हेमबाहु प्रोक्ता महादेवस्तुतिः
हेमबाहुरुवाच -
आदिकन्द नमस्तुभ्यं नमस्तेऽव्यक्तयोनये ।
कामचारणसिंहाय सर्वेप्सितप्रदाय च ॥ ४१॥
भक्तप्रिय नमस्तुभ्यं विष्णुचक्रप्रदाय च ।
त्रिपुरघ्न नमस्तेऽस्तु नानासुरवरप्रद ॥ ४२॥
नागार्जुनसहायस्त्वं काशीराजवरप्रद ।
विद्यागोप्ता लोकसाक्षी अन्धकदीपकेशरी ॥ ४३॥
नमो मोक्षप्रदात्रे च भगीरथवरप्रद ।
नीलकण्ठ नमस्तुभ्यमुमाप्रियकृते नमः ॥ ४४॥
नमस्ते सच्चिदानन्द कुमारगुरवे नमः ।
रामचन्द्रप्रतिष्ठात्रे पञ्चब्रह्म नमोऽस्तुते ॥ ४५॥
क्षेत्रेशपरमेशान ह्यपराधः कुतो मया ।
इदानीं करुणापङ्गैः पूरयस्व मनोरथम् ॥ ४६॥
इति कपिलपुराणे षोडशोऽध्यायान्तर्गता महादेवस्तुतिः समाप्ता ।
Proofread by PSA Easwaran