श्रीमहाकालसहस्रनामावलिः
ॐ श्रीगणेशाय नमः ।
श्रीः ।
ॐ नमश्चण्डिकायै ।
अथ महाकालसहस्रनाम लिख्यतेऽधुना ।
ॐ ईश्वर उवाच -
अधुना देवि वक्ष्यामि सहस्रनाममुत्तमम् ।
महाकालस्य देवेशि स्तोत्रं परमदुर्लभम् ॥ १॥
सारासारतरं देवि पवित्राणां च पावनम् ।
गुह्यानामपि गुप्तं च सर्वश्रेयस्करं परम् ॥ २॥
सारस्वतप्रदं चैव शत्रुनाशकरं परम् ।
सर्वसम्पत्प्रदं चैव महारोगनिबर्हणम् ।
महोत्पातप्रशमनं मूलविद्यामनोहरम् ॥ ३॥
अस्य श्रीमहाकालसहस्रनामस्तोत्रमहामन्त्रस्य दक्षिणाक ऋषिः ।
विराट्छन्दः । श्रीकालीसहितो महाकालो देवता ।
हूं बीजं, ह्रीं शक्तिः, स्वाहा कीलकं,
धर्मार्थकाममोक्षार्थे जपे पाठे विनियोगः ।
अथ ध्यानम् ।
श्मशानस्थो महारुद्रो महाकालो दिगम्बरः ।
कपालकर्त्तृका वामे शूलं खट्वाङ्गदक्षिणे ॥ १॥
भुजङ्गभूषिताङ्गोऽपि भस्मास्थिमणिमण्डितः ।
ज्वलत्पावकमध्यस्थो भस्मशय्याव्यवस्थितः ॥ २॥
विपरीतरतां तत्र कालिकां हृदयोपरि ।
पेयं खाद्यं च चोष्यं च तौ कृत्वा तु परस्परम् ॥ ३॥
एवं भक्त्या जपेद्देवि सर्वसिद्धिः प्रजायते ।
इति ध्यानम् ।
अथ सहस्रनामावलिः ।
ॐ महाकालाय नमः । भैरवेशाय । भैरवाय । भीमविक्रमाय ।
श्मशानशायिने । मांसाशिने । भस्मोद्धूलितविग्रहाय । कपालधारिणे ।
मुण्डेशिने । शूलधारिणे । त्रिलोचनाय । एकनेत्राय । विरूपाक्षाय ।
स्वरूपाक्षाय । जितेन्द्रियाय । विकरालाय । कालरूपाय । नागरूपधराय ।
शिवाय । कालीप्रियाय नमः । २०
ॐ करालाक्षाय नमः । विश्वरूपाय । शत्रुजिते । रुद्रेश्वराय ।
विघ्ननाशकाय । भयनाशकाय । प्रभाकराय । त्रिलोकेशाय ।
दक्षरूपाय । शान्ताय । शान्तजनप्रियाय । उग्राय । कपालिने ।
कौमारिणे । शत्रुनाशकराय । मृडाय । शिपिविष्टाय । विश्वनथाय ।
स्वामीशाय । नीललोहिताय नमः । ४०
ॐ गङ्गाधराय नमः । ललटाक्षाय । कालकालाय । कृपानिधये ।
भीमाय । परशुहस्ताय । मृगपाणये । जटाधराय । मृडाय ।
पशुपतये । देवाय । महादेवाय । अव्ययाय । हरये । पूषादन्तभिदे ।
अव्यग्राय । दक्षाध्वरहराय । हराय । भगनेत्रभिदे अव्यक्षाय ।
सहस्राक्षाय नमः । ६०
ॐ सहस्रपादे नमः । अपवर्गप्रदाय । अनन्ताय । तारकाय ।
परमेश्वराय । वमदेवाय । महादेवाय । महापरिवृढाय । दृढाय ।
विश्वरूपाय । विरूपाक्षाय । वागीशस्तुतिमन्थराय । दर्शाय ।
पिनाकिने । खट्वाङ्गिने । चित्रवेशाय । चिरन्तनाय । मनोहराय ।
महत्यागिने । शिरसे नमः । ८०
ॐ बृह्मोङ्ग? नमः । धूर्जटये । कालकालाय । कृत्तिवाससे ।
सुभगाय । प्राणवात्मने । नागचूडाय । सुचक्षुषे । दुर्वाससे ।
स्मरशासनाय । दृढायुधाय । स्कन्दगुरवे । परमेष्ठिने ।
परायणाय । त्रिलोचनाय । ज्वलन्नेत्राय । त्रिशिखिने । त्रिलोकपादे ।
