मृत्युरक्षाकारकं कवचम्
श्रीदेव्युवाच -
भगवन् देवदेवेश देवताभिः प्रपूजितः ।
सर्वं मे कथितं देव कवचं न प्रकाशितम् ॥ १॥
मृत्युरक्षाकरं देव सर्वाशुभविनाशनम् ।
कथयस्वाद्य मे नाथ यदि स्नेहोऽस्ति मां प्रति ॥ २॥
श्रीश्वर उवाच -
अस्य मृत्युञ्जयमन्त्रस्य वामदेव ऋषिः, गायत्रीच्छन्दः,
मृत्युञ्जयो देवता, साधकाभीष्टसिद्ध्यर्थे जपे विनियोगः
शिरो मे सर्वदा पातु मृत्युञ्जयसदाशिवः ।
सत्र्यक्षरस्वरूपो मे वदनं च महेश्वरः ॥ ३॥
पञ्चाक्षरात्मा भगवान् भुजौ मे परिरक्षतु ।
मृत्युञ्जयस्त्रिबीजात्मा ह्यायू रक्षतु मे सदा ॥ ४॥
बिल्ववृक्षसमासीनो दक्षिणामूर्तिरव्ययः ।
सदा मे सर्वतः पातु षट्त्रिंशद्वर्णरूपधृक् ॥ ५॥
द्वाविंशत्यक्षरो रुद्रः कुक्षौ मे परिरक्षतु ।
त्रिवर्णात्मा नीलकण्ठः कण्ठं रक्षतु सर्वदा ॥ ६॥
चिन्तामणिर्बीजपूरे ह्यर्द्धनारीश्वरो हरः ।
सदा रक्षतु मे गुह्यं सर्वसम्पत्प्रदायकः ॥ ७॥
सत्र्यक्षरस्वरूपात्मा कूटरूपी महेश्वरः ।
मार्तण्ड भैरवो नित्यं पादौ मे परिरक्षतु ॥ ८॥
ॐ जूं सः महाबीजस्वरूपस्त्रिपुरान्तकः ।
ऊर्ध्वमूर्द्धनि चेशानो मम रक्षतु सर्वदा ॥ ९॥
दक्षिणस्यां महादेवो रक्षेन्मे गिरिनायकः ।
अघोराख्यो महादेवः पूर्वस्यां परिरक्षतु ॥ १०॥
वामदेवः पश्चिमस्यां सदा मे परिरक्षतु ।
उत्तरस्यां सदा पातु सद्योजातस्वरूपधृक् ॥ ११॥
इत्थं रक्षाकरं देवि कवचं देवदुर्लभम् ।
प्रातर्मध्याह्नकाले तु यः पठेच्छिवसन्निधौ ॥ १२॥
सोऽभीष्टफलमाप्नोति कवचस्य प्रसादतः ।
कवचं धारयेद्यस्तु साधको दक्षिणे भुजे ॥ १३॥
सर्वसिद्धिकरं पुण्यं सर्वारिष्टविनाशनम् ।
योगिनीभूतवेतालाः प्रेतकूष्माण्डपन्नगाः ॥ १४॥
न तस्य हिंसां कुर्वन्ति पुत्रवत्या लयन्ति ते ।
पठित्वाऽभ्यर्चयेद्देवि यथाविधिपुरःसरम् ॥ १५॥
लक्षञ्च मूलमन्त्रस्य पुरश्चरणमुच्यते ।
तद्धारणे महादेवि मृत्युरोगविनाशनम् ॥ १६॥
एवं यः कुरुते मर्त्यः पुण्यां गतिमवाप्नुयात् ।
इति ज्ञातं महादेवि तस्य वक्त्रे स्थितं सदा ॥ १७॥
कवचस्य प्रसादेन मृत्युमुक्तो भवेन्नरः ।
अन्यथा सिद्धिहानिः स्यात्सत्यमेतन्मनोरमे ॥ १८॥
तव स्नेहान्महादेवि कथितं कवचं शुभम् ।
न देयं कस्यचिद्भद्रे यदीच्छेदात्मनो हितम् ॥ १९॥
इति श्रीकियोड्डीशे महातन्त्रराजे देवीश्वरसंवादे मृत्युरक्षाकारकं कवचं समाप्तम् ।
अथैओनविंशः पटलः
Proofread by Divya KS