लक्ष्मीकृतशिवस्तवः
ॐ नमः शिवाय शान्ताय कारणत्रयहेतवे ।
निवेदयामि चात्मानं त्वं गतिः परमेश्वर ॥ १॥
शशधरशुचिमूर्ते चन्द्रमौलेऽमलाभ
त्रिनयन मृदुचारुस्मेरवक्रामृताभ ।
धवलवृषभपृष्ठे भ्राजमान प्रसीद
प्रणतसदयदृष्टे देवदेवाधिदेव ॥ २॥
त्रिगुणमय विराजत्र्यक्षधुस्तूरपुष्प
प्रविलसितसिताभ डिण्डिमध्वानवादिन् ।
सततसुखसुखाब्धौ त्वं शिवः सन्विहारी
जय जय जय शम्भो पार्वतीश प्रसीद ॥ ३॥
भुवननिचयनीलाधार साकार शम्भो
अनलरविशशिक्ष्माश्वासभूताशुगेश ।
सृजसि हरसि पासि स्वेच्छया त्वं
कथन्तद्विदित इह ननु स्याः ईदृशो वा इयान्वा ॥ ४॥
मृतनिलयविचारी प्रेतधूल्याचिताङ्गो
विवसनकृतमालाकीकशो भूतनाथः ।
भवसि विभवभूतं त्वां पुनः साधुचित्तं
लसति धरितुकामं प्रेतभूमीवराञ्च्यम् ॥ ५॥
त्रिपुरहर महेश त्र्यक्ष सर्वेश नाथ
प्रभव विभवनील श्वेतवक्त्र प्रसन्न ।
गिरिश गहनगोप श्रीगुरो नीलकण्ठ
क्षयकर हर दुःखं दुःखहन्तः प्रसीद ॥ ६॥
इति बृहद्धर्मपुराणान्तर्गतः लक्ष्मीकृतः शिवस्तवः सम्पूर्णः ।
॥ बृहद्धर्मपुराणम् । पूर्वखण्डः । अध्यायः १०। ७१, ७४-७८ ॥
Proofread by Ruma Dewan