महादेवस्तुतिः वरप्राप्त्यर्थं पार्वतिकृता
(सौरपुराणे ५४-अध्यायान्तर्गतम्)
देव्युवाच -
बालेति मत्वा भव भूतनाथ व्यामोह(व्यामुह्य)से किं त्वमनिन्द्यवर्य ।
स्वतन्त्रवृत्तिर्यदि वा तवैषा तदा दहेर्मामपि चाग्रसंस्थाम् ॥ ५॥
यदि विश्वेश्वरो देवो ब्रह्मादीनां हरः शिवः ।
प्रतारणे प्रवृत्तश्चेत्को निवारयितुं क्षमः ॥ ६॥
नाहं प्रतार्या भगवंस्त्वामहं शरणं गता ।
गतिर्नान्याऽस्ति मे देव तस्मान्मां त्रातुमर्हसि ॥ ७॥
त्वमेव चक्षुर्जगतस्त्वमेव वचसां पतिः ।
त्वमेव धाता जगतो विधाता विश्वतोमुखः ॥ ८॥
नमाम्यहं देववरं पुराणमुपेन्द्रवेधोऽमरराजजुष्टम् ।
शशाङ्कसूर्याग्निमयं त्रिनेत्रं ध्यानाधिगम्यं जगतः प्रकाशम् ॥ ९॥
त्वां वाङ्मयाधारमनन्तवीर्यं ज्ञानार्णवं चैव गुणार्णवं च ।
परापरं धामनिधिं सुसूक्ष्ममनादिमध्यान्तविहीनरूपम् ॥ १०॥
हिरण्यगर्भं जगतः प्रसूतिं नमामि देवं हरिणाङ्कचिह्नम् ।
पिनाकपाशाङ्कुशशूलहस्तं कपर्दिनं मेघसहस्रघोषम् ॥ ११॥
तमालकण्ठं स्फटिकावदातं नमामि शम्भुं भुवनैकसिंहम् ।
दशार्धवक्त्रं सुरसिन्धुशीर्षं शशाङ्कचिह्नं नरसिंहदारुणम् ॥ १२॥
त्वां नमामि शरभरूपधरोरगेन्द्रराजहारं चलद्वलयभूषणं हरम् ।
वरविबुधमुकुटार्चिताङ्घ्रिं नमामि हि हरिचर्मवसनं त्वाम् ॥ १३॥
यदक्षरं निर्गुणमप्रमेयं यज्ज्योतिरेकं प्रवदन्ति सन्तः ।
दूरङ्गमं देवमनन्तमूर्तिं नमामि सूक्ष्मं परमं पवित्रम् ॥ १४॥
नमामि रुद्रं प्रमथाधिनाथं धर्मासनस्थं प्रकृतिद्वयस्थम् ।
तेजोनिधिं बालशशाङ्कमौलिं कालेन्धनं वह्निरवीन्दुनेत्रम् ॥ १५॥
इति सौरपुराणे चतुष्पञ्चाशोऽध्यायान्तर्गतं वरप्राप्त्यर्थं
पार्वतिकृता महादेवस्तुतिः समाप्ता ।
Encoded and proofread by PSA Easwaran