मृत्युञ्जयाराधनम्

मृत्युञ्जयाराधनम्

॥ अथ मृत्युञ्जयाराधनम् ॥ अथ यजमानः स्नानादि नित्यकर्म कृत्वा, कर्माङ्गत्वेन स्नानपवन -मन्त्राचमनमन्त्रप्रोक्षणानि विधाय, गणपतिं सम्पूज्य, क्षेत्रपालवास्तोष्पतिं संप्रार्थ्य, श्री मृत्युञ्जयरुद्रः प्रीयतामितिपुण्याहं वाचयित्वा, सङ्कल्पयति । अथ प्रधानसङ्कल्पः ॥ मम अतीतेषु जन्मसु, इह जन्मनि च जन्मप्रभृत्येतत्क्षणपर्यन्तं ज्ञानतोऽज्ञानतश्च स्वतः परप्रेरणया वा कृतानां पापानां परिहारार्थं, आध्यात्मिक-आधिदैविक-आधिभौतिकाख्यतापत्रयनिवृत्यर्थं परकृतैः मन्त्रतन्त्रयन्त्रविषचूर्णकृत्याञ्जनाद्यतर्क तापप्रदैः प्रयोगैश्च जनिष्यमाणपीडा शान्त्यर्थं, स्थावर-जङ्गम-कृत्रिम-आकाश-दन्त-नख-लूताद्युद्भवविषबाधा परिहारार्थं, शीतातपलोभमोहक्षुत्पिपासाख्य षडूर्मिबाधा निरासार्थं, राज-चोर-शत्रु-शस्त्र-वह्नि-वायु-वारि-सरीसृप-दुष्टमृग भयनिरसनार्थं, वातपित्थश्लेष्मवैषम्येण उत्पत्स्यमानानां दुष्टनक्षत्रमृत्युयोग दुष्टतिथिपापवारादिषु च जनिष्यमाणानां, विविधज्वराणां, दुःसहपापप्रदानां व्याधीनां, दुश्चिकित्स्यरूपाणां महारोगाणां च निवृत्तिद्वारा नैरुज्यबल पुष्ट्यतिशयाभिवृद्ध्यर्थं, कामक्रोधादिवशात् जनिष्यमाणानां मनोविकारचित्त चाञ्चल्यादीनां परिहारपूर्वकं मनःशान्तिचित्त स्थैर्यपरमस्वास्थ्यलाभार्थं, सर्वेषां परस्परनिन्दाहिंसाविद्वेषनिवृत्तिपूर्वकं सौहार्द समुत्पत्यर्थं, अपमृत्युकालमृत्यु व्यालमृत्युघोरमृत्युदुष्टमृत्यु-अरिष्टमृत्युक्षुद्रमृत्यु लक्षणसप्तविध मृत्युकण्टकानां निवारणार्थं अन्येषां अकालमृत्युप्रदायकानां कण्टकानां परिहारपूर्वकं आयुरभिवृद्ध्यर्थं, दुःखभयलज्जारोगशोकमरण-अपमानेत्यष्टविध मृत्युदोषाणां अपनोदनार्थं गोभूगृहधनधान्यकनकवस्तुवाहनादि सकलैश्वर्यसिद्ध्यर्थं धर्मार्थ काममोक्षसिद्ध्यर्थं श्रीमृत्युञ्जयरुद्रप्रीत्यर्थं मृत्युञ्जयहोमाख्यं कर्म करिष्ये ॥ इति सङ्कल्प्य, ऋत्विजो वरयेत् । अथ जपविधानम् ॥ यजमानेन वृतोऽहं मृत्युञ्जयप्रीत्यर्थं मृत्युञ्जयमन्त्रजपं करिष्यामि ॥ तत्रादौ न्यासाः - अथ ऋष्यादिन्यासाः ॥ कहोळऋषये नमः । इति शिरसि । देवीगायत्री छन्दसे नमः । इति मुखे । श्रीमृत्युञ्जयरुद्रदेवतायै नमः । इति हृदि । जुं बीजाय नमः । इति नाभौ । सः शक्तये नमः । इति पादयोः । श्रीमृत्युञ्जयरुद्रप्रीत्यर्थे जपे विनियोगाय नमः । इति सर्वाङ्गे ॥ इति ॥ अथ करन्यासः ॥ ॐ सां अङ्गुष्टाभ्यां नमः । ॐ सीं तर्जनीभ्यां नमः । ॐ सूं मध्यमाभ्यां नमः । ॐ सैं अनामिकाभ्यां नमः । ॐ सौं कनिष्ठिकाभ्यां नमः । ॐ सः करतलकरपृष्ठाभ्यां नमः ॥ इति ॥ अथ हृदयदिन्यासाः ॥ ॐ सां हृदयाय नमः । ॐ सीं शिरसे स्वाहा । ॐ सूं शिखायै वषट् । ॐ सैं कवचाय हुम् । ॐ सौं नेत्रत्रयाय वौषट् । ॐ सः अस्त्राय फट् ॥ इति ॥ अथाक्षरन्यासः ॥ ॐ ॐ नमः । इति नाभौ । ॐ जूं नमः । इति हृदि । ॐ सः नमः । इति भ्रूमध्ये ॥ इति ॥ अथ ध्यानम् ॥ स्फुटितनलिनसंस्थं मौळिबद्धेन्दुरेखा गलदमृतजलार्द्रं चन्द्रवह्न्यर्कनेत्रम् । स्वकरकलितमुद्रापाशवेदाक्षमालं स्फटिकरजतमुक्तागौरमीशं नमामि ॥ इति ॥ चन्द्रार्काग्निविलोचनं स्मितमुखं पद्मद्वयान्तः स्थितं, मुद्रापाशमृगाक्षसूत्रविलसत्पाणिं हिमांशुप्रभम् । कोटीरेन्दुगलत्सुधाप्लुततनुं हारादिभूषोज्वलं, कान्त्याविश्वविमोहनं पशुपतिं मृत्युञ्जयं भावये ॥ इति शारदा तिलके ध्यानान्तरमुक्तम् ॥ मानसो पचारैः सम्पूज्य, मूलं जपेत् ॥ ॐ ``ओं जूं सः'' इति ॥ ॐ ``वं जूं सः'' इत्यमृतमृत्युञ्जयमन्त्रः ॥ ॐ जुं सः इत्यनन्तरं पालयपदयुगलयुक्तं साध्यनाम चोक्त्वानन्तरमपि सः जुं ॐ इति प्रतिलोमेन योजयेदिति मन्त्रान्तरमुक्तं प्रपञ्चसारसारसङ्ग्रहे, ॐ ``ओं जूं सः मृत्युञ्जय पालय पालय सः जूं ओं'' इत्यपि द्वादशवर्णात्मको मन्त्रः ॥ ॐ ``ओं जूं सः सः जूं ओं'' इति षडक्षरमृत्युञ्जयमन्त्रः ॥ ``ओं जुं सः'' इत्यपि पाठान्तरं वर्तते ॥ ॐ ``हौं जूं सः'' इति प्रासादमृत्युञ्जयमन्त्रः मन्त्रमहार्णवे ॥ अथ त्र्यम्बकमन्त्रः ॥ अस्य श्रीत्र्यम्बकमन्त्रस्य, वसिष्ठ ऋषिः । अनुष्टुप् छन्दः । त्र्यम्बकरुद्रो देवता । ॐ बीजम् । ह्रीं शक्तिः ॥ ॐ त्र्यम्बकम् । ॐ यजामहे । ॐ सुगन्धिं पुष्टिवर्धनम् । ॐ उर्वारुकमिव बन्धनात् । ॐ मृत्योर्मुक्षीय । ॐ मामृतात् ॥ अच्छं स्वच्छारविन्दस्थितमुभयकरे संस्थितौ पूर्णकुम्भौ, द्वाभ्यां वेदाक्षमाले निजकरकमलाभ्यां घटौनित्यपूर्णौ । द्वाभ्यां तौ च स्रवन्तौ शिरसि शशिकलां चामृतैः प्लावयन्तम्, देहं देवो दधानः प्रदिशतु विशदां कल्पजालं श्रियं नः ॥ ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥ इति ॥ अथ षट्प्रणवमहामृत्युञ्जय मन्त्रः ॥ अस्य श्रीमहामृत्युञ्जयमन्त्रस्य वसिष्ठ ऋषिः । अनुष्टुप् छन्दः । महामृत्युञ्जयत्र्यम्बकरुद्रो देवता ॥ ॐ हौं जूं सः । ॐ भूर्भुवस्स्वः । ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । ॐ उर्वारुकमिव बन्धनात् । ॐ मृत्योर्मुक्षीय मामृतात् । ॐ स्वः भुवः भूः सः जूं हौं ओम् ॥ अरुणकमलकान्तिं स्वर्धुनीराजमानम्, करकलितकपालं स्वक्षमालां दधानम् । कलशममृतपूर्णं शूलहस्तं ज्वलन्तम्, त्रिणयनमभिवन्दे मृत्युमृत्युं महेशम् ॥ ॐ ओं हौं जूं सः ॐ भूर्भुवस्स्वः ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥ ॐ स्वः भुवः भूः ॐ सः जूं हौं ओम् ॥ इति ॥ अथ पौराणिको मन्त्रः ॥ मृत्युञ्जयाय रुद्राय नीलकण्ठाय शम्भवे । अमृतेशाय शर्वाय महादेवाय ते नमः ॥ इति ॥ अथ कलशस्थापनपूजनम् ॥ तत्रादौ यन्त्रलेखनम् - अष्टदल पद्मपत्रं विलिख्य, तद्बाह्ये चतुर्द्वारं चतुरस्रं वा रचयेत् ॥ बिन्दुत्रिकोणषट्कोणवृत्ताष्टदलवृत्तत्रयभूपुरयुतमिति देवीरहस्ये, षट्कोणवृत्तभूपुरत्रयमिति मन्त्रमहार्णवे, षट्कोणभूपुरमिति,अष्टदलभूपुरत्रयमिति विद्यार्णवतन्त्रे, पञ्चकोणाष्टवृत्ताष्टदलभूपुरत्रयमिति मन्त्रमहार्णवे, पूजाद्रव्याणि सङ्गृह्य, घण्टानादं कृत्वा, देशकालौ सङ्कीर्त्य, श्रीमृत्युञ्जयरुद्रप्रीत्यर्थं देवता सान्निध्यार्थं कलशस्थापन पूजनं करिष्ये ॥ इति सङ्कल्प्य, पृथिवीपूजादि मण्टपार्चनान्ते द्वारमर्चयेत् । अथ द्वारपालपूजा ॥ पूर्वद्वारे, ॐ नन्दिने नमः । ॐ महाकालाय नमः । दक्षिणद्वारे, ॐ गणेशाय नमः । ॐ वृषभध्वजाय नमः । पश्चिमद्वारे, ॐ भृङ्गरिटये नमः । ॐ स्कन्दाय नमः । उत्तरद्वारे, ॐ पार्वतीशाय नमः । ॐ चण्डेश्वराय नमः ॥ इति ॥ अथ पीठपूजा ॥ ॐ गुं गुरुभ्यो नमः । गं गणपतये नमः । ॐ आधारशक्त्यैनमः । मूलप्रकृत्यै नमः । ॐ आदिकूर्माय नमः । ॐ अनन्ताय नमः । ॐ पृथिव्यै नमः । ॐ धर्माय नमः । ॐ ज्ञानाय नमः । ॐ वैराग्याय नमः । ॐ ऐश्वर्याय नमः । ॐ अधर्माय नमः । ॐ अज्ञानाय नमः । ॐ अवैराग्याय नमः । ॐ अनैश्वर्याय नमः । ॐ सं सत्वाय नमः । ॐ रं रजसे नमः । ॐ तं तमसे नमः । मं मायायै नमः । विं विद्यायै नमः । पं पद्माय नमः ॥ अं अर्कमण्डलाय नमः । उं सोममण्डलाय नमः । मं वह्निमण्डलाय नमः । अं आत्मने नमः । उं अन्तरात्मने नमः । मं परमात्मने नमः । ह्रीं ज्ञानात्मने नमः ॥ इति ॥ अथ नवशक्तिपूजा ॥ ॐ वामायै नमः । ॐ ज्येष्ठायै नमः । ॐ रौद्र्यै नमः । ॐ काल्यै नमः । ॐ कलविकरिण्यै नमः । ॐ बलविकरिण्यै नमः । ॐ बलप्रमथिन्यै नमः । ॐ सर्वभूतदमन्यै नमः । ॐ मनोन्मन्यै नमः ॥ इति ॥ ॐ नमो भगवते सकलगुण शक्तियुक्ताय अनन्ताय योगपीठात्मनेनमः ॥ सुवर्णपीठं कल्पयामि । ``ओं जूं सः'' ॥ इति मूलेन मूर्तिं प्रकल्प्य, ॐ नमोऽस्तु स्थाणुभूताय ज्योतिर्लिङ्गावृतात्मने । चतुर्मूर्तिवपुश्छायाभासिताङ्गाय शम्भवे ॥ चन्द्रार्काग्निविलोचनं स्मितमुखं पद्मद्वयान्तः स्थितं, मुद्रापाशमृगाक्षसूत्रविलसत्पाणिं हिमांशुप्रभम् । कोटीरेन्दुगलत्सुधाप्लुततनुं हारादिभूषोज्वलं कान्त्याविश्वविमोहनं पशुपतिं मृत्युञ्जयं भावये ॥ स्वात्मसंस्थमजं शुद्धं त्वामद्य परमेश्वर । अरण्यामिव हव्याशं मूर्ता वावाहयाम्यहम् ॥ ``ओं जूं सः'' ॥ इति मूलमुच्चार्य, व्याहृत्या आवाहयेत् । आवाहनादि मुद्राः प्रदर्श्य, गन्धलिप्तकरद्वयेन मूलेन त्रिर्व्याप्य, सङ्कलीकृत्य, मूलं यथाशक्ति जपेत् ॥ ततः पञ्चोपचारैरभ्यर्च्य, षोडशोपचारान्समाचरेत् ॥ अथोपचाराः ॥ सर्वान्तर्यामिणे देव सर्वबीजमयं शुभम् । स्वात्मस्थाय परं शुद्धं आसनं कल्पयाम्यहम् ॥ श्री मृत्युञ्जयरुद्राय नमः । आसनं समर्पयामि ॥ यस्य दर्शनमिच्छन्ति देवाः स्वाभीष्टसिद्धये । तस्मै ते परमेशाय स्वागतं स्वागतं च मे ॥ श्री मृत्युञ्जयरुद्राय नमः । स्वागतं समर्पयामि ॥ यद्भक्तिलेशसम्पर्कात् परमानन्दसम्भवः । तस्मै ते चरणाब्जाय पाद्यं शुद्धाय कल्पये ॥ श्री मृत्युञ्जयरुद्राय नमः । पाद्यं समर्पयामि ॥ तापत्रयहरं दिव्यं परमानन्दलक्षणम् । तापत्रयविनिर्मुक्तं तवार्घ्यं कल्पयाम्यहम् ॥ श्री मृत्युञ्जयरुद्राय नमः । अर्घ्यं समर्पयामि ॥ वेदानामपि वेदाय देवानां देवतात्मने । आचमं कल्पयामीश शुद्धानां शुद्धि हेतवे ॥ श्री मृत्युञ्जय रुद्राय नमः । आचमनं समर्पयामि ॥ सर्वकालुष्य हीनाय परिपूर्णसुखात्मकम् । मधुपर्कमिदं देव कल्पयामि प्रसीद मे ॥ श्री मृत्युञ्जयरुद्राय नमः । मधुपर्कं समर्पयामि ॥ परमानन्दबोधाब्धि निमग्ननिजमूर्तये । साङ्गोपाङ्गमिदं स्नानं कल्पयामीश ते पुनः ॥ श्री मृत्युञ्जयरुद्राय नमः । स्नानं समर्पयामि ॥ मया चित्रपटाच्छन्ननिजगुह्योरुतेजसे । निरावरणविज्ञानवस्त्रं ते कल्पयाम्यहम् ॥ श्री मृत्युञ्जयरुद्राय नमः । वस्त्रं समर्पयामि ॥ यामाश्रित्य महामाया जगत्सम्मोहिनी सदा । तस्मै ते परमेशाय कल्पयाम्युत्तरीयकम् ॥ श्री मृत्युञ्जयरुद्राय नमः । उपवस्त्रं समर्पयामि ॥ यस्य शक्तित्रयेणेदं संप्रोतमखिलं जगत् । यज्ञसूत्राय तस्मै ते यज्ञसूत्रं प्रकल्पये ॥ श्री मृत्युञ्जयरुद्राय नमः । यज्ञोपवीतं समर्पयामि ॥ परमानन्दसौरभ्यपरिपूर्णदिगन्तरम् । गृहाण परमं गन्धं कृपया परमेश्वर ॥ श्री मृत्युञ्जयरुद्राय नमः । गन्धं समर्पयामि ॥ तुरीय वनसम्भूतं नानागुणमनोहरम् । आनन्दसौरभं पुष्पं गृह्यतामिदमुत्तमम् ॥ श्री मृत्युञ्जयरुद्राय नमः । पुष्पाणि समर्पयामि ॥ अथावरण पूजा ॥ १) ॐ सां हृदयाय नमः । ॐ सीं शिरसे स्वाहा नमः । ॐ सूं शिखायै वषण्णमः । ॐ सैं कवचाय हुं नमः । ॐ सौं नेत्रत्रयाय वषण्णमः । ॐ सः अस्त्रायफण्णमः ॥ अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्यासमर्पये तुभ्यं प्रथमावरणार्चनम् ॥ १॥ २) ॐ लं इन्द्राय सुराधिपतये नमः । ॐ रं अग्नये तेजोधिपतये नमः । ॐ हं यमाय प्रेताधिपतये नमः । ॐ षं निरृतये रक्षोधिपतये नमः । ॐ वं वरुणाय जलाधिपतये नमः । ॐ यं वायवे प्राणाधिपतये नमः । ॐ सं सोमाय नक्षत्राधिपतये नमः । ॐ शं ईशानाय विद्याधिपतये नमः । ॐ ह्रीं शेषाय नागाधिपतये नमः । ॐ आं ब्रह्मणे लोकाधिपतये नमः ॥ अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्यासमर्पये तुभ्यं द्वितीयावरणार्चनम् ॥ २॥ ३) ॐ वज्राय नमः । ॐ शक्तये नमः । ॐ दण्डाय नमः । ॐ खड्गाय नमः । ॐ पाशाय नमः । ॐ अङ्कुशाय नमः । ॐ गदायै नमः । ॐ त्रिशूलाय नमः । ॐ चक्राय नमः । ॐ पद्माय नमः ॥ अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्यासमर्पये तुभ्यं तृतीयावरणार्चनम् ॥ ३॥ त्र्यम्बकावरणम् ॥ अङ्गैः प्रथमावृतिः ॥ १॥ ईशानायार्कमूर्तये । महादेवायेन्दुमूर्तये । भवाय क्षितिमूर्तये । शर्वाय जलमूर्तये । रुद्रायाग्निमूर्तये । उग्राय वायुमूर्तये । भीमायाकाशमूर्तये । पशुपतये यजमानमूर्तये ॥ २ ॥ रमायै । राकायै । प्रभायै । ज्योत्स्नायै । पूर्णायै । उषायै । पूरण्यै । सुधायै ॥ ३ ॥ विश्वायै । विद्यायै । सितायै । प्रह्वायै । सारायै । सन्ध्यायै । शिवायै । निशायै ॥ ४ ॥ आर्यायै । प्रज्ञायै । प्रभायै । मेधायै । शान्त्यै । कान्त्यै । धृत्यै । मत्यै ॥ ५ ॥ धरायै । मायायै । अवन्यै । पद्मायै । शान्तायै । अमोघायै । अजयायै । अमलायै ॥ ६ ॥ इन्द्रादिभिः सप्तमावृतिः ॥ ७ ॥ वज्रादिभिरष्टमावृतिः ॥ ८ ॥ महामृत्युञ्जयत्र्यम्बकरुद्रावरणम् ॥ ईशानाय । तत्पुरुषाय । अघोराय । वामदेवाय । सद्योजाताय । निवृत्तिकलायै । प्रतिष्ठाकलायै । विद्याकलायै । शान्तिकलायै । शान्त्यतीतकलायै ॥ १॥ अङ्गैर्द्वितीया ॥ २ ॥ अष्टमूर्तिभिस्तृतीया ॥ ३ ॥ रमाद्यष्टभिश्चतुर्थी ॥ ४ ॥ विश्वाद्यष्टभिः पञ्चमी ॥ ५ ॥ आर्याद्यष्टभिः षष्ठी ॥ ६ ॥ धराद्यष्टभिस्सप्तमी ॥ ७ ॥ अनन्ताय । सूक्ष्माय । शिवोत्तमाय । एकनेत्राय । एकरुद्राय । त्रिमूर्तये । श्रीकण्ठाय । शिखण्डिने ॥ ८ ॥ उमायै । चण्डेश्वराय । नन्दिने । महाकालाय । गणेशाय । वृषभाय । भृङ्गिरिटये । स्कन्दाय ॥ ९ ॥ ब्राह्म्यै । माहेश्वर्यै । कौमार्यै । वैष्णव्यै । वाराह्यै । इन्द्राण्यै । चामुण्डायै । महालक्ष्म्यै ॥ १० ॥ इन्द्रादिभिः ॥ ११ ॥ वज्राद्यन्ते… वृषभाय । चण्डेश्वराय ॥ १२ ॥ इति ॥

॥ अथ श्री मृत्युञ्जय-अष्टोत्तरशतनामावलिः ॥

ॐ भगवते नमः । ॐ सदाशिवाय नमः । ॐ सकलतत्त्वात्मकाय नमः । ॐ सर्वमन्त्ररूपाय नमः । ॐ सर्वयन्त्राधिष्ठिताय नमः । ॐ तन्त्रस्वरूपाय नमः । ॐ तत्त्वविदूराय नमः । ॐ ब्रह्मरुद्रावतारिणे नमः । ॐ नीलकण्ठाय नमः । ॐ पार्वतीप्रियाय नमः । ॐ सौम्यसूर्याग्निलोचनाय नमः । ॐ भस्मोद्धूलितविग्रहाय नमः । ॐ महामणिमकुटधारणाय नमः । ॐ माणिक्यभूषणाय नमः । ॐ सृष्टिस्थितिप्रलयकालरौद्रावताराय नमः । ॐ दक्षाध्वरध्वंसकाय नमः । ॐ महाकालभेदकाय नमः । ॐ मूलाधारैकनिलयाय नमः । ॐ तत्त्वातीताय नमः । ॐ गङ्गाधराय नमः । २० ॐ सर्वदेवाधिदेवाय नमः । ॐ वेदान्तसाराय नमः । ॐ त्रिवर्गसाधनाय नमः । ॐ अनेककोटिब्रह्माण्डनायकाय नमः । ॐ अनन्तादिनागकुलभूषणाय नमः । ॐ प्रणवस्वरूपाय नमः । ॐ चिदाकाशाय नमः । ॐ आकाशादिस्वरूपाय नमः । ॐ ग्रहनक्षत्रमालिने नमः । ॐ सकलाय नमः । ॐ कलङ्करहिताय नमः । ॐ सकललोकैककर्त्रे नमः । ॐ सकललोकैकभर्त्रे नमः । ॐ सकललोकैकसंहर्त्रे नमः । ॐ सकलनिगमगुह्याय नमः । ॐ सकलवेदान्तपारगाय नमः । ॐ सकललोकैकवरप्रदाय नमः । ॐ सकललोकैकशङ्कराय नमः । ॐ शशाङ्कशेखराय नमः । ॐ शाश्वतनिजावासाय नमः । ४० ॐ निराभासाय नमः । ॐ निरामयाय नमः । ॐ निर्लोभाय नमः । ॐ निर्मोहाय नमः । ॐ निर्मदाय नमः । ॐ निश्चिन्ताय नमः । ॐ निरहङ्काराय नमः । ॐ निराकुलाय नमः । ॐ निष्कलङ्काय नमः । ॐ निर्गुणाय नमः । ॐ निष्कामाय नमः । ॐ निरुपप्लवाय नमः । ॐ निरवद्याय नमः । ॐ निरन्तराय नमः । ॐ निष्कारणाय नमः । ॐ निरातङ्काय नमः । ॐ निष्प्रपञ्चाय नमः । ॐ निस्सङ्गाय नमः । ॐ निर्द्वन्द्वाय नमः । ॐ निराधाराय नमः । ६० ॐ निरोगाय नमः । ॐ निष्क्रोधाय नमः । ॐ निर्गमाय नमः । ॐ निर्भयाय नमः । ॐ निर्विकल्पाय नमः । ॐ निर्भेदाय नमः । ॐ निष्क्रियाय नमः । ॐ निस्तुलाय नमः । ॐ निस्संशयाय नमः । ॐ निरञ्जनाय नमः । ॐ निरूपविभवाय नमः । ॐ नित्यशुद्धबुद्धपरिपूर्णाय नमः । ॐ नित्याय नमः । ॐ शुद्धाय नमः । ॐ बुद्धाय नमः । ॐ परिपूर्णाय नमः । ॐ सच्चिदानन्दाय नमः । ॐ अदृश्याय नमः । ॐ परमशान्तस्वरूपाय नमः । ॐ तेजोरूपाय नमः । ८० ॐ तेजोमयाय नमः । ॐ महारौद्राय नमः । ॐ भद्रावतारय नमः । ॐ महाभैरवाय नमः । ॐ कल्पान्तकाय नमः । ॐ कपालमालाधराय नमः । ॐ खट्वाङ्गाय नमः । ॐ खड्गपाशाङ्कुशधराय नमः । ॐ डमरुत्रिशूलचापधराय नमः । ॐ बाणगदाशक्तिबिन्दिपालधराय नमः । ॐ तौमरमुसलमुद्गरधराय नमः । ॐ सपरशुपरिघधराय नमः । ॐ भुशुण्डीशतघ्नीचक्राद्ययुधधराय नमः । ॐ भीषणकरसहस्रमुखाय नमः । ॐ विकटाट्टहासविस्फारिताय नमः । ॐ ब्रह्माण्डमण्डलाय नमः । ॐ नागेन्द्रकुण्डलाय नमः । ॐ नागेन्द्रहाराय नमः । ॐ नागेन्द्रवलयाय नमः । ॐ नागेन्द्रचर्मधराय नमः । १०० ॐ नागेन्द्राभरणाय नमः । ॐ त्र्यम्बकाय नमः । ॐ त्रिपुरान्तकाय नमः । ॐ विरूपाक्षाय नमः । ॐ विश्वेश्वराय नमः । ॐ विश्वरूपाय नमः । ॐ विश्वतोमुखाय नमः । ॐ मृत्युञ्जयाय नमः । १०८ ॥ इति श्री मृत्युञ्जय-अष्टोत्तरशतनामावलिः सम्पूर्णा ॥ अथ द्वादशनामपूजा ॥ ॐ महादेवाय नमः । ॐ महेश्वराय नमः । ॐ शङ्कराय नमः । ॐ वृषभध्वजाय नमः । ॐ कृत्तिवाससे नमः । ॐ कामाङ्गनाशनाय नमः । ॐ देवदेवेशाय नमः । ॐ श्रीकण्ठाय नमः । ॐ हराय नमः । ॐ पार्वतीपतये नमः । ॐ श्रीरुद्राय नमः । ॐ शिवाय नमः ॥ इति ॥ वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः । आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥ श्री मृत्युञ्जयरुद्राय नमः । धूपं समर्पयामि ॥ सुप्रकाशो महादीपः सर्वतस्तिमिरापहः । सबाह्याभ्यन्तरज्योतिः दीपोऽयं प्रतिगृह्यताम् ॥ श्री मृत्युञ्जयरुद्राय नमः । दीपं समर्पयामि ॥ सत्पात्रतद्धविः सौक्थ्य विविधानेकभक्षणम् । निवेदयामि देवेश सानुगाय गृहाण तत् ॥ श्री मृत्युञ्जयरुद्राय नमः । नैवेद्यं समर्पयामि ॥ पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् । चूर्णं कर्पूर संयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥ श्री मृत्युञ्जयरुद्राय नमः । ताम्बूलं समर्पयामि ॥ हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः । अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥ श्री मृत्युञ्जयरुद्राय नमः । पूजा सम्पूर्णार्थे हिरण्यपुष्पदक्षिणां समर्पयामि ॥ कोटिसूर्यप्रतीकाश नीराजनमुमापते । गृहाण देवदेवेश प्रीत्या दत्तं सदाशिव ॥ श्री मृत्युञ्जयरुद्राय नमः । महानीराजनं समर्पयामि ॥ पुष्पाञ्जलिं प्रयच्छामि देवदेव महेश्वर । तुलसीबिल्वमन्दार कल्हारसरसीरुहैः ॥ श्री मृत्युञ्जयरुद्राय नमः । मन्त्रपुष्पं समर्पयामि ॥ प्रदक्षिणं करोमि त्वां पाहि मां मृड शङ्कर । अनाथनाथ सर्वज्ञ भक्तानां भद्रदायक ॥ श्री मृत्युञ्जयरुद्राय नमः । प्रदक्षिणं समर्पयामि ॥ प्रणमामि जगन्नाथ प्रणतार्तिप्रणाशन । प्रणामगोचरेशान सदाशिव जगत्पते ॥ श्री मृत्युञ्जयरुद्राय नमः । नमस्कारान् समर्पयामि ॥ ॐ नमः शिवाय साम्बाय ब्रह्मणे लिङ्गमूर्तये । प्रसन्नार्घ्यं मया दत्तं प्रसन्नो भव शङ्कर ॥ श्रीमृत्युञ्जयाय नमः । इदमर्घ्यम् ॥ इति त्रिवारं बिल्वपत्राक्षतपुषपुष्पगन्धक्षीरद्रव्यैरर्घ्यं दद्यात् । पुनः रुद्रगायत्र्या जलेन त्रिवारं दत्वा, प्रार्थयति । यथा ``ऋणरोगाधिदारिद्र्यपापक्षुदपमृत्यवः । भयशोकमनस्तापाः नश्यन्तु मम सर्वदा'' ॥ इति ॥ तथा च कलशं मृत्युसूक्तेन शतरुद्रीयानुवाकेन चाभिमन्त्रयति । अथ प्रार्थना ॥ मृत्युञ्जयमहादेव पाहि मां शरणागतम् । जन्ममृत्युजरारोगैः पीडितं कर्मबन्धनैः ॥ १॥ प्रसीद मे महादेव संसारार्तस्य खिद्यतः । सर्वपापक्षयं कृत्वा रक्ष मां परमेश्वर ॥ २॥ महादारिद्र्यमग्नस्य महापापहतौजसः । महाशोकविनष्टस्य महारोगातुरस्य च ॥ ३॥ ऋणभारपरीतस्य दह्यमानस्य कर्मभिः । ग्रहैः प्रपीड्यमानस्य प्रसीद मम शङ्कर ॥ ४॥ नमस्ते देव देवेश शम्भो सर्वार्थसाधक । अभीष्टं मम देहि त्वं सर्वाभीष्टफलप्रद ॥ ५॥ ऋणपातकदौर्भाग्यदारिद्र्यविनिवृत्तये । अशेषाघविनाशाय प्रसीद मम शङ्कर ॥ ६॥ दीर्घमायुः सदारोग्यं कोशवृद्धिर्बलोन्नतिः । ममास्तु नित्यमानन्दः प्रसादात्तव शङ्कर ॥ ७॥ बद्धोऽहं विविधैः पाशैः संसारभयबन्धनैः । पतितं मोहजाले मां त्वं समुध्धर शङ्कर ॥ ८॥ संसारे जनितापरोगसहिते तापत्रयाक्रन्दिते नित्यं पुत्रकलत्रवित्तविलसत्पाशैर्निबद्धं दृढम् । गर्वान्धं बहुपापवर्गसहितं कारुण्यदृष्ट्या विभो श्रीमृत्युञ्जय पार्वतीप्रिय सदा मां पाहि सर्वेश्वर ॥ ९॥ प्रसीदभगवन् मह्यं अज्ञानात्कुण्ठितात्मने । प्रीणातु भगवन् देवः कर्मणानेन शाश्वतः ॥ इति कलशस्थापनम् ॥ अथ अन्वाधानम् ॥ मृत्युञ्जयहोमः कर्म ॥। बलवर्धनो नामाग्निः, मृत्युञ्जयरुद्रो देवता, चरुर्हविः । उपहोमे, मृत्युञ्जयरुद्रमन्त्रेण १. दुग्धाज्याप्लुत-अमृतासमिद्भिस्त्रिसहस्रसङ्ख्याकाहुतिभिः, (आयुषे) २. अमृतावटतिलदूर्वाः पयो घृतं पायसमिति क्रमेण सप्तद्रवैः ॥ प्रतिद्रव्यं सहस्रसङ्ख्याकाहुतिभिः, (तीव्रे ज्वरे घोरतरेऽभिचारे सोन्मादके दाहगदे च मोहे ।) ॥ अथ सप्तद्रव्यप्रार्थना ॥ I. श्वेतवर्ण सात्विकाङ्ग बालादित्य समप्रभ । सुधाहुतिं प्रदास्यामि प्रसन्नो भव शङ्कर ॥ II. पीतवर्ण बाल्यदेह व्यालयज्ञोपवीतक । वटाहुतिं प्रदास्यामि प्रसन्नो भव शङ्कर ॥ III. कृष्णवर्ण महाकाय दशबाहो त्रिलोचन । तिलाहुतिं प्रदास्यामि प्रसन्नो भव शङ्कर ॥ IV. पाण्डुवर्ण महाकाय पौगण्ड राजस द्युते । दूर्वाहुतिं प्रदास्यामि प्रसन्नो भव शङ्कर ॥ V. शङ्खवर्ण पञ्चवक्त्र नागाभरण भूषित । क्षीराहुतिं प्रदास्यामि प्रसन्नो भव शङ्कर ॥ VI. रक्तवर्ण महारौद्र रमानाथ प्रपूजित । घृताहुतिं प्रदास्यामि प्रसन्नो भव शङ्कर ॥ VII. धूम्रवर्ण महाकाय सजर ताम्रलोचन । पायसं तु प्रदास्यामि प्रसन्नो भव शङ्कर ॥ ३. दुग्धसिक्तचतुरङ्गुलामृताकाण्डैर्द्वादशसहस्रसङ्ख्याकाहुतिभिः, (आरोग्यायुषे च लक्ष्म्यै च) ४. अमृतावटतिलदूर्वापयःपायसाज्यैः प्रतिद्रव्यं शतसङ्ख्याकाहुतिभिः, (दीर्घायुषे) ५. अमृतावटतिलदूर्वापयःपायसाज्यैः चतुश्चत्वारिंशदुत्तरशतावृत्या अष्टोत्तर सहस्रसङ्ख्याकाहुतिभिः, (आयुषे) ६. सितसिद्धार्थैस्सहस्रसङ्ख्याकाहुतिभिः, (ज्वरजोपद्रवशान्त्यै) ७. अपामार्गसमिद्भिः