श्रीमहाकालभैरवकवचम्
श्रीगणेशाय नमः ।
श्रीभैरव उवाच ।
अधुना शृणु वक्ष्यामि कवचं मन्त्रगर्भकम् ।
महाकालस्य देवस्य महाभय निबर्हणम् ॥
ॐ अस्य श्रीमहाकालभैरवकवचमन्त्रस्य श्रीमहादेव ऋषिः,
जगती छन्दः, श्रीमहाकालभैरवो देवता,
हूं बीजं, ह्रीं शक्तिः, प्रसीद प्रसीद कीलकम् ।
सर्वेष्ट कामना सिध्यर्थे, आत्मनः धर्मार्थकाममोक्षार्थे
श्रीमहाकालभैरवप्रीत्यर्थे कवच पाठे विनियोगः ॥
अथ करन्यासः -
ॐ ह्रां अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं तर्जनीभ्यां नमः ।
ॐ ह्रूं मध्यमाभ्यां नमः ।
ॐ ह्रैं अनामिकाभ्यां नमः ।
ॐ ह्रौं कनिष्ठिकाभ्यां नमः ।
ॐ ह्रः करतलकरपृष्ठाभ्यां नमः ॥
अथाङ्गन्यासः -
ॐ ह्रां हृदयाय नमः ।
ॐ ह्रीं शिरसे स्वाहा ।
ॐ ह्रूं शिखायै वषट् ।
ॐ ह्रैं कवचाय हुम् ।
ॐ ह्रौं नेत्रत्रयाय वौषट् ।
ॐ ह्रः अस्त्राय फट् ॥
अथ ध्यानम् १ -
नीलजीमूतसङ्काशं महाभयत्रिलोचनम् ।
नीलकण्ठं खड्गचर्मवराभयधरं भुजैः ॥
पिनाक शूल खट्वाङ्गतोमरात्विभ्रतं विभुम् ।
प्रास पट्टिस हस्तं वै महाकालं स्मराम्यहम् ॥
अथ ध्यानम् २ -
उदिजीमूतसङ्काशं महाकालं त्रिलोचनम् ।
कपालखट्वाङ्गधरं वराभयकरं सदा ॥
शूलतोमरहस्तञ्चाभयदं साधकेष्टदम् ।
प्रास पट्टिस हस्तं वै महाकालं स्मराम्यहम् ॥
कूर्चयुग्मं शिरः पातु महाकालोममावतु ।
महाकालप्रसीदेतिद्वयं मेव्याल्ललाटकम् ॥ १॥
मायाद्वयं भ्रुवौपातु सदाशिवोममावतु ।
ठद्वयम्मेवतान्नेत्रे नीलकण्ठोवतात्सदा ॥ २॥
सर्वमन्त्रं श्रुतीमेव्यात्कपर्दी सर्वतोवतु ।
तारं मे पातु गण्डौ च त्रिलोचनोवतान्मम ॥ ३॥
मायायुतश्चमे नासां देवोव्यात् त्रिपुरान्तकः ।
लक्ष्मी मुखन्तथौष्टौ मे पायादन्धकनाशकृत् ॥ ४॥
वाग्बीजं मोहनं पायाद् हाटकेश्वरभैरवः ।
हृज्जबीजं कन्धरन्तु पायात्कालान्तकः सदा ॥ ५॥
शक्तिबीजं गलम्पातु देवः कामान्तको मम ।
महाकालभैरवायेत्येतत्स्कन्दौ ममावतु ॥ ६॥
पृष्ठस्थले सदाव्यान्मे भूतनायक भैरवः ।
श्मशानस्थोः पातु नखान्ममाङ्गुलि समन्विताम् ॥ ७॥
स्तनौ दिगम्बरः पातु वक्षः पशुपतिर्मम ।
कुक्षिं पातु महाकालो शूली पृष्ठं ममावतु ॥ ८॥
शिश्नम्मे शङ्करः पातु गुह्यं गुह्येशवल्लभः ।
ज्वलत्पावकमध्यस्थः कटिं पातु सदा मम ॥ ९॥
ऊरूमेव्याद्भस्मशायी जागर्थकश्च जानुनि ।
जङ्घेमेव्यात्कालरुद्रो गुल्फौ जटाधरोवतु ॥ १०॥
पादौमेव्यान्महातेजः शूलखड्गधरोव्ययः ।
पादादि मूर्धपर्यन्तं पातु कालाग्निभैरवः ॥ ११॥
