श्रीमध्यार्जुनेशाष्टकम्
मध्यार्जुनेशं भजेहं साम्बमध्यार्जुनेशं
महालिङ्गमाद्यं मध्यार्जुनेशं भजेहम् ॥ ध्रुवपदम् ॥
ज्योतिर्महालिङ्गरूपं कॢप्तभूपं भुजङ्गेन कृत्तारिवृन्दम् ।
भक्तार्ति संहार्यपाङ्गं ब्रह्मविष्ण्वादिवृन्दैर्मुदापूजिताङ्घ्रिम् ॥ १॥
रुद्राक्षमालां धरन्तं ब्रह्महत्यादि पापानि सन्नाशयन्तम् ।
रक्षन्तमापत्सु भक्तान् भ्रान्तचित्तस्थदोषान् समुन्मूलयन्तम् ॥ २॥
पुण्याश्वमेधप्रचारैः भूतपातादिचोरैः भवाम्भोधितारैः ।
कुर्वन्ति भक्ताः प्रसन्नं पुत्रपौत्राद्यभीष्टान् सदा पूरयन्तम् ॥ ३॥
भस्मादिभूषाविशेषं पुष्पविल्वादिपत्रैर्जुषाणं सुतोषम् ।
सर्वार्थदायिप्रदोषं विप्रवर्यौघ सम्प्रोक्तसामादिघोषम् ॥ ४॥
सह्याद्रिजातीर भाग्यं साधुभोग्यं सुरेन्द्रैः सदासाधुमृग्यम् ।
प्राप्यं कृतानेकपुण्यैः दीनरक्षैकदीक्षं कृपापूर्णवीक्षम् ॥ ५॥
पुष्पोत्सवे पुण्यगोष्ट्यां सामवेदादिघोषैः प्रमोदेनभान्तम् ।
ज्योतिर्मयानन्दकन्दं स्वर्जुनाख्यस्य वृक्षस्य मूले वसन्तम् ॥ ६॥
पुष्येरथे कालधौते दिव्यपुष्पाभिरामेवृषैरुह्यमाने ।
पश्यन्तमत्यन्तभक्तां सुन्दराभ्यां बृहद्भ्यां कुचाभ्यां युतान्ताम् ॥ ७॥
स्तोत्रं कृतं भक्तिपूर्वं दीक्षितानन्तरामेण पापौघशान्त्यै ।
नित्यं पठेद्यस्तु भक्त्या तस्य सर्वार्थलाभो भवेदाशुतोषात् ॥ ८॥
इति श्री अनन्तरामदीक्षितेन विरचितं
श्रीमध्यार्जुनेशाष्टकं सम्पूर्णम् ।
Proofread by Mohan Chettoor