विशलाक्षाय । मृगीन्द्रास्याय नमः । १००
ॐ सुरथाय नमः । सूर्यतापनाय । धर्मधाम्ने । क्षमाक्षेत्राय ।
भगवते । भगघ्ने । उग्राय । पशुपतये । तार्क्ष्याय ।
प्रियभर्त्रे । प्रियम्वदाय । दात्रे । दयाकराय । दक्षाय । कपर्दिने ।
काममर्दनाय । लोककर्त्रे । भूतपतये । महाकर्मणे ।
महोषधये नमः । १२०
ॐ उत्तराय नमः । गोपतये । गोप्त्रे । ज्ञानगम्याय । पुरातनाय ।
नीतये । सुनीतये । शुद्धात्मने । सोमाय । सोमरताय । सुधिये ।
सोमपाय । अमृतपसौम्याय । मोहहारिणे । महाद्युतये । लोककाराय ।
वेदकाराय । सूत्रकाराय । सनातनाय । महर्षये नमः । १४०
ॐ कपिलाचार्याय नमः । विश्वदीप्तये । विलोचनाय । पिनाकपाणये ।
भूदेवाय । स्वस्तिकृते । स्वस्तिदायकाय । धात्रिणे । दामकराय ।
सर्वाय । सर्वज्ञाय । सर्वगोचराय । शाखाय । विशाखाय ।
गोशाखाय । शिवानेकाय । क्रतूत्तमाय । गङ्गोद्भवोदकाय । भव्याय ।
पुष्कलाय नमः । १६०
ॐ स्थपतिप्रियाय नमः । विजितात्मने । विधेयात्मने ।
भूतभावनसारथये । भस्मप्रियाय । भस्मशायिने । कामिने ।
कान्ताय । कृतागमाय । क्षमायुक्ताय । निर्वृतात्मने । धर्मयुक्ताय ।
सदाशिवाय । चतुर्मुखाय । चतुर्बाहवे । सर्वावासाय । दुरासदाय ।
दुर्लभाय । दुर्गमाय । दुर्गाय नमः । १८०
ॐ सर्वायुधविशारदाय नमः । शुभाङ्गाय । योगसारङ्गाय ।
जगदीशाय । जनार्दनाय । भस्मशुद्धिकराय ।
मेरुरोलम्बिने ? । शुद्धविग्रहाय । हिरण्यरेतसे । तरणये ।
भस्माङ्गाय । भस्मरूपधृशे । महाहृदाय । महागर्त्ताय ।
सिद्धवृन्दारवन्दिताय । अमृतेशाय । अमृतवपवे । दण्डाय ।
दमयित्रे । दमाय नमः । २००
ॐ तपस्विने नमः । तारकाय । धीमते । प्रधानप्रभवाय ।
अव्ययाय । राहवे । सूर्याय । शनये । केतवे । विरामाय । विद्रुमाय ।
छवये । भक्तिगम्याय । परम्ब्रह्मणे । परमात्मने । जगत्प्रभवे ।
सर्वकामावलम्बाय । मङ्गल्याय । मङ्गलावृताय । महातपसे नमः । २२०
ॐ दीर्घतपसे नमः । स्थविष्ठाय । स्थविराय । ध्रुवाय ।
अह्ने । संवत्सराय । व्याप्तये । प्रणामाय । परमाय । तपसे ।
संवत्सरकराय । मन्त्राय । प्रत्ययाय । सर्वदर्शनाय । अजाय ।
सर्वेश्वराय । सिद्धाय । महारेतसे । महाबलाय । योगयोग्याय नमः । २४०
ॐ महादेवाय नमः । सर्वादिसिद्धये । अग्निदाय । वसवे । वसुमनसे ।
सत्याय । सर्वपापहराय । मृडाय । अमृताय । शाश्वताय ।
शान्ताय । वीणाहस्ताय । प्रतापवते । कमण्डलुधराय । दर्विने ।
वेदाङ्गाय । वेदविदे । मुनये । भ्राजिष्णवे । भोजनाय नमः । २६०
ॐ भोक्त्रे नमः । लोकनेत्राय । पुरन्दराय । अतीन्द्रियाय । महामयाय ।
सर्वावस्थायै । चतुष्पथाय । कालयोगिने । महायोगिने । महोत्साहाय ।
महाबलाय । महाबुद्धये । महावीर्याय । भूतचारिणे । पुरन्दराय ।
