श्रीमहादेवाष्टकम्
मोक्षलक्ष्मीगृहद्वारकवाटोद्धाटनध्वनिः ।
महादेव महादेव महादेवेत्ययं ध्वनिः ॥ १॥
वैवस्वतमहाराजमौलिसङ्कुट्टनध्वनिः ।
महादेव महादेव महादेवेत्ययं ध्वनिः ॥ २॥
कैलासनगरद्वारमहाघण्टारवध्वनिः ।
महादेव महादेव महादेवेत्ययं ध्वनिः ॥ ३॥
महापातकमत्तेभत्रासकण्ठीरवध्वनिः ।
महादेव महादेव महादेवेत्ययं ध्वनिः ॥ ४॥
महेश्वरमहोक्षस्य घण्टाघणघणध्वनिः ।
महादेव महादेव महादेवेत्ययं ध्वनिः ॥ ५॥
मुक्त्यङ्गनाकरस्पर्शविवाहपटहध्वनिः ।
महादेव महादेव महादेवेत्ययं ध्वनिः ॥ ६॥
मत्सेवनासमायातजयश्रीदुन्दुभिध्वनिः ।
महादेव महादेव महादेवेत्ययं ध्वनिः ॥ ७॥
पापाटवीप्रविष्टाग्निज्वालाचटचटध्वनिः ।
महादेव महादेव महादेवेत्ययं ध्वनिः ॥ ८॥
महादेवस्य वाग्वल्ली चतुरक्षरपल्लवा ।
भक्तिसिद्धा भवत्येषा चतुर्वर्गफलप्रदा ॥ ९॥
॥ इति श्रीमहादेवाष्टकं सम्पूर्णम् ॥
Proofread by Gopalakrishnan