श्रीमहाकालककाराद्यष्टोत्तरशतनामावलिः

श्रीमहाकालककाराद्यष्टोत्तरशतनामावलिः

मन्त्रः - ``ह्रूं ह्रूं महाकाल ! प्रसीद प्रसीद ह्रीं ह्रीं स्वाहा ।'' मन्त्रग्रहणमात्रेण भवेत्सत्यं महाकविः । गद्यपद्यमयी वाणी गङ्गा निर्झरणी यथा ॥ विनियोगः - ॐ अस्य श्रीराजराजेश्वर श्रीमहाकाल ककाराद्यष्टोत्तरशतनाममालामन्त्रस्य श्रीदक्षिणाकालिका ऋषिः, विराट् छन्दः, श्रीमहाकालः देवता, ह्रूं बीजं, ह्रीं शक्तिः, स्वाहा कीलकं, सर्वार्थसाधने पाठे विनियोगः ॥ ऋष्यादिन्यासः - श्रीदक्षिणाकालिका ऋषये नमः शिरसि । विराट् छन्दसे नमः मुखे । श्रीमहाकाल देवतायै नमः हृदि । ह्रूं बीजाय नमः गुह्ये । ह्रीं शक्तये नमः पादयोः । स्वाहा कीलकाय नमः नाभौ । विनियोगाय नमः सर्वाङ्गे ॥ करन्यासः एवं हृदयादिन्यासः - ॐ ह्रां अङ्गुष्ठाभ्यां नमः, हृदयाय नमः । ॐ ह्रीं तर्जनीभ्यां नमः, शिरसे स्वाहा । ॐ ह्रूं मध्यमाभ्यां नमः, शिखायै वषट् । ॐ ह्रैं अनामिकाभ्यां नमः, कवचाय हुम् । ॐ ह्रौं कनिष्ठिकाभ्यां नमः, नेत्रत्रयाय वौषट् । ॐ ह्रः करतलकरपृष्ठाभ्यां नमः, अस्त्राय फट् ॥ ध्यानम् - कोटि कालानलाभासं चतुर्भुजं त्रिलोचनम् । श्मशानाष्टकमध्यस्थं मुण्डाष्टकविभूषितम् ॥ पञ्चप्रेतस्थितं देवं त्रिशूलं डमरुं तथा । खड्गं च खर्परं चैव वामदक्षिणयोगतः ॥ विश्चतं सुन्दरं देहं श्मशानभस्मभूषितम् । नानाशवैः क्रीडमानं कालिकाहृदयस्थितम् ॥ लालयन्तं रतासक्तं घोरचुम्बनतत्परम् । गृध्रगोमायुसंयुक्तं फेरवीगणसंयुतम् ॥ जटापटल शोभाढ्यं सर्वशून्यालयस्थितम् । सर्वशून्यमुण्डभूषं प्रसन्नवदनं शिवम् ॥ अथ नामावलिः । ॐ कूं कूं कूं कूं शब्दरताय नमः । क्रूं क्रूं क्रूं क्रूं परायणाय । कविकण्ठस्थिताय । कै ह्रीं ह्रूं कं कं कवि पूर्णदाय । कपालकज्जलसमाय । कज्जलप्रियतोषणाय । कपालमालाऽऽभरणाय । कपालकरभूषणाय । कपालपात्रसन्तुष्टाय । कपालार्घ्यपरायणाय । कदम्बपुष्पसम्पूज्याय । कदम्बपुष्पहोमदाय । कुलप्रियाय । कुलधराय । कुलाधाराय । कुलेश्वराय । कौलव्रतधराय । कर्मकामकेलिप्रियाय । क्रतवे । कलह ह्रींमन्त्रवर्णाय नमः । २० ॐ कलह ह्रींस्वरूपिणे नमः । कङ्कालभैरवदेवाय । कङ्कालभैरवेश्वराय । कादम्बरीपानरताय । कादम्बरीकलाय । करालभैरवानन्दाय । करालभैरवेश्वराय । करालाय । कलनाधाराय । कपर्दीशवरप्रदाय । करवीरप्रियप्राणाय । करवीरप्रपूजनाय । कलाधाराय । कालकण्ठाय । कूटस्थाय । कोटराश्रयाय । करुणाय । करुणावासाय । कौतुकिने । कालिकापतये नमः । ४० ॐ कठिनाय नमः । कोमलाय । कर्णाय । कृत्तिवासकलेवराय । कलानिधये। कीर्तिनाथाय । कामेन । हृदयङ्गमाय । कृष्णाय । काशीपतये । कौलाय । कुलचूडामणये । कुलाय । कालाञ्जनसमाकाराय । कालाञ्जननिवासनाय । कौपीनधारिणे । कैवर्ताय । कृतवीर्याय । कपिध्वजाय । कामरूपाय । कामगतये नमः । ६० ॐ कामयोगपरायणाय नमः । कामसम्मर्दनरताय । कामगृहनिवासनाय । कालिकारमणाय । कालीनायकाय । कालिकाप्रियाय । कालीशाय । कालिकाकान्ताय । कल्पद्रुमलतामताय । कुलटालापमध्यस्थाय । कुलटासङ्गतोषिताय । कुलटाचुम्बनोद्युक्ताय । कुलटाकुचमर्दनाय । केरलाचारनिपुणाय । केरलेन्द्रगृहस्थिताय । कस्तूरीतिलकानन्दाय । कस्तूरीतिलकप्रियाय । कस्तूरीहोमसन्तुष्टाय । कस्तूरीतर्पणोद्यताय । कस्तूरीमार्जनोद्युक्ताय नमः । ८० ॐ कस्तूरीकुण्डमज्जनाय नमः । कामिनीपुष्पनिलयाय । कामिनीपुष्पभूषणाय । कामिनीकुण्डसंलग्नाय । कामिनीकुण्डमध्यगाय । कामिनीमानसाराध्याय । कामिनीमानतोषिताय । काममञ्जीररणिताय । कामदेवप्रियातुराय । कर्पूरामोदरुचिराय । कर्पूरामोदधारणाय । कर्पूरमालाऽऽभरणाय । कूर्परार्णवमध्यगाय । क्रकसाय । क्रकसाराध्याय । कलापपुष्परूपकाय । कुशलाय । कुशलाकर्णये । कुक्कुरासङ्गतोषिताय । कुक्कुरालयमध्यस्थाय नमः । १०० ॐ काश्मीरकरवीरभृते नमः । कूटस्थाय । क्रूरदृष्टये। केशवासक्तमानसाय । कुम्भीनसविभूषाढ्याय । कुम्भीनसवधोद्यताय नमः । (कोटि कालानलाभासाय नमः । कालिकाहृदयस्थिताय नमः ।) इति श्रीमहाकालककाराद्यष्टोत्तरशतनामावलिः समाप्ता। Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : Mahakala Kakaradi Ashtottarashatanamavali 108 names
% File name             : mahAkAlakakArAdyaShTottarashatanAmAvaliH.itx
% itxtitle              : mahAkAlakakArAdyaShTottarashatanAmAvaliH
% engtitle              : mahAkAlakakArAdyaShTottarashatanAmAvaliH
% Category              : shiva, aShTottarashatanAmAvalI
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description/comments  : See corresponding stotram. (Last two names are taken from Dhyanam)
% Latest update         : September 28, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org