निशाचराय । प्रेतचारिणे । भूतपाय । योगिनीपतये ।
दैत्यप्रियाय नमः । २८०
ॐ नृत्तचित्ताय नमः । दैत्यानाशकराय । पराय । दुर्लभाय ।
दुर्जयाय । शत्रुबलजिते । बलवत्सखाय । प्रेजश्वराय । कलानाथाय ।
शेषशायिने । विलोचनाय । उन्मत्तनेत्राय । कपिलाय । धूसराय ।
धूम्रलोचनाय । रक्तप्रियाय । रक्तनेत्राय । वक्रतुण्डपित्रे ।
वशिने । भूतेशाय नमः । ३००
ॐ भूतनाथाय नमः । भूतभैरवपालकाय । प्रेतालयाय ।
प्रेतभूमिपालकाय । रक्षकप्रियाय । राव?स्थाय ।
चितास्थाय । चिताधूम्रप्रपालकाय । यक्षेशाय । यक्षराजे ।
गुह्याय । यक्षभैरवसेविताय । यज्ञकर्त्रे । यज्ञेशाय ।
यज्ञसुन्दरपालकाय । देवदत्तस्वरूपात्मने । देवानां प्रियकारकाय ।
भूतेश्वराय । भूतदेहाय । भूतनाथसुखाश्रयाय नमः । ३२०
ॐ आकाशगामिने नमः । भ्राजिष्णवे । देवाय । मानुषभक्षकाय ।
इष्टाय । विशिष्टाय । शिष्टेष्टाय । शरभाय । शलभाय ।
धनुषे । अपां निधये । अधिष्ठानाय । विजयाय । जयकालविदे ।
प्रतिष्ठिताय । प्रमाणज्ञाय । हिरण्यकवचाय । हरये ।
विमोचितासुरगणाय । विद्येशाय नमः । ३४०
ॐ विद्युताश्रिताय नमः । बलरूपाय । बलोन्माथिने ।
विहिताय । गुहराय ? । गुहाय । करणाय । कारणाय । कर्त्रे ।
सर्वबन्धविमोचिताय । व्यवसायाय । व्यवस्थानाय । स्वानन्दाय ।
जगदादृताय । दुर्लभाय । ललिताय । विश्वाय । भावात्मने । आत्मनि
संस्थिताय । वीरेश्वराय नमः । ३६०
ॐ वीरभद्राय नमः । वीरासनविधये । विराजे । वीरचूडामणये ।
वेत्त्रे । तीव्रानन्दाय । नटीश्वराय । मज्जाधराय । त्रिशूलाङ्काय ।
शिपिविष्टाय । शिवाश्रयाय । वालखिल्याय । माहाश्चर्याय ।
तिग्मांशवे । बलिभिदे । खगाय । अभिरामाय । शरण्याय । ब्रह्मण्याय ।
सुधामराजे नमः । ३८०
ॐ मघवते नमः । कौशिकाय । धीमते । विरामाय । सर्वशासनाय ।
ललाटाक्षाय । पिङ्गदेहाय । सर्वसंसारचक्रभृते ।
अमोघदण्डमध्यस्थाय । हिरण्यब्रह्मवर्चसिने । परमार्थाय ।
परपदाय । शम्भराय । व्यग्रकाय ? । पराय । रवये । विरोचनाय ।
स्कन्धाय । शास्त्रे । वैवस्वताय नमः । ४००
ॐ यमाय नमः । भक्तये । उन्नतकीर्तये । शान्तरागाय । पराजयाय ।
कैलसपतिकावर्णाय । सवित्रे । रविलोचनाय । सूर्याय । तपाय ।
शचीनाथाय । दिननाथाय । प्रतापवते । भीषणाय । भाराक्रान्ताय ।
महोग्राय । विश्वरूपधृचे । अक्रूराय । क्रूररूपाय ।
कमनीयाय नमः । ४२०
ॐ कलानिधये नमः । नित्याय । नियतकल्याणाय ।
पुण्यश्रवणकीर्त्तनाय । दुरामेध्याय ? । विश्वसहाय । ध्येयाय ।
दुस्स्वप्ननाशनाय । उत्तारकाय । दुष्कृतघ्ने । दुर्विषाय ।
विहरोदयाय ? । मतादिभूर्भुवाय । लक्ष्म्यै । किरीटिने ।
त्रिदशाधिपाय । विश्वगोप्त्रे । विश्वकर्त्रे । सुवीराय ।
रुचिराङ्गदाय नमः । ४४०