शिरसः पादपर्यन्तं सद्योजातो ममावतु ।
रक्षाहीनं नामहीनं वपुः पातु सदाशिवः ॥ १२॥
पूर्वेवलविकरणो दक्षिणे कालशासनः ।
पश्चिमे पार्वतीनाथोश्चुत्तरेमां मनोन्मनः ॥ १३॥
ऐशान्यामीश्वरः पायादाग्नेयामग्निलोचनः ।
नैरृत्यां शम्भुरव्यान्मां वायव्यां वायुवाहनः ॥ १४॥
ऊर्ध्वं बलप्रमथनः पाताले परमेश्वरः ।
दशदिक्षु सदा पातु महाकालोतिभीषणः ॥ १५॥
रणे राजकुले द्यूते विषमे प्राणसंशये ।
पायात्कालो महारुद्रो देवदेवो महेश्वरः ॥ १६॥
प्रभाते पातुमां ब्रह्मा मध्याह्ने भैरवोवतु ।
सायं सर्वेश्वरः पातु निशायां नित्यचेतनः ॥ १७॥
अर्धरात्रे महादेवो निशान्तेसु महोदयः ।
सर्वदा सर्वथा पातु महाकालः महाप्रभुः ॥ १८॥
इतीदं कवचं दिव्यं त्रिषु लोकेषु दुर्लभम् ।
पुण्यं पुण्यप्रदं दिव्यं महाकालाधिदैवतम् ॥ १९॥
सर्वमन्त्रमयं गुह्यं सर्वतन्त्रेषु गोपितम् ।
सर्वसारमयं देवि सर्वकामफलप्रदम् ॥ २०॥
य इमं पठेन्मन्त्री कवचं वाचयेत्तथा ।
तस्य हस्ते महादेवि त्र्यम्बकस्याष्टसिद्धयः ॥ २१॥
रणे धृत्वाचरेद्युद्धं हत्वाशत्रुञ्जयं लभेत् ।
धनं हृत्वा जयं देवि सप्राप्स्यति सुखी पुनः ॥ २२॥
महाभये महारोगे महामारी भये तथा ।
दुर्भिक्षे शत्रु सङ्घाते पठेत्कवचमादरात् ॥ २३॥
सर्वं तत्प्रशमयाति महाकालप्रसादतः ।
पुत्रार्थी लभते पुत्रात्विद्या माप्नोति साधकः ॥ २४॥
धनम्पुत्रांसुखंलक्ष्मीमारोग्यं सर्वसम्पदः ।
प्राप्नोति साधकः सद्योदेवि सत्यं न संशयः ॥ २५॥
इतीदं कवचं दिव्यं महाकालस्य सर्वदा ।
गोप्यं सिद्धिप्रदं गुह्यं गोपनीय स्वयोनिवत् ॥ २६॥
अशान्ताय च क्रूराय शठाया दीक्षिताय च ।
निःश्रद्धायापि धूर्ताय न दातव्यं कदाचन ॥ २७॥
नदद्यात्परशिष्येभ्योः पुत्रेभ्योऽपि विशेषतः ।
रहस्यं मम सर्वस्वं गोप्यं गुप्ततरं कलौ ॥ २८॥
स्कन्दस्यापि मयानोक्तं तवोक्तं भावनावशात् ।
दुर्जनाद्रक्षणीय च पठनीय महर्निशम् ॥ २९॥
श्रोतव्यं साधकमुखाद्रक्षणीयं स्वपुत्रवत् ।
इत्येष पटलो दिव्यो वर्णितोखिलसिद्धिकृत् ॥ ३०॥
पालनीयः प्रयत्नेन रक्षितव्यः सदाशिवे ।
संसारार्णव मग्नानामुपायः परमः स्मृतः ॥ ३१॥
भक्तिहीना अपुत्राय न दातव्यं कदाचन ।
इति श्रीविश्वनाथसारोद्धारेतन्त्रे उत्तरखण्डे मन्त्रप्रदीपिकायां
श्रीकामेश्वररहस्ये षडाम्नायनिर्णये श्रीमहाकालपङ्चाङ्गे
श्रीमहाकालभैरव मन्त्रगर्भकवचं समाप्तम् ॥
Encoded and proofread by Ravin Bhalekar ravibhalekar at hotmail.com