सहस्रसङ्ख्याकाहुतिभिः, (आरोग्याप्त्यै) ८. बिल्वसमिद्भिरयुत१०सङ्ख्याकाहुतिभिः, (सम्पत्प्राप्त्यै) ९. पालाशसमिद्भिरयुतसङ्ख्याकाहुतिभिः, (ब्रह्मवर्चसे) १०. वटसमिद्भिरयुतसङ्ख्याकाहुतिभिः, (धनप्राप्त्यै) ११. खदिरसमिद्भिरयुतसङ्ख्याकाहुतिभिः, (कान्त्यै) १२. तिलद्रव्यैरयुतसङ्ख्याकाहुतिभिः, (दुरितशान्त्यै) १३. क्षीरपरमान्नाभ्यां अयुतसङ्ख्याकाहुतिभिः, (सर्वशान्त्यै) १४. दूर्वाभिरयुतसङ्ख्याकाहुतिभिः, (व्याधिनिवृत्यै) १५. त्रिमधुराप्लुतपायसेनायुतसङ्ख्याकाहुतिभिः, (सम्पदारोग्यकीर्त्यै) १६. बिल्वपलाशखदिरवटसमित्तिलसर्षपक्षीरपायसदधिदूर्वाख्यैर्दशद्रव्यैः प्रतिद्रवं शतावृत्या सहस्रसङ्ख्याकाहुतिभिः, (सर्वामयोपद्रवशान्त्यै आयुरभिवृद्धये च) पीठावरणमन्त्रैराज्येन मन्त्रसङ्ख्यया ब्रह्मार्पण मन्त्रेणाज्येनाष्टवारं यक्ष्ये ॥ अग्निः स्विष्टकृत् ॥॥। ॥ इति मृत्युञ्जयाराधनम् ॥ सङ्ग्राहकः प. पु. परमेश्वर-पुट्टन्मने

॥ मार्कण्डेयप्रोक्तमृत्युशमनमृत्युञ्जयस्तोत्रम् ॥

रुद्रं पशुपतिं स्थाणुं नीलकण्ठमुमापतिम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १॥ नीलकण्ठं विरूपाक्षं निर्मलं निरुपद्रवम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ २॥ कालकण्ठं कालमूर्तिं कालाग्निं कालनाशनम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ३॥ देवदेवं महादेवं देवेशं वृषभध्वजम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ४॥ वामदेवं महादेवं लोकनाथं जगद्गुरुम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ५॥ अनन्तमव्ययं शान्तमक्षमालाधरं हरम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ६॥ भस्मोद्धूलितसर्वाङ्गं त्रिपुण्ड्राङ्कितमस्तकम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ७॥ स्वर्गापवर्गदातारं सृष्टिस्थित्यन्तकारणम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ८॥ आनन्दं परमं नित्यं कैवल्यपदकारणम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ९॥ त्रिणेत्रं पञ्चवक्त्रं च शङ्करं शूलपाणिनम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १०॥ मार्कण्डेयकृतं स्तोत्रं यः पठेच्छिवसन्निधौ । तस्य मृत्युभयं नास्ति सत्यं सत्यं वदाम्यहम् ॥ ११॥ इति मृत्युशमनमृत्युञ्जयस्तोत्रं सम्पूर्णम् ॥

॥ मृत्युञ्जयस्तोत्रं नरसिंहपुराणे ॥

मार्कण्डेय उवाच - नारायणं सहस्राक्षं पद्मनाभं पुरातनम् । प्रणतोऽस्मि हृषीकेशं किं मे मृत्युः करिष्यति ॥ १॥ गोविन्दं पुण्डरीकाक्षमनन्तमजमव्ययम् । केशवं च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ २॥ वासुदेवं जगद्योनिं भानुवर्णमतीन्द्रियम् । दामोदरं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ३॥ शङ्खचक्रधरं देवं छन्नरूपिणमव्ययम् । अधोक्षजं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ४॥ वाराहं वामनं विष्णुं नरसिंहं जनार्दनम् । माधवं च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ५॥ पुरुषं पुष्करं पुण्यं क्षेमबीजं जगत्पतिम् । लोकनाथं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ६॥ भूतात्मानं महात्मानं जगद्योनिमयोनिजम् । विश्वरूपं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ७॥ सहस्रशिरसं देवं व्यक्ताव्यक्तं सनातनम् । महायोगं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ८॥ इत्युदीरितमाकर्ण्य स्तोत्रं तस्य महात्मनः । अपयातस्ततो मृत्युर्विष्णुदूतैश्च पीडितः ॥ ९॥ इति तेन जितो मृत्युर्मार्कण्डेयेन धीमता । प्रसन्ने पुण्डरीकाक्षे नृसिंहे नास्ति दुर्लभम् ॥ १०॥ मृत्युञ्जयमिदं पुण्यं मृत्युप्रशमनं शुभम् । मार्कण्डेयहितार्थाय स्वयं विष्णुरुवाच ह ॥ ११॥ य इदं पठते भक्त्या त्रिकालं नियतः शुचिः । नाकाले तस्य मृत्युः स्यान्नरस्याच्युतचेतसः ॥ १२॥ हृत्पद्ममध्ये पुरुषं पुराणं नारायणं शाश्वतमादिदेवम् । सञ्चिन्त्य सूर्यादपि राजमानं मृत्युं स योगी जितवांस्तदैव ॥ १३॥ इति श्रीनरसिंहपुराणे मार्कण्डेयमृत्युञ्जयो नाम सप्तमोऽध्यायः ॥

