श्रीमार्तण्डभैरवध्यानम्
हेमाम्भोजप्रवालप्रतिमनिजरुचिं चारुखट्वाङ्गपद्मौ
चक्रं शक्तिं सपाशं सृणिमतिरुचिरामक्षमालां कपालम् ।
हस्ताम्भोजैर्दधानं त्रिनयनविलसद्वेदवक्त्राभिरामं
मार्ताण्डं वल्लभार्धं मणिमयमुकुटं हारदीप्तं भजामः ॥
इति श्रीमार्तण्डभैरवध्यानं सम्पूर्णम् ।