त्र्यक्षरीमृत्युञ्जयजपविधिः
ॐ अस्य श्रीत्र्यक्षरात्मकमृत्युञ्जयमन्त्रस्य कहोलऋषिः,
देवी गायत्रीछन्दः, श्रीमृत्युञ्जयो देवता, जूँ बीजं, सः शक्तिः,
ॐ कीलकं, सर्वारिष्टाल्पमृत्युनाशार्थे जपे विनियोगः ।
कहोलऋषये नमः शिरसे । देवीगायत्रीच्छन्दसे नमः मुखे ।
श्रीमृत्युञ्जयदेवतायै नमः हृदि । जूँ बीजाय नमः गुह्ये ।
सः शक्तये नमः पादयोः । ॐ कीलकाय नमः सर्वाङ्गे ।
इति हृदयादिन्यासः ॥
अथ करन्यासः -
सां अङ्गुष्ठाभ्यां नमः । सीं तर्जनीभ्यां नमः ।
सूँ मध्यमाभ्यां नमः । सैं अनामिकाभ्यां नमः ।
सौं कनिष्ठिकाभ्यां नमः । सः करतलकरपृष्ठाभ्यां नमः ॥
अथ हृदयादिन्यासः -
सं हृदि । सीं शिरसि । सूँ शिखायै ।
सैं नेत्रत्रयाय । सौं कवचाय हुँ । सः अस्त्राय फट् ॥
अथ ध्यानं -
चन्द्रार्काग्निविलोचनं स्मितमुखं पद्मद्वयान्तः स्थितम्
मुद्रापाशमृगाक्षसूत्रविलसत्पाणिं हिमांशुप्रभम् ।
कोटीरेन्दुगलत् सुधास्नुततनुं हारादिभूषोज्ज्वलम्
कान्त्या विश्वविमोहनं पशुपति मृत्युञ्जयं भावयेत् ॥ १॥
मूलमन्त्रः - ॐ जूँ सः सः जूँ ओम् ।
अथ पुराणोक्तमृत्युञ्जयमन्त्रः -
ॐ मृत्युञ्जयाय रुद्राय नीलकण्ठाय शम्भवे ।
अमृतेशाय शर्वाय महादेवाय ते नमः ओम् ॥
इति त्र्यक्षरीमृत्युञ्जयजपविधिः समाप्ता ।
Proofread by Paresh Panditrao