॥ अथ शिवस्तुतिः ॥

धरापोग्निर्मरुद्व्योम मखेशेन्द्वर्कमूर्तये । सर्व भूतान्तरस्थाय शङ्कराय नमो नमः ॥ १॥ श्रुत्यन्तक्रतवासाय श्रुतये श्रुतिजन्मने । अतीन्द्रियाय महते शाश्वताय नमो नमः ॥ २॥ स्थूलसूक्ष्मविभागाभ्यां अनिर्देश्याय शम्भवे । भवाय भवसम्भूत दुःखहन्त्रे नमोऽस्तुते ॥ ३॥ तर्कमार्गातिदूराय तपसां फलदायिने । चतुर्वर्गवदन्याय सर्वज्ञाय नमो नमः ॥ ४॥ आदिमध्यान्तशून्याय निरस्ताशेषभीतये । योगिध्येयाय महते निर्गुणाय नमो नमः ॥ ५॥ विश्वात्मने विचिन्त्याय विलसच्चन्द्रमौलिने । कन्दर्पदर्पकालाय कालहन्त्रे नमो नमः ॥ ६॥ विषाशनाय विहरद् वृषस्कन्दमुपेयुषे । सरिद्दामसमाबद्ध कन्दर्पाय नमो नमः ॥ ७॥ शुद्धाय शुद्धभावाय शुद्धानामन्तरात्मने । पुरान्तकाय पूर्णाय पुण्यनाम्ने नमो नमः ॥ ८॥ भक्ताय निजभक्तानां भुक्तिमुक्तिप्रदायिने । विवाससे विवासाय विश्वेशाय नमो नमः ॥ ९॥ त्रिमूर्तिमूलभूताय त्रिणेत्राय नमो नमः । त्रिधाम्नां धामरूपाय जन्मघ्नाय नमो नमः ॥ १०॥ देवासुरशिरोरत्न किरणारुणिताङ्घ्रये । कान्ताय निजकान्तायै दत्तार्धायै नमो नमः ॥ ११॥ स्तोत्रेणानेन पूजायां प्रीणयेज्जगतः पतिम् । भुक्तिमुक्तिप्रदं भक्त्या सर्वज्ञं परमेश्वरम् ॥ १२॥ इति शिवस्तुतिः ॥

॥ अथ श्रीशिवमानसपूजा ॥

रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् । जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥ १॥ सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् । शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलं ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥ २॥ छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं वीणाभेरिमृदङ्गकाहलकला गीतं च नृत्यं तथा । साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मया सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥ ३॥ आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः । सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ॥ ४॥ करचरण कृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वापराधम् । विहितमविहितं वा सर्वमेतत्क्षमस्व जय जय करुणाब्धे श्रीमहादेवशम्भो ॥ ५॥ ॥ इति श्रीमच्छङ्कराचार्यविरचिता शिवमानसपूजा समाप्ता ॥ सङ्ग्राहकः प. पु. परमेश्वर-पुट्टन्मने Encoded and proofread by Parameshwar Puttanmane poornapathi at gmail.com
% Text title            : Mrityunjaya Aradhanam
% File name             : mRRityuMjayArAdhanam.itx
% itxtitle              : mRityunjayArAdhanam
% engtitle              : mRRityunjayArAdhanam
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Parameshwar Puttanmane poornapathi at gmail.com
% Proofread by          : Parameshwar Puttanmane poornapathi at gmail.com
% Indexextra            : (Kannada, similar)
% Latest update         : September 13, 2020, July 5, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org