ॐ पद्ममेरवे नमः । पद्मगर्भाय । विश्वगर्भाय । विचक्षणाय ।
परावरज्ञाय । वीरेशाय । सुमुखाय । सुमुखस्वताय ? ।
देवासुरगुरवे । देवाय । देवासुरनमस्कृताय । देवादिदेवाय ।
देवेशाय । देवासुरमहेश्वराय । सर्वदेवमयाय । अचिन्त्याय ।
देवतान्तस्समुद्भवाय । ईड्याय । अनीशाय । सुव्यग्राय नमः । ४६०
ॐ देवसिंहाय नमः । दयाकराय । नन्दिने । नन्दीश्वराय । नग्नाय ।
नम्राय । व्रतधराय । शुचये । लिङ्गाध्यक्षाय । सुराध्यक्षाय ।
युगरूपाय । युगावहाय । स्ववशाय । स्वर्गतास्वर्याय ।
सारस्वतमहास्वताय । सर्वभूतमहाम्भोधाय ? । सर्वभूतमहेश्वराय ।
श्मशाननिलयाय । त्वष्ट्रे । केतवे नमः । ४८०
ॐ अप्रतिमाकृतये नमः । लोकोत्तराय । स्फुटालोकय । त्र्यम्बकाय ।
नगभूषणाय । अन्धकारसुखद्वेष्टिने । विश्मुकाय ? । अधर्मपातनाय ।
वीतदोषाय । त्रयगुणैर्दक्षारिपूतदन्तभिदे । धूर्जटये ।
खण्डपरशवे । रागाङ्गाय । विमृडाय । नराय । पूर्णाय । पूरयित्रे ।
पुण्याय । सुकुमाराय । सुलोचनाय नमः । ५००
ॐ बान्धवाय नमः । बन्धुकर्मणे । स्वबन्धनविमोचकाय । यज्ञारये ।
कामारये । महादंष्ट्राय । सायुधाय । बहवे ? । अनिन्दिताय ।
शर्वाय । शङ्कराय । शम्बराय । धराय । अमरेशाय । महादेवाय ।
विश्वरूपाय । सुरारिघ्ने । निवृत्तये । अहिर्बुध्न्याय ।
चेकितानाय नमः । ५२०
ॐ हरये नमः । प्रजैकपार्श्वाय । कापालिने । त्रिरङ्कुराय ।
जिताशिषाय । धन्वन्तरये । धूम्रकेतवे । स्कन्दाय । वैश्रवणाय ।
दात्रे । शक्ताय । विष्णवे । मित्राय । त्वष्ट्रे । ध्रुवाय । वसवे ।
प्रभोग्राय ? । सर्वगाय । वयवे । अनामसहिताय नमः । ५४०
ॐ रवये नमः । उदयाय । विधात्रे । मान्धात्रे । भूतभावनाय ।
अतितीक्ष्णाय । वागीशाय । सर्वकामगुणावहाय । पद्मवक्त्राय ।
महाचक्त्राय । चन्द्रवक्त्राय । मनोरमाय । वलवते । शान्ताय ।
पुराणपुण्यचञ्चुरिणे । कुरुकर्त्रे । कालरूपिणे । कुरुभूताय ।
महेश्वराय । सर्वेशानाय नमः । ५६०
ॐ दर्भशायिने नमः । सर्वेषां प्राणिनां पतये । देवदेवमुखासक्ताय ।
सते । असते । सर्वरत्नजिते । कैलासशिखरारूढाय ।
हिमवद्गिरिसंश्रयाय । कुलाहारिणे ? । कुलोकर्त्रे ? । बहुबीजाय ।
बहुप्रदाय । वाणिज्यवर्धनाय । वृद्धाय । नकुलाय । दरच्छदाय ।
सारग्रीवाय । महाराजरलोलाय ? । महौषधाय ।
सिद्धार्थकारिणे नमः । ५८०
ॐ सिद्धार्थाय नमः । छन्दसे । व्याकरणाय । सिंहनादाय ।
सिंहदंष्ट्राय । सिंहगाय । सिंहवाहनाय । प्रभावात्मने । जगत्कर्त्रे ।
तालिने । लोकहिताय । तरवे । सारङ्गाय । वक्त्राङ्गाय । केतुमलिने ।
स्वभावनाय । भूताशयाय । भूतपतये । अहोरात्रिमुनिन्दिताय ? ।
वासवाय नमः । ६००
ॐ सर्वभूतानां निलयाय नमः । विभवे । भुवाय । अमोघाय ।
