगर्वाब्धितार्क्ष्य- व्रीडाकृच्छ्वासवक्त्रप्रमथपतिनुतं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १४९॥ नृत्तेशं बाणदैत्यप्रमुखगणवरोद्दण्डदोर्वृन्दवर्य- क्रूरोद्वेगाहतोद्यद्घटधिमिधिमितक्शब्दभावानुकल्पम् । तानातानातनेति क्वणितदशशती तन्त्रिवीणानुगानो- न्मोदोद्ग्रीवाहिभूषावलयमभयदं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १५०॥ साहसक्रूरवक्त्रप्रभव गुरुमरुत्पूरहुं हुं भभं भं- झञ्झीकृच्छङ्खश‍ृङ्गप्रमुखवरमहावाद्यभृद्भानुकोपम् । दृष्ट्वा हाहाहहेति भ्रमितसुरगणाऽभीतिसन्दायिपार्षद्- व्याप्ते रङ्गे य ईशो नटति तमनघं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १५१॥ कैलासाद्रिं कदाचित्प्रबलभुजबलाद्रावणश्चालयित्वा दाक्षायण्याऽतिभीत्या किमिदमिति समालिङ्गितस्याशु यस्य । पादाङ्गुष्ठाग्रनीतद्विरसनभुवनक्ष्माधरोच्छिन्नबाहुः साम्ना स्तुत्वा यमिष्टं वरमलभत तं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १५२॥ श्रीरुद्रं कोटिसङ्ख्यात्रिगुणितमनिशं यत्पुरस्ताज्जपित्वा शैलादिर्यस्य शम्भोरनवधिककृपापाङ्गपूराभिषिक्तः । मत्तुल्योऽसि प्रियोऽसि त्वमपि च सकलं ज्ञातवान्श्चासि ताते - त्युक्तो येनाय यस्य प्रमथपतिरभूत् कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १५३॥ श्रीमान्भृङ्गी मुनीन्द्रो मृगपरशुकरं देवमेवैकमीशं नत्वा तत्पार्श्वगाया निजविमुखरुषश्चण्डिकायाश्च वाक्यात् । शाक्तं मांसादिवर्गं स्वतनुवरगतं प्रोत्सृजन् यत्प्रसादात् लेभे दण्डं त्रिपादं स्वधुरि च वसतिं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १५४॥ कश्चिद्विप्रोरिटाख्यः स्वपतिनियमविध्वंसकम्पातरङ्गां नारीं दग्ध्वा सतीं तच्चितिगतभसितैर्लेपयन् साम्बमूर्तिम् । नैवेद्यं कर्तुमिच्छन्निह नय चरुमित्याह्वयन् यत्प्रसादात् कान्तां भेजे निजान्ते शिवपदमपि तं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १५५॥ गौर्यां श‍ृङ्गारवाप्यां स्वसखिवरगणैः क्रीडयन्त्यां कपर्दी गत्वा तद्धस्तपङ्कात् जनितमपि नरं द्वाःस्थमुद्दण्डचण्डम् । हत्वान्तस्सम्प्रविष्टः कुपितसखिमुदे तं पुनर्जीवयित्वा तस्मै विघ्नेश्वरत्वप्रमुखवरमदात्कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १५६॥ एकान्ते जातु यस्य प्रमुदितमनसा प्रोक्तवेदान्त तत्त्वो- पेक्षारुष्टस्य वाक्याद्धिमगिरितनया धीवराधीशवंशे । आविर्भूयाम्बुधिस्थप्रबलशफरसङ्ग्राहिणं यं वरेण्यं वृत्वा तद्वामभागे वसतिमपि गता कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १५७॥ केकी भूत्वा मृडानी स्वपितृकृतशिवद्वेषसंवृद्धपापं भस्मीकर्तुं पुराणं शतधृतिरचिते कानने यं त्रिणेत्रम् । सम्पूज्यानन्यदृष्टं नटनमतिमुदा वीक्षमाणा कृपार्द्रैः यस्यालोकैः पुनीता समजनि नितरां कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १५८॥ यस्य क्षेत्रे मृतानां सकलजनिभृतां सञ्चितादीनि पापा- न्यब्दानेकप्रभोज्यान्यपि च निमिषतो भैरवरश्शूलघातात् । भस्मीकृत्याशु भूयो जननमृतिहरं तारकं यन्निदेशात् तत्त्वं सम्बोधयन्यत्सदसि वसति तं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १५९॥ विष्णोरन्यः परो नेत्यसकृदपि मुधा जल्पमानं मुनीन्द्रं नन्दी कोपप्रभूतस्तनितनिभरवस्तम्भितप्रोच्चबाहुम् । व्यासं दृष्ट्वा मुकुन्दः स्वपतिरिति शिवं बोधयन् यत्कृपाया निन्ये पात्रत्वमीशं तमखिलविनुतं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १६०॥ सर्वे देवाश्च विष्णोर्हृदयसरसिजोद्भासि लिङ्गं यजन्तः क्रुद्धेऽप्यन्योन्यचर्चापदघनविलसत्पञ्चरुद्रादिमन्त्रैः । स्तुत्वा यत्प्राप्तविद्याजपपरकविराड्योगसन्तप्तलोकान् सौख्यं निन्युर्नितान्तं यदमलदयया कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १६१॥ यस्योक्त्या विघ्नराजस्सुरगणविनुतो रक्षसां सार्वभौमात् मायासम्मोहिताद्यज्जनिम शुभकरं बाहुनाऽऽदाय भूम्याम् । संस्थाप्याग्रे युयुत्सुं तमपि निशिचरं स्वीयशुण्डाग्ररन्ध्रा- कर्षात्सम्भुग्नदेहं दशभुजमकरोत्कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १६२॥ आर्यावामांसभूषानवमणिगणभासङ्गवैवर्ण्यनील- ग्रीवालोकातिशङ्किप्रसृतविषभयाक्रान्तदिक्पालवर्गम् । चूडाचन्द्राजिहीर्षादरविवृतफणाकुण्डलीकर्णलोलद् गङ्गाकूलायमानस्वसटवरवनं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १६३॥ शिञ्जन्मञ्जीरमञ्जुद्युतिशमितजगन्मोहमायाविलासं फालाक्षिस्फारकुण्डप्रभवहुतवहध्वस्त कामप्रभावम् । संसाराम्भोधिमध्यभ्रमदखिलजगत्तारनौकायिताङ्घ्रिं द्वन्द्वाद्वन्द्वादिशून्यं विजयिनुतकृतिं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १६४॥ एकान्ते यस्य लीलारदवसनसुखास्वाददन्तक्षतानि व्याघ्रत्वग्रोमरूक्षा कनकमृदुतरक्षौमभूतीरजांसि । दृष्ट्वा कस्मादियं श्रीस्त्वयि भवति वदेत्यालिगीः सोपहासं श्रुत्वा गौरी तदासीन्नतमुखकमला कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १६५॥ क्रीडन्नास्ते महेशो गिरिवरसुतया सप्रमोदं मनोज्ञे हर्म्ये नैवाद्य देवा गदितुमवसरो यात मौनेन शीघ्रम् । एवं कोपारुणाक्षो विधिहरिमुखरान् वारयन् यद्धराभृन् - मूले नन्दी गणेन्द्रैर्वसति तमपरं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १६६॥ अक्षक्रीडासु लब्धत्रिदशपुरवधूबोधनात्स्वान्तकाले नूत्नानूत्नानुयोगात्सविशयशमनप्राप्तयत्सन्निधानः । पापारोपातिरोषप्रहरणसभयोद्भ्रान्तचित्रो यदुक्त्या विप्रः कश्चिन्निधीनामधिपतिरभवत्कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १६७॥ हंस्यां लब्धस्वजन्मा करटवरवपुस्स्वर्णकान्तिर्भुसुण्ठो लेभे यस्य प्रसादादनितरसुलभं मृत्युभीतेरभावम् । कल्पे कल्पे वसिष्ठप्रमुखमुनिवरप्रश्रुतानेकवृत्तोऽ प्यास्ते यद्ध्यानयोगात्कनकगिरिवरे कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १६८॥ धूम्राक्षं रक्तबीजं महिषमपि मधुं कैटभं चण्डमुण्डौ क्रूरं शुम्भं निशुम्भं सुररिपुमपरं दुर्गमत्युग्रवृत्तम् । हत्वा युद्धे विधीन्द्रप्रमुखमकुटभादीप्तसिंहासनस्था दुर्गा यस्यादिशक्तिः निखिलमवति तं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १६९॥ ज्योतिष्टोमाख्यसोमक्रतुसवनहविःपुञ्जमत्यन्तभक्त्या गूढाकारं यमीशं सगणमपि शिवं यज्ञवाटप्रविष्टम् । हेरम्बोक्त्या प्रबुध्वा स्वयमपि मुदितो याज्यया यत्कराब्जे दत्वा माराभिधोऽग्र्यः शिवनगरमगात्कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १७०॥ क्रीडार्थं स्वाग्रभागस्थितगिरितनुजावक्त्रचन्द्रावलोक प्रोद्यत्कन्दर्परक्षामुकुलितवरदृक्भालपट्टाभिरामम् । लीलाडोलानुकूलश्वसनमुखवृषप्रान्तरायातमोह - भ्रान्तस्वर्धेनुमृग्यत्सुरनिजशरणं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १७१॥ विध्यण्डानेककोटिच्युतिकरडमरुस्फारघोषान् नितान्तं कल्पान्ताशङ्किलोकाभयकरवलयव्यालरत्नांशुकान्तम् । तिर्यक्किञ्चित्प्रकुञ्चीकृतपदरविभावाप्तिमोदानुधावद् - हस्तं प्रोच्चप्रसर्पच्छिखिलसितकरं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १७२॥ भो भोः भ्रातस्तवैषा षडपि वदनता ब्रूहि मह्यं किमर्थं जाता चेत्यादरेण द्विपवरवदनेनानुपृष्टे कुमारे । स्वामिन्षट्च्छास्त्रमद्याभ्यसितुमथ पितुश्चैकदेति ब्रुवाणे दृष्ट्वाऽजिघ्रत्पुरा यो गुहमधिगिरि तं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १७३॥ मत्स्याक्षि क्रूरकूर्मात् पृथुतरकठिनत्वग् वराहेन्द्रदंष्ट्रा घोरत्रैविक्रमास्थि प्रबलनरहरिस्फाररक्ताजिनानि । विष्णोर्नेत्राम्बुजातं विधिमुखनिचयं पूषदन्तांश्च धृत्वा यस्तद्दर्पप्रशान्त्यै प्रथयति विभुतां कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १७४॥ आसेतोरासुमेरोर्धरणिगतनिजक्षेत्रवर्येषु नित्यं साहस्राकारभाजां स्वतनुमधि च जुषच्चित्कलानां प्रमोदात् । एकां संयोजयंस्तां निशि निशि निजहृत्पङ्कजे सन्निरुन्धन् यो भात्यानन्दमूर्तिर्बहुविधफलदं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १७५॥ कल्पे कल्पे स्वकीयप्रभवलयभयं त्यक्तुमाद्ये परार्धे वेदा यं कालकालं बहुविधतपसा तोषयित्वा यदुक्त्या । त्रैसाहस्रं द्विजत्वं दिविषदसुलभं लब्धवन्तः क्रमेण नित्यं यं पूजयन्ति स्वसरणिविधिना कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १७६॥ यस्योत्कर्षं च विष्णोस्सदनमधिगतो वह्निसन्दग्धपीठे स्थित्वा श्रुत्यन्तवेद्यं शिवमपि परमं बोधयन्स्वां च भूतिम् । धिक्कुर्वन् दुर्मतीनां निकरमपि यदीयाज्ञया बन्धुवर्गैः विप्रः कश्चिद् बुधेड्यो रजतगिरिमगात्कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १७७॥ गौर्याः पाणिं गृहीत्वा हिमगिरिकटके सत्वरं स्थूलपृष्ठं धर्माकारं वृषेन्द्रं निजचरणजवोल्लङ्घिताम्भोधिवर्गम् । अध्यारूढो निजाङ्कस्थितगिरितनयां प्रेयसीं वाग्विलासैः लज्जानम्रां प्रकुर्वन्नतनुत विहृतिं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १७८॥ यत्भालस्थं मृगाङ्कं स्वरदमिति मुधा शुण्डयाऽऽदाय तस्मिन् बिम्बे दृष्टस्ववक्त्रप्रतिफलनसमाकर्षणव्यग्रचित्तम् । दानामोदानुधावद्भ्रमरमुखरितस्वर्गपातालभागं योऽजिघ्रत्स्वाङ्गसंस्थं गजमुखमनिशं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १७९॥ कात्यायन्याः कराब्जं दिनकरवदनाधीतवेदार्थबोधात् लब्धानन्दान्तरङ्गप्रशमिततमसस्तापसस्याश्रमे यः । गृह्णन् संसारवार्धावधिकभयकरे मग्नसत्वप्रपञ्चं नित्यं रक्षन्नजस्रं जयति शिवपुरे कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १८०॥ यन्मूर्तिं ब्रह्मनिष्ठाः परमहसि पदे प्राज्ञमानन्दरूपं शैवास्सदाख्यमूर्तिं हरिमिति च परे शक्तिमन्येऽपरे तु । विघ्नेशं चेतरेऽह्नां पतिमिति वटुकस्कन्दविध्यग्निशक्रान् इन्दुं केचिद्विभाव्याखिलसुखमभजन्कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १८१॥ एकं ब्रह्माद्वितीयं त्रिविधमपि चतुर्वाङ्मयं पञ्चबाण- भ्रातृव्यं षड्विपक्षद्विषदभिविनुतं सप्तजिह्वालिकाक्षम् । अष्टम्येणाङ्कचूडं नवरसनटनालोलवासो दशाशं रुद्रैस्सादित्यवर्गैः सततनतपदं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १८२॥ विष्णोर्ललाटदेशच्युतरुधिरझरीसङ्गमेनाप्यपूर्णं ब्राह्मं हस्ते कपालं डमरुमपि वहन् विश्वकद्रून् स्वपार्श्वे । दंष्ट्राग्राभापिशङ्गीकृतविपुलजटो भैरवः क्षेत्रपालो विश्वं रक्षन्नुपाधेर्यमपि भजति तं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १८३॥ सीताहस्ताब्जपिण्डीकृतवरपृथिवीलिङ्गमूलानुकर्ष - त्रुट्यद्वालास्यशाखामृगपतिरचितस्तोत्रतुष्टान्तरङ्गम् । रक्षोवृन्दप्रहारप्रभवकलिनिवृत्त्याश्रिताम्भोधितीर - श्रीरामप्रष्ठराजार्चितपदयुगलं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १८४॥ योगान्निर्बीजसंज्ञात्समुदितपरमानन्दकाष्ठासमाधि- स्थित्या वल्मीकगूढां तनुमवनिगतां नीतकल्पां धरन् स्वाम् । श्रीमान् श्रीमूलसंज्ञो नृपनुतचरितो नित्यनिस्सङ्गविद्योऽ- प्याद्यस्सिद्धो यमन्तः कलयति नितरां कुञ्चिताङ्घ्रिं भजेऽहम् ॥ हल्लीसोन्मुख्यकेलीनमितनिजशिरस्संस्थगङ्गामुखेन्दोः आलोकोत्पन्नकोपत्वरितगतिशिवासान्त्वनव्यग्रचित्तम् । दृष्ट्वा कण्ठस्थनीलं जलमुगितिमुधाऽऽयातकौमारवाहात् बिभ्यद्भूषाफणीनां मणिरुचि सुषमं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १८६॥ स्वर्गाधीशोपदिष्टामखिलसुखकरीं यत्तिरोधानशक्तेः विद्यां मोदाज्जपित्वा सुरयुवतिसमामापभैमीं स्वकान्ताम् । यत्सेवानिर्गताऽऽर्किग्रहरचितमहोपद्रवो नैषधेन्द्रो विश्वं रक्षन्निजान्ते द्युसदनमभजत्कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १८७॥ कन्दर्पाणां बहूनां प्रसवकरवरापाङ्गवीक्षाविलासैः उद्याने राजताद्रेर्हरिधृतसुतनोः शास्त्रभिख्यं कुमारम् । उत्पाद्यायातगौरीमधुरवचनतः पालकत्वं वनानां सर्वेषां दत्तवान् यस्त्रिजगदभिनुतं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १८८॥ मुग्धे कैलासवासीजरठशुभकरो गौरि चर्माम्बरोऽसौ ब्रह्मन्नैश्वर्यदोऽम्बे पितृभुवि नटकृद्विप्र कैवल्यदाता । एवं यद्वाक्यभङ्गीं मुहुरपि च तिरस्कृत्य सद्मान्तरालं गन्तुं व्यग्रामुमां योऽप्यकुरुत मुदितां कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १८९॥ यद्धासेन्दुप्रभूता निखिलमपि जगद्व्यापिनी चन्द्रिकाभा- प्याविष्णु स्थावरान्तं हृदयमधिगतं बाह्यगं चान्धकारम् । दूरीकृत्याशु सर्वान् स्वपदसरसिजध्यानशीलानजस्रं रक्षत्याद्यन्तहीनं गुरुभृगुविनुतं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १९०॥ गोदावर्यास्तटस्थोऽनृतवचनपरो दुष्टकार्तान्तिको यत् क्षेत्रे गौल्यां जनित्वा निजसुकृतलवात्स्वीयपातोक्तिदोषम् । भस्मीकर्तुं चिरं यं स्तुतिभिरभिनमन् सुन्दराङ्गो यदुक्त्या जातो यत्क्षेत्रपालो जयति तमसमं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १९१॥ भुक्त्वा हालाहलांशं युधि निहततनुं दारुकाख्यं सुरारिं कृत्वा घोरस्वकृत्यप्रचलितभुवनां भद्रकालीं शिवो यः । प्रत्येत्यानन्दनृत्तं पितृपतिभुवने दर्शयित्वा तयाऽण्डान् सर्वान्संरक्षतीशस्तमिनविधुनुतं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १९२॥ यस्योद्वाहे हिमाद्रिं गतवति निखिलप्राणिवर्गेऽर्कसूनोः आशामौन्नत्यभाजं रचयितुमधरां विन्ध्यमद्रिञ्च दैत्यम् । धिक्कर्तुं कुम्भजन्मा चुलुकितजलधिः प्रेषितो येन मोदात् तं देवं कोटिकोटि द्युमणितनुरुचिं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १९३॥ वीणासङ्क्रान्तकान्तामधुरतररसालापगीतिप्रमोद - प्रोद्यद्रोमाञ्च कूटद्विगुणतनुलताभोगसौन्दर्यशिल्पम् । यन्नानारत्नभूषाकिरणकबलिते दिक्तटे वप्रलीलां कुर्वन्त्यद्यापि मोदात् द्विरदपरिबृढाः कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १९४॥ कस्त्वं किन्नामधेयो धरणिसुरवपुः कम्पितापादचूडो गोत्रं सूत्रं कुलं त्वत्पितरमपि तथा मातरं बन्धुवर्गम् । शत्रुं मित्रं कलत्रं तनयमपि वयो ज्ञातुमीहे तवेति प्रोवाचाद्रौ पुरा यं प्रति गिरितनया कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १९५॥ स्कन्दे विघ्नेशशुण्डां स्वकरसरसिजैः मानयित्वा तदुक्तैः स्वीयैर्वक्त्राक्षिसङ्ख्यागणनपरिभवै रोदिते सानुकम्पा । देवी दृष्ट्वा स्वसूनोश्चरितमपि यदीयाज्ञया हेमकूटे वाचा सप्रेमभाजावतनुत तनयौ कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १९६॥ स्वामिन् माऽस्त्वाधिपत्यं शमनपदमहाराज्यभारे ममालं पाशं दण्डञ्च वाहं महिषमपि भटान् त्वत्पदेऽद्यार्पयेऽहम् । इत्युक्तवाग्रे नतास्यं शिवयजनपराकर्ष कुप्यद्गणेन्द्रो- द्विग्नं दृष्ट्वा यमं योऽप्यकुरुत मुदितं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १९७॥ पित्रोर्दुःखैकहेतुं कमठनिभतनुं पापजां स्वां प्रमोक्तुं वार्धौ स्थित्वा निरुन्धन् रथमपि तरणेस्तन्मुखाद्यस्य विद्याम् । लब्ध्वा जप्त्वाऽथ भूत्वा सुरयुवतिसमाह्लादि सौन्दर्यकायो राजा स्वामात्यपुत्रीपरिणयमकरोत्कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १९८॥ किं दारैः किञ्च पुत्रैः किमिति च वसुभिः किं सुहृद्भिः किमन्यैः भूयान्नास्त्येव सत्यं फलमिति हृदये सन्ततं चिन्तयन्तः । त्यक्त्वा दुःखादिहेतुं यदमलवसुधाप्रान्तक्लृप्ताश्रमास्ते सिद्धास्सर्वे बभूवुर्यदनुगतधियः कुञ्चिताङ्घ्रिं भजेऽहम् ॥ १९९॥ हेमाद्रिप्रान्तभागस्थलकमलवनाक्रीडनोद्योगहंस- व्रातालोकापदेशात्सविधगतशिवाहस्तगाढोपगूढम् । नानाकारानुभूतानुपमरतिसमुत्कूजितार्याकुचाग्र- स्पर्शोन्मृष्टालिकान्तस्थलसितभसितं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २००॥ द्रष्टुं नैवाद्य विष्णो भवति च समयो वेदवाक्यार्थबोधे ब्रह्मन्कालो न चेषो हरिमुखविबुधा गच्छतान्यत्र यूयम् । आस्तां वीणामुने सोऽप्युपदिशति परं ब्रह्मतत्त्वं मुनीनां इत्युक्त्वा तान्यदुक्त्या त्वरयति गणराट् कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २०१॥ यद्वर्षं मानुषाणां तदपि च दिवसं देवतानां प्रसिद्धं प्रोक्तं तच्चापकुम्भ प्रथमयुगहरिस्त्रीषु मासेषु षट्सु । आसन् यन्नृत्तमूर्तेरुदयमुखवराभ्यर्चनास्ते तमिन्द्रा- द्यष्टाशापालपूर्वाखिलसुरविनुतं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २०२॥ यस्येशस्यांशभूताश्शरभ-वटुकराड्वीरभद्रादिदेवाः कल्पे कल्पेऽम्बुजाक्षद्रुहिणमुखधृतक्रूरसत्वोग्रकृत्यम् । निघ्नन्तस्सार्वकालं जगदपि सकलं पालयन्तोऽन्तरङ्गे ध्यायन्तो यं जयन्ति प्रसृमरमहसं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २०३॥ कुप्यत्तातोक्तिभङ्ग्या विपिनमधिगमन् विप्रगोसङ्घरक्षां कुर्वंस्तत्रैव दिष्ट्या सरसि च विहृतिं तन्वतीनां सुरीणाम् । गायन्तीनां मनांसि स्ववशमपि नयन् यत्पदध्यानयोगात् रेजे कश्चिन्नरेन्द्रो जितरिपुनिकरः कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २०४॥ सौवर्णश्मश्रुकान्त्या कपिशकुमुदिनीनाथबिम्बं विजेतुं नासालोलम्बभूषामणिरुचिभिरिव प्रोन्नटद्दिव्यसिन्धुम् । मूर्ध्ना बिभ्राणमच्छच्छविमुखकमलामोदपुष्पन्धयाक्षं नानाविद्याङ्कुराभद्विजगणलसितं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २०५॥ ज्वालामालान्तराल प्रविलसदमलस्वाङ्गलोलम्ब चेला मूलालग्नालिशिल्पोल्ललितकटिरटत्किङ्किणी जालभूषम् । नैलीहालाहलाभाकबलित जलमुक्तारकोलाहलोद्यत् - केलीमायूरलास्यप्रमुदितललनं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २०६॥ यो यस्य ज्ञानशक्तिं दहरकुहरिणीं श्रीमहाषोडशार्णां विद्यां श्रीनाथवीरैः गुरुभिरपि नुतां योगिनीदूतिसेव्याम् । आत्माभिन्नां शिवां तां हृदि परिचिनुते स स्वयं निर्विकल्पो भूत्वा योगीन्द्रपूज्यो भवति तमगुणं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २०७॥ यच्छम्भोर्नृत्तरङ्गं पितृभुवनमभूत्कालकूटं च भिक्षा भूषा नागा विभूतिर्मलयभवरजो ब्रह्मशीर्षं कपालम् । अद्रिः शय्या च वस्त्रं त्वगपि सहकृता भूतभेतालवर्गाः वाहश्चोक्षापतिस्तं धृतहरिविशिखं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २०८॥ वासिष्ठब्रह्मदण्डप्रमुषितसुधनुर्बाणसेनासमूहो ब्राह्मण्यप्राप्तिकामो रचितवरतपाः कौशिकः क्षत्रवर्यः । तुष्टस्वायम्भुवास्यप्रभवितसवितृख्यात यच्छक्ति विद्या - प्राप्तस्वेष्टानुभावो भुवि जयतितरां कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २०९॥ यातायातादिहीनं यमनियमपरप्रार्थित ब्रह्मतत्त्वं यज्ञं यज्ञाग्निरूपं यजनकरबुधैरीड्यमानं त्रिसन्ध्यम् । याथार्थकारलीनाखिल भुवनमजं यामिनीशानचूडं याञ्चाकापट्यहीनं यतिवरविनुतं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २१०॥ विश्वेशं विश्ववन्द्यं विविधभयहरं विश्वरूपं वृषाङ्कं विष्णुं विन्ध्यारिकान्तामुखरमुनिसती पूजिताङ्घ्रिं विरागम् । विद्याविश्रान्ति भूमिं विधुधरमकुटं व्युप्तकेशं विनाश- स्थित्युत्पत्यादिहेतुं विकृतिमविकृतिं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २११॥ केल्यामौत्सुक्यभाजा तुहिनगिरिजया सस्पृहं दत्तवीटी- सेवारक्ताधरोष्ठद्युतिजितदिनकृद्बालबिम्बांशुचक्रम् । गीति प्रावीण्यशैली प्रकटनकुतुकात् हस्तवास्तव्यलोलां वीणां संवादयन्तं प्रथमरसमयं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २१२॥ अश्वत्थामा कृपार्यो बलिरपि हनुमान् कुम्भकर्णानुजातो व्यासर्षिर्जामदग्न्योऽप्यधिगतयशसस्सप्त धीरा महान्तः । यत्पादाब्जार्चयाऽऽपुर्जनिमदसुलभं श्रीचिरञ्जीविभावं तं कृष्णश्वेतरक्तद्युतिमतिकरुणं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २१३॥ जायादानप्रकुप्यत्स्वजनकृतरणावेशकाले प्रसन्नं यं दृष्ट्वा नेत्रवारिस्रपिततनुलताभोगसातङ्ककम्पः । यस्याङ्घ्रिध्यानभानुप्रकटितविभवो वैश्यजो भक्तवर्योऽ- प्यध्यारूढो वृषेन्द्रं रजतगिरिमगात् कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २१४॥ त्यक्तस्वस्वाधिकारास्सरसिजनयनाश्चागतं देवसौख्य- प्राप्त्यै गोविन्दमुक्त्वा कुशलमपि कराश्लेषपूर्वं प्रमोदात् । वत्स त्वं ब्रह्मतत्वं हृदि न विकलयन्प्रार्थ्यसे दुःखहेतुं कर्मेत्युद्बोधयन्तो यमपि गिरिवरे कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २१५॥ भो भो ब्रह्मर्षिमुग्धाः सदयमपि मया शिक्षिताश्चाप्यजस्रं वेदान्ते तत्त्वबोधे न भवत विबुधा यत्ततोऽद्यापि यूयम् । मेधाप्राप्त्यै सभेशं व्रजत शरणमित्यादराद्बोधयित्वा धाता यत्क्षेत्रराजं मुनिगणमनयत्कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २१६॥ गीर्वाणाद्रिं कदाचिद्विपुलरदनयोरन्तरे स्वर्णरम्भा- भ्रान्त्या सन्धार्य वेगाद्रजतगिरिवरे क्रीडयन्तं गणेशम् । दृष्ट्वा प्रेम्णाऽद्रिजाता यमपि च तरसाऽऽहूय निर्दिश्य सूनोः वृत्तं तुष्टाऽभवत्तं दिविषदधिपतिं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २१७॥ सोत्साहं वीरबाहुप्रमुखसखियुतो दोर्भिरब्धिं षडास्यः तीर्त्वा पूर्वक्षमाभृच्छिखरमधिजुषं बालमार्ताण्डबिम्बम् । चोलीमानीयमानो धुरि च विरचयन्सैंहिकेयस्य लीलां यद्वाचा संव्यधात्तं नभसि च परमं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २१८॥ सद्व्योम व्यापि-तारप्रवलयविलसद्ज्ञानवाञ्छाक्रियादि- श्रीमच्चिच्छक्ति विद्याहृतविपुलतमो राजसं सद्भ्रुकुम्सम् । गाढाऽविद्याकवाटोन्नयनशममुखद्वारपालाभिगोप्यन्- मोक्षद्वारान्तरङ्गोपनिषदुपचितं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २१९॥ आविः स्मेराननस्य द्युतिभिरभिनवैः पाणिपद्मान्तराल- प्रोद्यत्कान्ति प्ररोहैर्नभसि च रचयन् जालमह्नां पतीनाम् । नव्यामम्भोदमालामधिधरणिरुचा पार्श्वगायाश्शिवायाः चित्रं यो नानटीति भ्रमरनटनकृत्कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २२०॥ अच्छामच्छिन्नधाराममृतकररुचेर्वर्षयन् लब्धकामां दीनामत्यन्तखिन्नां रतिमपि मुदितां संव्यधादीश्वरो यः । यद्रङ्गाखण्डलाशामधिगतपरमानन्दकूपाम्बुपानात् वाचालत्वं प्रपन्नास्सुरगुरुमुखराः कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २२१॥ ओङ्कारस्वर्ण संसत्प्रसृतपरशिवज्योतिरानन्दनृत्ता- लोकादुत्तीर्णमुग्रं भवमतिविपुलं वार्धिकल्पं मुनीन्द्रैः । ऊहापोहादिहीन स्वतनुगतजगद्वृन्दमध्यात्मविद्या- बोधाचार्यं पुराणं प्रशमिततमसं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २२२॥ दक्षाद्वामाच्च पृष्ठात् द्रुहिणहरिहरान् सर्वसम्पत्समृद्धान् कल्पारम्भे य ईशोऽप्यनितरसुलभस्वेच्छया सप्रमोदम् । सृष्ट्वा संसृष्टिरक्षालयकरणविधौ योजयित्वा तु वाणी- लक्ष्मीगौरीति शक्तित्रयमपि च ददौ कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २२३॥ काचिन्नालायनीति प्रथितमुनिसती भर्तुरिष्टानुकूला माण्डव्यप्रोक्तशापज्वलनशमनकृद्दुर्दिनश्रीविलासा । यन्मन्त्रध्यानयोगादनितरसुलभान् पञ्च कान्तान् नरेन्द्रान् लेभे जन्मादिहीनं शिवपदमपि तं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २२४॥ सिंहस्कन्धाधिरूढं सितवसनधरं सिन्धुसम्बद्धशीर्षं सिञ्चन्माध्वीमधूकप्रमुखसुमगणोद्दामभूषामनोज्ञम् । सिद्धादित्याहि विद्याधर पितृ दिविषद्दैत्यगन्धर्वयक्षो- रक्षोयोगीन्द्र साध्याखिल जनविनुतं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २२५॥ प्रत्याहारादियोगैर्हृदयकमलतो ब्रह्मरन्ध्रं स्वकीयं प्राणानानीय दिव्यं गणमपि शरदां वाहयन्तो महान्तः । योगीन्द्रास्सिद्धविद्यौषधिमणिगुलिकासेवया वज्रदेहाः स्वात्मानं यं भजन्ति ज्वलनवरदृशं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २२६॥ सानावस्मिन्किमर्थं वसत सुरवरा गच्छताद्याखिलेश- क्षेत्राधारं धराया हृदयकमलगं पुण्डरीकाभिधानम् । क्षेत्रं तत्रैव देवो दशशतकलया राजतीति प्रियोक्त्या नन्दी यद्दर्शनार्थं त्वरयति च गिरेः कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २२७॥ सृष्ट्यर्थं ब्रह्मणा यस्स्तुतनिजविभवस्तस्य ललाटदेशात् आविर्भूय स्वतन्त्रो विकृततनुवरान् रुद्रवर्गान् गणेन्द्रान् । सृष्ट्वा तान्प्रेरयित्वा जगदवनविधौ सर्वदा सत्वसंस्थो- ऽरक्षद्विश्वाधिकं तं नतजनसुखदं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २२८॥ वाचां केलिष्वमन्दं दितिजदिविषदोर्मुष्टिमुष्टीरणेऽब्धेः तीरे जाते सुधाढ्यं घटमपि कलयन्हस्तकोणे मुरारिः । सम्मोह्याद्यान् द्वितीयानरचयदमृतान् कामिनी कामिनीनां भूत्वा यश्शूलपाणेरनवधिदयया कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २२९॥ पद्मे मास्त्वध लीलाफणिपतिशयनं वैनतेयोऽपि नालं भूमि त्वं शीघ्रमायाह्यहमपि नटते तिल्लवन्यां पुरारेः । हस्ताभ्यां वादयिष्याम्यहह चटुतरं मद्दलं चेत्युदीर्य प्रायाद्यद्रङ्गमादौ हरिरपि तमजं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २३०॥ पश्येदं स्वर्णश‍ृङ्गं मम सदनवरं गौरिकेदारसंज्ञं काशीं काञ्चीपुरीमप्यरुणगिरिवरं श्वेतकान्तारदेश्यम् । वेदारण्यं च सेतुं मुहुरपि वृषभं योऽधितिष्ठन्प्रियायै निर्दिश्याप्नोति नैजं निलयमनुदिनं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २३१॥ स्वामिन् भिक्षो भवेद्वा क्व नु तव नगरे पर्वते वा वने वा वासः कस्मादिह त्वं चरसि वद विभो कुत्र गन्ताऽसि भिक्षाम् । कुर्वन्नत्रैव तिष्ठन् विरचयतु भवान् केलिमस्माभिरेवं स्त्रैणं यं चाभ्यधावद्वनभुवि विवशं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २३२॥ वामा वामाङ्गभागो नयनमपि जटाः कुण्डलौ यज्ञसूत्रं वाहो बाणश्च चापध्वजरथतुरगा यस्य जाता विचित्रम् । सूतश्चापि स्फुलिङ्गैर्निटिलनयनजैर्दाहयित्वाऽण्डजालं कल्पे कल्पे पुनर्यस्सृजति तदखिलं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ पादाङ्गुष्ठस्य यस्य द्युतिकवचितदिक्चक्रवालान्तराले ब्रह्मा हंसं मुरारिः कलशजलनिधिं देवराजो गजेन्द्रम् । स्वं छत्रं वाजपेयी दिनकरशशिनौ सैंहिकेयश्च शुक्लं वर्णं शिल्पी नितान्तं मृगयति सततं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २३४॥ ज्ञानेच्छाभ्यां सखिभ्यां सह रहसि मुदा नक्तमश्रान्तलीलो भूत्वा प्रातस्सभायामिह किमु भवतस्साहसं नन्दनीयम् । यातु स्वर्गापगाया निकटतटमयं नार्थनीयो जनश्चे- त्युक्त्वा साचीकृतामन्वनयदगसुतां कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २३५॥ कल्पान्ते वृद्धिभाजां कबलितजगतां सप्तवारान्निधीनां मध्ये पालाशशायी हरिरिह पुरुषो नास्ति मत्तोऽपरोऽन्यः । एवं दर्पावलीढोऽप्यनुपदमुदितं शूलिनं भैरवं यं दृष्ट्वा भीत्या ननाम स्तुतिभिरभिनवैः कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २३६॥ यत्संहारास्रवेगं मुहुरपि हृदये तर्कयन्नम्बरान्ते प्राणत्राणाय यत्नं दशरथनृपतेर्युद्धरङ्गे प्रकुर्वन् । रोहिण्याकारचक्रानुगतिमपि जहौ सौरिरर्कात्मजातः तं देवं राहुकेतुग्रहमुखविनुतं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २३७॥ इन्दुर्यत्क्षेत्रसेवासमसमयवलत्तिल्ववृक्षानिलानां स्पर्शादुन्मृष्टवर्ष्मा सुरगुरुयुवतीसङ्गजैः पापरोगैः । यद्ववक्त्रालोकनेन स्वतनुपरिगलच्चन्द्रिकासारसिक्तान् सर्वान्लोकानकार्षीत्शमनमदहरं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २३८॥ कालिन्दीवीचिजालैर्भुवनमहिपतेर्नीतमानन्दभाजं कान्तं सीमन्तिनीति क्षितिपतितनया काचिदौपासनैस्तैः । सौम्यैरुद्दामकल्पैः प्रमुदितमनसो यस्य शम्भोः प्रसादात् प्रापावैधव्ययौगं सुखमपि निखिलं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २३९॥ विष्णौ निर्ज्वालचक्रे भ्रमितहृदि विधौ भास्करे दन्तहीने शक्रे निर्भिन्नगण्डे हुतभुजि विशिखे त्यक्तजीवेऽखिलेऽन्ये । छित्वा दक्षोत्तमाङ्गं मखभुवि सगणं वीरभद्रं चरन्तं दृष्ट्वा योऽतोषयत्तं प्रमुदितहृदयं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २४०॥ सावित्रीति प्रसिद्धा नरपतितनुजा काननान्तः स्वभर्तुः प्राणानाहर्तुकामं सभटमपि यमं यस्य पूजाप्रभावात् । सम्मोह्यानम्य तस्मात्पतिमपि तनयान् राज्यमन्याः समृद्धीः लेभे तं कालकालं कटितटफणिनं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २४१॥ ब्रह्मैवाहं शिवोऽहं विभुरहममलश्चिद्धनोऽहं विमायः सोऽहं हंसस्स्वतन्त्रस्तदहमतिजरः प्रज्ञया केवलोऽहम् । ध्येयध्यातृ प्रमाणैः गलितमतिरहं निश्चलोऽहं सदेति प्राज्ञा यच्चित्सभायां अतिशयमभजन्कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २४२॥ कान्तारे जातु कृष्णो द्विजरविमणिहृद्भल्लबन्दीकृतायाः सौन्दर्यान्निर्जितायास्सुरवरयुवतीं जाम्बवत्याः प्रियायाः । पाणिं जग्राह यस्य प्रतिदिनयजनात्कीर्तिमाशाविहारां लेभे तं सर्वविद्यालयकरनटनं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २४३॥ मालादिग्बन्ध पूजाकवचवरमहायन्त्र विद्यारहस्य- श्रीमत्साहस्रनामस्तवपरिविलसद्यन्नवाङ्गानि पूर्वम् । सूतश्रीजैमिनिभ्यां रहसि सकरुणं प्रोक्तवान्दीक्षयित्वा पाराशर्यो महर्षिः श्रुतिविभजनकृत्कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २४४॥ सद्योजातादिमानां वदनजलभुवां पञ्चकाद्यस्य जातान् मन्त्रांस्त्रैलोक्यवश्य प्रमुखवर महासिद्धिदान्सप्तकोटीन् । श्रुत्वा गौरी यदुक्त्या जगदुपकृतये सप्रयोगान्सकल्पान् तान्लोकानानिनाय स्वयमतुलकृतिं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २४५॥ अद्राक्षीन्नन्दिकेशः कनकसदसि यं ह्यर्धनारीस्वरूपं पश्चान्नारायणार्धं पुनरपि गिरिजारूपमाकारहीनम् । तारं तन्मण्डलान्तर्ज्वलनमनुपमं सच्चिदानन्दमूर्तिं नृत्तेशानं मुहूर्तं तमपरसुगमं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २४६॥ पार्वत्युत्सङ्गदेशस्थितिमधिजुषतोः स्कन्दहेरम्बयोस्ता- वाहूयाद्याखिलाण्डान्झटिति च युवयोः कस्समर्थोऽटने सः । स्वीकुर्यादेतदाम्रं फलमिति निगदन्नग्रतो यस्तदीयं वृत्तं दृष्ट्वा मुमोद क्षितिधरशिखरे कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २४७॥ नानाजीवात्मवादि प्रकटितकुनयाभासयुक्त्यद्रिपक्ष- द्वन्द्वच्छेदानुधावड्डमरुकमुखरज्ञात सत्यार्थलोकम् । वाञ्छाकल्पद्रुकल्प प्रपदयुगनत ब्रह्मनिष्ठावलिं तं चिन्मात्रं चित्सभेशं निरतिशयगुणं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २४८॥ विष्णोश्चक्रापहर्तुः प्रथितबलजुषो भूतचक्राधिपस्य क्षुत्तृट्दुःखप्रशान्तिप्रदनिजचरितस्तब्धपाण्ड्यात्मजातम् । श्वश्रूवाञ्छाभिपूर्त्यै निजधुरि च मुदाऽऽनीत सप्ताम्बुराशिं भक्तस्त्रीपक्वपिष्टाशनरुचिमुदितं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २४९॥ अत्रेः कान्ताऽनसूया निखिलजननुता यं समभ्यर्च्य पुत्रं दत्तात्रेयाभिधानं त्रिमुखमपि चतुर्बाहुमद्वैतवृत्तिम् । श्रुत्यन्तोद्दामलीलं सकलमुनिततेरग्रगण्यं महान्तं लेभे तं स्वात्मबुद्धत्रिभुवनचरितं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २५०॥ कल्पारम्भे यदीयाद्वरगलविवरादोमथेति द्विशब्दौ सिद्धान्तार्थ प्रबोद्धृप्रवरशिवकरावाविरास्तां पुरस्तात् । पश्चाद्वेदादि विद्याविधिहरिमुखरा देवतास्सर्वलोकाः जातास्तं दक्षिणास्यं द्युतिकरनिलयं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २५१॥ सङ्कल्पोल्लासहीनं सरिगमपधनी सप्तवर्णानुवर्ण- प्रारम्भोद्गानलोलाखिल सुरयुवती वृन्दसङ्कीर्णरङ्गम् । नादध्यानानुमोदागतनिजनिकटानेक सिद्धर्षिदेव- स्तोत्रध्वानैर्नितान्तैर्जितजलधिरवं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २५२॥ दोषां साहस्रयुग्मैर्धृतपरशुमुखैराननानां सहस्रैः त्रैसाहस्रैस्तथाक्ष्णामपरिमितजटाधोरणी धाटिकाभिः । ज्वालामालाभिरग्नेरपहसितघनैरट्टहासैर्विशालैः निध्वानैर्योऽन्तकाले विहरति तमजं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २५३॥ शेषे जातु स्वभोगात्सुरगिरिशिखरं वेष्टयित्वा नितान्तं त्रैलोक्यप्राणभूतां कबलयति तनूं नारदात् ज्ञातवृत्तः । वायुर्यद्ध्यानयोगात् प्रबलतनुरयात् भुग्नवक्त्रं स भूभृत् - श‍ृङ्गं चिक्षेप वार्धौ फणिपतिमपि तं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २५४॥ विश्वामित्रप्रयुक्तात् स्वपुरसुतसुहृत्कामिनी विप्रयोगात् क्लिश्यन्नालीकवार्तां गदितुमपि पटुः पूजया यस्य नित्यम् । लब्ध्वा स्वां सम्पदं तामभजदथ हरिश्चन्द्रसंज्ञो नरेन्द्रो धाम स्वायम्भुवं तं निगमरथवहं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २५५॥ आबाल्यात् द्रव्यमेतत्सुमुखि तव मुदे यन्मयात्तं तदद्य स्वीकुर्वाणा नितान्तं मदनशरहतं गाढमालिङ्ग्य दोर्भ्याम् । अत्रैवाश्वासयेति त्वरितगतिमुमामालिभिर्वारितोऽपि श्रीमान्यो ह्यन्वगच्छन्नगतटभुवि तं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २५६॥ आलि त्वं सान्त्वयार्यां मयि कुपितधियं दारुकारण्यवासि- स्त्रीणां केलीविलासैर्हरिधृतसुतनोस्साहसात्पर्वतेन्द्रे । सङ्गाद्दिव्यापगाया मदनदहनतश्चेति साकूतमुक्त्वा कान्तागारे जयां योऽगमयदसुलभं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २५७॥ यश्शम्भुर्लीलया स्वं जनिम सुखकरं तापसानां वचोभिः हस्तादुत्पाट्य देवैः किमिदमिति भयाद्वीक्षितोऽरण्यदेशे । चिक्षेप ब्रह्मविष्णुस्तुतिभिरपि पुनस्तान्मुनीन् ज्ञाततत्त्वान् कृत्वाऽप्यन्तर्दधे तं प्रणतफलकरं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २५८॥ सिद्धाकारप्रगुप्त स्वतनुमपि जगद्दृष्टमाहेन्द्रजालं चित्रस्तम्भस्थितेन प्रचलितकरिणा भुक्तपुण्ड्रेक्षुखण्डम् । मुक्ताहारापहार भ्रमितनरपति स्तोत्रनिर्निद्रितान्तः पद्मं साहस्रनेत्र प्रमुखनुतपदं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २५९॥ मौलौ गङ्गा गलान्तर्गरलमहिततेः कङ्कणं दोषि फाले चन्द्रं तार्तीयनेत्रं ज्वलनसमशिखं शूलमाजं कपालम् । भूतप्रेतादिसेना निगममयशुनो यस्य लीलाकिरात- स्याग्रे दृष्ट्वा किरीटी भ्रमितमतिरभूत्कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २६०॥ कस्तूरीपङ्कलेपं मृगमदतिलकं पुष्पमालां च नूत्नां दृष्ट्वा जात्वम्बुजाक्षी धरणिधरसुताऽप्यन्यथा तर्कयन्ती । नाथेदं लक्ष्म सत्यां मयि तव समभूत् ब्रूहि कस्या मुदे चे- त्यायान्तं निर्बबन्धाधिकशपथमरं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २६१॥ कथ्यं कल्पद्रुकाम्यं करिवसनधरं कृष्णरक्ताङ्गवर्णं कालातीतं कवीन्द्रं कविकुलविनुतं क्लृप्तलीलाविशेषम् । कृत्याकृत्यादिशून्यं कुमतिविरहितं क्रुध्रबाणासनाङ्कं कङ्कालं कालिनृत्तप्रमुदितहृदयं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २६२॥ सर्वेषामस्मि कर्ता प्रभुरपि जगतां पालको नाशकश्चे- त्युच्चैर्विष्णौ कदाचित्प्रलपति च मुदा यस्स्वयं तत्समक्षम् । रुद्रस्संहारमूर्तिः स्वतनुरुहततेराशु विष्णूनसङ्ख्यान् सृष्ट्वा तद्दर्पवह्निं पुरभिदशमयत्कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २६३॥ कान्तासंहारकुप्यद्भृगुमुनिगदितं भीकरं घोरशापं नानाजन्मैकहेतुं शमयितुमनिशं पूजयन्तं मुकुन्दम् । उत्पत्तीनां दशैव त्रिजगदभिभवद्दानवान् शिक्षितुं ते भूयादित्यादिदेश प्रभुरतिकृपया कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २६४॥ लीलां यस्यानभिज्ञा मखभुवि यतिना येन वेद्यन्तरस्मिन् क्षिप्तं यावत्कपालं निरसितुमबला द्योसदश्चास्तुवन् यम् । पौरोडाशस्य भूयादधिकरणमिदं संयजन्तामिदानीं इत्युक्त्वाऽदर्शि नैजं निगममयवपुः कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २६५॥ देवेन्द्रे वृत्रहत्त्या परिभवति तदा स्वर्गराज्याधिकारे युक्तं दर्पावलीढं नहुषनरपतिं कामितारं नितान्तम् । पौलोमी यस्य नाम्नां मननविभवतः कुम्भजातस्य शाप- व्याजान्निन्ये धरां तं जनकनृपनुतं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २६६॥ दिक्कालाद्यैर्विचिन्त्यं स्वमनुमननकृन्मान्यमद्वैतसारं मध्याद्यन्तादि हीनं सकलजनमनोवृत्तिदृष्टारमाद्यम् । मायातीतं प्रशान्तं द्युतिकरमखिलज्योतिषामीश्वराख्या- वाच्यं तेजोमयं तं परमपरनटं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २६७॥ भोगात्प्रारब्धकर्माप्यधिकभयकरे सञ्चितागामिके द्वे ज्ञानान्नाशं प्रयाते इति निगमवचांस्याहुरेतत्प्रसिद्धम् । तान्यप्यालोकमात्रात् निजनटनतनोः प्राणिनां जातु दिष्ट्या निघ्नन् यच्छन् सुखं यः सदसि विजयते कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २६८॥ यः शम्भुर्भूर्भुवस्स्वर्भुवनपरिबृढैस्संस्तुतः सत्यवादैः यस्मात्सार्वात्म्ययोगानुभवनिपुणतां लेभिरे योगिवर्याः । लीढालीढार्थतत्त्वोपनिषदविषयाकाशगो यश्शिवस्तं प्रत्यक्ब्रह्मैक्यनिष्ठागुरुममरनुतं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २६९॥ वम्र्याकारत्वभाजा दिविचरपतिना खण्डितेष्वासकोटि- त्रुट्यद्वक्त्रस्य पुंसो वपुरतिचकितं वीक्षयन्तो निलिम्पाः । यं स्तुत्वा यन्निदेशात्तुरगमुखयुतं तं विधायाश्विनीभ्यां चक्रुर्यज्ञं यथावत्तमपि नटपतिं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २७०॥ स्वामिन् कृष्णात्र युद्धे कनकमयतनुर्भूतिमान् शूलपाणिः वक्त्रादग्निस्फुलिङ्गान् रणभुवि विकिरन्सञ्चरत्यद्वितीयः । कोऽयं ब्रूहीति पार्थे वदति सविनयं वासुदेवो मुहूर्तं योगात् ध्यात्वाऽब्रवीद्यच्चरितमनुपमं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २७१॥ सत्यं ब्रह्मैव नान्यज्जगदिदमखिलं चेति मीमांसयित्वा त्रैयन्तोक्त्या बुधेन्द्रा हृदि च यमनिशं चिद्धनं दुर्निरीक्ष्यम् । दीपज्वालाशिखावत्सततपरिचयानन्दनृत्तं विमायं शुभ्रं पश्यन्ति तत्सत्पदविषयमरं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २७२॥ विद्यामग्नौ प्रतिष्ठां पयसि च धरणौ योनिवृत्तिं समीरे शान्त्याख्यां शान्त्यतीतां नभसि निजकलां योजयन् ह्यप्रमेयः । सूक्ष्मात्सूक्ष्मान्तरङ्गे दहरकुहरचित्पुण्डरीकाख्यवेश्म- न्यन्तश्चिन्मात्ररूपं रचयति नटनं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २७३॥ सौवर्णं विष्टरं यः कनकघटनिभौ स्वप्रियायाः स्तनौ द्वौ पश्यन् लीलाकटाक्षैः करजलजवरैर्मण्डयन्सप्रमोदम् । अध्यासीनः पुरस्तान्मणिमुकुरगतं स्वानुबिम्बं शिवायाः तुष्ट्यै चाहूतवान् श्रीविनुतनिजपदं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २७४॥ भूवाय्वाकाशतोयज्वलनरविशशीयज्वरूपैः प्रपञ्चं यो धत्ते मस्करीन्द्रैश्च्युतमलहृदयैः सेव्यते यस्तुरीयः । हंसाभिख्योऽद्वितीयः स्वगतनिखिलविध्यण्डजालो हिरण्य- श्मश्रुस्तं शान्तकल्पं नियतिपदभरं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २७५॥ योऽदान्नैजोत्तमाङ्गामृतकिरणसुधामण्डपिण्डीकृताङ्गं तेजोभग्नेन्दुवह्निद्युमणिघनरुचिज्योतिषं हीरकल्पम् । नित्यं देदीप्यमानं प्रतिसमयमपि स्वस्य पूजां विधातुं लिङ्गं विप्रेषु मोदात् भवभयहरणं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २७६॥ स्वात्मानन्दानुबोध प्रवितरणसभातारभूतोरुकक्ष्यां अध्यासीनैर्वसिष्ठच्यवनशुकमुखैस्तैः प्रसङ्ख्यानयोगैः । ईडयं यं चाश्रयन्तः ककुबधिपतयो नाद्रियन्ते तथा स्वं स्थानं तं तुम्बुरूक्ति प्रमुदितहृदयं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २७७॥ शक्तेर्यस्य प्रसादादधिधरणि महानादिशेषावतारो योगीन्द्रो देहभाजामघमतिविपुलं चित्तवाक्कायसंस्थम् । दूरीकर्तुं च यष्टुं यमकृतकपथा योगशब्दौषधार्चा- ग्रन्थान् पातञ्जलाख्यान् स्वयमपि कृतवान् कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २७८॥ द्यूतक्रीडाविहारे शिवगिरिसुतयोः जातु मिथ्योक्तिकुप्यद्- गौरीवाक्य प्रभूतामजगरतनुतां त्यक्तुमत्यन्तघोराम् । कैलासोपत्यकायां यमपि च तपसा तोषयन् यत्प्रसादात् लेभे स्वं प्राक्तनं तद्वपुरपि मुरभित्कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २७९॥ त्रैगुण्यानामतीतं त्रिजगदभिनुतं सत्रिवर्गापवर्गं त्रैयन्ताचार्यमूर्तिं त्रिपुटिविरहितं त्रिस्थमप्यत्रिरूपम् । तृष्णाहीनाशयस्थं त्रिशिखवरधरं त्र्यक्षमात्रेयभूषं त्रेतानन्दं त्रिकोणस्थितिजुषमचलं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २८०॥ स्वस्त्रीवक्षोजयुग्मे यमधिककरुणं भावयित्वा च भक्त्या रत्या सन्तर्प्य तेन प्रमुदितमनसो नृत्तमूर्तेः प्रसादात् । यस्याभूल्लोकजेता सुममयविशिखो मन्मथः श्रीकुमारः तं देवं सुन्दरेड्यं द्युसदननटनं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २८१॥ आयुर्यत्कैटभारेः परममभिमतं पूर्णतामेति तावत् कल्पो यस्य क्षणार्धो भवति च सुगमः किञ्चिदंशेन हीनः । इत्याहुर्वेदवाचः किमुत शतधृतेः किञ्च दिक्पालकानां तं कालं कालभक्षं फणिफणनटनं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २८२॥ कालीं चण्डोर्ध्वनृत्तावनतमुखगणां ब्रह्मचामुण्डिकाख्यां गौरीकोपाग्निजातां दितिसुतभयदामंशयुक्तां विधातुः । स्वागश्शान्त्यै नितान्तं सविधकृतनुतिं यः कृपापूर्णदृष्ट्या रक्षन्स्वक्षेत्रपालामकुरुत परमं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २८३॥ सर्वेशं सर्वसत्वप्रकृतिमविकृतिं सर्वदं सर्वभूषं सर्वातीतं सदाख्यं सकरुणनयनं सर्ववेदान्तसारम् । सत्यं सद्व्योमसंस्थं सनकमुनिमुखैरर्चितं सामगीत्यां उत्साहं संसदीशं सकलकविनुतं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २८४॥ कर्तुं चाकर्तुमेतत्सकलमपि जगच्चान्यथा कर्तुमीशः शक्तश्चाकाशतुल्यो भवितुमपि शिवो यस्समाधिक्यशून्यः । जाग्रत्स्वप्नातिशायी पृथुतरसुखकृत्स्थान संस्थोऽपि नैजां मायामाविष्करोति त्रिविधगुणमयीं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २८५॥ साकं गौर्या हिमाद्रेर्निकटवरतटे सञ्चरन् योनिजास्य- स्वेदोद्भतं प्रभाभिर्विजितदिनकरं बालमाहूय मोदात् । भौमाभिख्यामजालिग्रहयुगमनृणाधीश्वरत्वं च वाहं शक्तिं भूषां ददौ तं दिविचरविनुतं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २८६॥ यस्मिन्दृष्टे परस्मिन्न चलति हि मनो देहभाजां कदाचित् यस्मात्कुत्रापि नान्यो भवति च परमो देवतासार्वभौमः । एको दाधर्ति तिर्यङ् निजवपुषि जगत्प्रोतमोतं समस्तं तं चित्रं चित्रनृत्तप्रमुदितगिरिजं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २८७॥ कश्चिद्भूपालसूनुर्वृषभमुनिवरस्योपदेशात् यदीयां शैवीं विद्यां जपन्यत्कवचनुतिमपि प्राप्तकामो बभूव । तं शर्वं वारिजाक्षद्रुहिणसुरपति प्रेतनाथाग्निरक्षः- पाशीवाय्वीशयक्षद्युमणिशशिनुतं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २८८॥ यद्रङ्गस्वर्णकुम्भं दिनकृदनुदिनं वीक्ष्य मेरुभ्रमेण रथ्यं संरुध्य मध्ये क्षणमपि निवसन् यत्सपर्यासुजातम् । घण्टाभाङ्कारघोषं त्रिशतदशमखीवेदमन्त्राश्च भूयः श्रुत्वा तिल्लीवनाख्यं पुरमिति मनुते कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २८९॥ कण्ठे कालो ललाटे हुतभुगुरगराड्भूषणं चर्म वस्त्रं भूतिर्गन्धो विहायो निलयमथ पुनः पुष्पवन्तौ च नेत्रे । वृत्तिर्भिक्षा स्वकार्यं नटनमगसुता प्रेमकान्ता गजास्यः सूनुः यस्यातिचित्रं समजनि सदयं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २९०॥ यत्संसत्स्वर्णभित्तिं परितरनुपमास्स्वर्गनार्यः कराब्जैः आदर्शाद्यष्टभद्रं कनकमणिमयं यस्य तुष्ट्यै वहन्त्यः । सेवां कुर्वन्ति पञ्चावरणमधिगतैर्ब्रह्मविद्येशपूर्वैः स्तुत्यं तं चित्रकूटस्थितिभिरथ सुरैः कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २९१॥ भक्तास्त्रैषष्टिसङ्ख्या द्विजमुखकुलजा यत्सपर्याविशेषैः सारूप्यं यस्य नाम्नां मुहुरपि पठनात् यस्य सामीप्यसिद्धिम् । सालोक्यं यस्य भक्तिप्रकरणजनतासङ्गसम्भाषणाद्यैः सायुज्यं यस्य भावादनुपममभजन्कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २९२॥ यश्चित्रस्तम्भकक्ष्यामधिविशदखिल प्राणिवर्गान् विशुद्धान् कुर्वन् कश्चिन् महात्मा पुरुषमृगतनुर्योगिराड् यत्सभायाः । पूर्वस्मिन्द्वारदेशे निवसति हृदये सन्ततं यं विचिन्वन् तं देवं चिद्विलासप्रकटितनटनं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २९३॥ भेजे त्रैशङ्कवीयां स्थितिमपि च गले यस्य शम्भोः करालः क्ष्वेलः कल्पान्तकालज्वलनकबलनज्वालकल्लोलकीलः । सातङ्काहार्यजायास्सभयमधुभिदो वारणप्रेरणाभ्यां भूयो भूयस्तमाद्यं जलदगलरुचिं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २९४॥ लोकेष्वद्वैतविद्यां प्रकटयितुमना यस्स्वयं कृत्तिवासाः मोदात्सर्वज्ञपीठस्थितिजुषममलं शङ्कराख्यं यतीन्द्रम् ॥ स्वांशान्नैजाङ्घ्रिपूजाप्रशमिततमसां भूसुराणां कुलाब्धौ उत्पाद्यान्वग्रहीत्तं शुकमुनिविनुतं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २९५॥ पाताले मर्त्यलोके दिवि च पुररिपोर्यानि यानि प्रियाणि क्षेत्राण्यासंस्तदन्तःस्थितिमधिजुषतां लिङ्गबेरादिमानाम् । हेतुः श्रीमूलनाथः शिवजनिमवरो यत्सभोदीचिभागे कक्ष्यायां भाति नित्यं तमखिलजनकं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २९६॥ ब्रह्मन्सृष्टिं यथावत्किमपि च कुरुषे भो हरे रक्षकत्वं साध्यं ते रुद्र भावं मम च वहसि किं पाल्यतेऽसौ त्रिलोकी । केनानुष्ठीयते किं भुवि च मुनिवरैर्यज्ञ इत्यं स्वसेवा- नम्रं यो देववर्गं मुदयति वचसा कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २९७॥ निर्मातॄणां घटानां कुलजलधिमणिर्नीलकण्ठाभिधोऽयं पश्यन्नित्यं मुनीनां नयवचनगणैर्योगिराट्प्रत्ययार्थम् । स्वस्त्रीदण्डाग्रहस्तस्सरसि सशपथं गाहमानः प्रपेदे तारुण्यं यत्प्रसादात्तमनणुमगुरुं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २९८॥ लास्यं द्रष्टुं यदीयं शिखिनि दशशिरांस्याजुहावातिभक्त्या रक्षोनाथस्तथाद्रेर्निकट भुवि फणामण्डलं भोगिराजः । अन्ये देवाश्च दैत्याः तपसि च कठिने स्वां तनूं निर्दहन्तो जातास्सिद्धाश्च साध्या नरहरिविनुतं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ २९९॥ स्वामिन् संसारवार्धावधिकभयकरे दुस्तरे पाशनक्र- च्छन्ने मग्नान्तरं मामनधिगतसदाचारवृत्तिं शठाग्र्यम् । दीनं त्वत्पादपूजाविमुखमघयुतं रक्ष रक्षेत्यजस्रं सर्वे लोकाश्श्रयन्ते यमपि सदसि तं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ३००॥ यद्यप्यैश्वर्यभाजो विधिहरिमुखरास्सन्ति देवा जगत्यां तेषां कश्चिद्युगान्ते नहि पुनरपरो रुद्र एको महर्षिः । देवो विश्वाधिकोऽग्र्यो भवति विभुरिति प्राहुरश्रान्तवाचः वेदा यं पञ्चभूतप्रभवलयकरं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ३०१॥ यस्माच्चन्द्रार्धचूडान्मृदुहसितमुखान्नीलकण्ठात् त्रिणेत्रात् वेदान्तोद्गीतवृत्ताद्विधिहरिजनकात् विश्वमायाविलासात् । वामावामाङ्गभागात् भसित वरतनोः चित्सभेशात् ममैतत् चेतो नान्यं सुरेन्द्रं स्मरति नटपतिं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ३०२॥ बाल्ये क्रीडाविमुग्धः पुनरहमभवं यौवने मीनकेतोः लक्ष्यो लज्जाविहीनः परमुदर भृतौ काकवत्सार्वकालम् । देशाद्देशादटंस्त्वत्पदयुगजलजं नार्चयं पापयोगात् सर्वं तत्क्षम्यतामित्ययमहमभजं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ३०३॥ सद्वृत्तां स्रग्धराङ्गां विपुलगुणवरालङ्कृतिं मञ्जुपाक- स्थायीशय्यारसाद्यैर्विबुधपरिबृढाह्लादिरीतिं सुवृत्तिम् । वेदान्तार्थप्रबोध्रीं सुगुणपदगतिं योऽस्मदीयां स्तुतिं तां अङ्गीकुर्वन्सुखं मे प्रदिशति गुरु तं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ३०४॥ यश्शम्भुर्नृत्तराण्मे प्रबलतरमहामन्त्रसिद्धिं प्रदत्वा गुर्वीं योगस्य सिद्धिं जननमृतिहरं चात्मबोधं महान्तम् । सूतादीनां विमुक्तिप्रदमपि महितं गौरवं पत्रमूलं स्वं नृत्तं दर्शयित्वा सुखयति नितरां कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ३०५॥ क्रोशं क्रोशं यदग्रे स्वपतिमपि रतिर्मन्मथं श्रीकुमारं शार्दूलाङ्घ्रेश्च डिम्भस्सुखतरमभजद्दुग्ध कल्लोलराशिम् । स्तावं स्तावं वरेण्यं गगननटपतिं यं च वाचामलक्ष्यं तोषं तोषं लभन्ते सकलमपि जनाः कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ३०६॥ मन्दं मन्दं यदीयं जनिम सुरसरिद्वारया व्यासजाद्याः सेकं सेकं विराजो हृदयमधिगतं यत्पदं भावयन्तः । कालं कालं दहन्तो दुरधिगमतमःकाननं ज्ञानयोगात् लाभं लाभं प्रबोधं वरसुखमभजन्कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ३०७॥ भोजं भोजं यदर्चाजनितमनुपमं भोगमध्यात्मयोगात् तारं तारं भवाब्धिं विपुलभयकरं यस्य भावात्सुधीन्द्राः । दाहं दाहं हृदन्तर्गतमतिजरठं पाशवर्गं यदर्णं जापं जापं रमन्ते परमहसि पदे कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ३०८॥ बोध बोधं यदीयं नटनमनुपमं श्रौततत्त्वार्थगर्भं ध्यायं ध्यायं हृदब्जे यमपि च महसां पुञ्जमव्याजमूर्तिम् । वाहं वाहं यदङ्घ्रिं मनसि फणितरक्ष्वङ्घ्रिं जैमिन्यभिख्याः प्रापुस्सर्वे सदा यत्सदसि निवसतिं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ३०९॥ वाचं वाचं महान्तः शिवहरगिरिजाकान्तदेवेतिपूताः वर्जं वर्जं विवर्ज्यं बहुतरविषमक्लेशमायाविमोहम् । त्यागं त्यागं कठोरां त्रिविधपरिचयामीषणाख्यां पिशाचीं ध्यायन्तो यं भजन्ते सततमपि शिवं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ३१०॥ धावं धावं सदा यत्प्रियकरनिलयं भूतिरुद्राक्षवर्गैः भूषं भूषं स्वकीयां तनुमपि चरितं यस्य वेदान्तगीतम् । कर्णं कर्णं नितान्तं त्रिषवणयजनं ब्रह्मनिष्ठा यतीन्द्राः कारं कारं लभन्ते भवपदमभवं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ३११॥ नामं नामं सदा यं नटपतिमलभं सत्कलत्रं सुपुत्रं पाठं पाठं यदग्रेऽप्यकृतकवचनान्यापमब्जा कटाक्षम् । वारं वारं विभुं यं हविरहमददां सप्ततन्तुष्वचिन्त्यं नित्यं नित्यं प्रपद्ये शरणमसुलभं कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ३१२॥ श्रावं श्रावं श्रुतिभ्यां यदमल चरितं यत्पदाम्भोजमाध्वीं पायं पायं सभायां मम च रसनया यं प्रभुं मानसेन । स्मारं स्मारं प्रसन्नं श्रुतिशिखरगतं भुक्तिमुक्तिप्रदं यं दर्शं दर्शं प्रबुद्धोऽस्म्यतनुबुधदृशा कुञ्चिताङ्घ्रिं भजेऽहम् ॥ ३१३॥ एतत्स्तोत्रं पठन्ति प्रतिदिनमसकृद्ये ममोमापतेर्वा- गुद्भूतं चित्सभायां विरचित परमानान्दनृत्तस्य शम्भोः । अग्रे लब्ध्वाऽखिलेष्टानिह तनयकलत्रादिमानात्मयज्ञाद् अन्ते कैवल्यसंज्ञं पदमपि मनुजास्संलभन्तां नितान्तम् ॥ ३१४॥ उमापतिर्नाम वनाश्रमोऽहं त्रयोदशाधिक्यशतत्रयान्वितम् । श्रीकुञ्चिताङ्घ्रिंस्तवराजमुक्त्वा साक्षादपश्यं नटनं सभापतेः ॥ ३१५॥ इति श्रीमदुमापतिशिवप्रणीतः श्री कुञ्चिताङ्घ्रिस्तवः सम्पूर्णः । Proofread by Aruna Narayanan
% Text title            : Shri Kunchitanghri Stava
% File name             : kunchitAnghristavaH.itx
% itxtitle              : kunchitANghristavaH
% engtitle              : kunchitAnghristavaH
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From shrInaTarAjastavamanjarI
% Indexextra            : (Scan, Tamil)
% Latest update         : July 10, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org