श्रीमृत्युञ्जयध्यानम्
वन्दे मृत्युञ्जयं साम्ब नीलकण्ठं चतुर्भुजम् ।
चन्द्रकोटिप्रतीकाशं पूर्णचन्द्रनिभाननम् ॥ १॥
बिम्बाधरं विशालाक्षं चन्द्रालङ्कृतमस्तकम् ।
अक्षमालाम्बरधरं वरदं चाभयप्रदम् ॥ २॥
महार्हकुण्डलाभूषं हारालकृतवक्षसम् ।
भस्मोद्धूलितसर्वाङ्गं भालनेत्रविराजितम् ॥ ३॥
व्याघ्रचर्मपरीधानं व्यालयज्ञोपवीतिनम् ।
पार्वत्या सहितं वन्दे सर्वाभीष्टवरप्रदम् ॥ ४॥
इति श्रीमृत्युञ्जयध्यानं सम्पूर्णम् ।