सङ्गताय । ज्याश्वाय ? । योजनाय । प्राणधारणाय । धृतिमते ।
धर्मधृशे । दक्षाय । संस्कृताय । युगाधिपाय । गोपालाय ।
गोयुधि ग्राह्याय । गोचर्मवसनाय । हराय । हिरण्यबाहवे ।
गुरुपालप्रवेशिताय । प्रतिष्ठायै नमः । ६२०
ॐ महाहर्षाय नमः । जितकामाय । जितेन्द्रियाय । गान्धाराय ।
सुरालाय ? । तपःकर्मरतये । वराय । महागीताय । महानृत्याय ।
अप्सरोगणसेविताय । महाकेतवे । धनुषे । धात्रे । नैकतालाय ।
चराचराय । अवेदनीयाय । आवेशाय । सर्वगन्धाय । सुखावहाय ।
तोरणाय नमः । ६४०
ॐ स्तूरणाय नमः । वायवे । परिधावति चैकताय ? । संयोगाय ।
वर्द्धनाय । वृद्धाय । महावृद्धाय । गणाधिपाय । वसवे ।
आवर्द्धनाय । वृद्धाय । नित्यश्रेष्ठाय । महापथाय । शिरोहारिणे ।
विमर्शिने । सर्वलक्षणलक्षिताय । अक्षराय । अक्षराय । योगिने ।
सर्वयोगिने नमः । ६६०
ॐ महाबलाय नमः । समाप्रायाय ? । समाप्रायतीर्थदेवाय
? । महाद्युतये । निर्जीवाय । जीवनाय । मन्दाय । निन्दाय ? ।
वटुककर्कशाय । रत्नप्रभूताय । रत्नाङ्गाय । महार्णवनिनादभृते ।
मूलाय । विशाखाय । अमृताय । व्यक्ताव्यक्ताय । तपोनिधये ।
आरोहणाय । निरोहाय । शैलहारिणे नमः । ६८०
ॐ महातपसे नमः । मीनकल्पाय । महाकल्पाय । युगायुगहराय ।
हरये । युगरूपाय । महारूपाय । पवनाय । गहनाय । नगाय ।
न्यायनिर्वापणाय । पादपरिताय ? । अचलोपमाय । बहुमालाय ।
महामालाय । सुमालाय । बहुलोचनाय । विस्ताराय । लवणाकाराय ।
कुसुमाय नमः । ७००
ॐ सफलोदयाय नमः । वृषभाय । वृषभोग्राङ्गाय । मणिजिह्वाय ।
जटाधराय । दण्डाय । विसर्गाय । सुमुखाय । सदासर्वायुधासहाय ।
निवेशनाय । सुधन्वने । युगाधाराय । महाहनवे । गन्धमालिने ।
भगवते । सर्वकर्मणां उत्पाताय । मन्थानाय । बहुलाय । बाहवे ।
सकलाय नमः । ७२०
ॐ सर्वलोचनाय नमः । नरस्तालिने । करस्तालिने । दुष्टसंहननाय ।
महते । छन्नपत्राय । सुविख्याताय । भवते सर्वलोकाश्रयाय ।
मुण्डाय । विरूपबहुलाय । चण्डमुण्डाय । विकर्षणाय । हर्यक्षाय ।
ककुभाय । यत्नाय । दीप्तजिह्वाय । सहस्रपादे । सहस्रमूर्ध्ने ।
देवेन्द्राय । सर्वदेवमयाय नमः । ७४०
ॐ गुरवे नमः । सहस्रबाहवे । सूर्याग्राय । स्वाराण्यां? सर्वलोककृते ।
त्रिपत्राय । त्रिमधवे । मन्त्राय । कनिष्टाय । कृष्णपिङ्गलाय ।
ब्रह्मदण्डविनिर्घात्रे । शतघ्निने । शतपाशभृते । पद्मगर्भाय ।
महागर्भाय । वज्रगर्भाय । जलोद्भवाय । गभस्तिने । ब्रह्मकृते ।
ब्रह्मणे । ब्रह्मकृते नमः । ७६०
ॐ ग्राहिणाय नमः । गतये । ऊर्द्ध्वगात्मने । पशुपतये ।
वातरंहाय । मनोजवाय । अनन्तरूपाय । नैकात्मने । तिग्मतेजसे ।
आत्मसम्भवाय । पद्मजाय । पद्ममालाग्र्याय । त्वगन्याय । अन्तरगाय ।
अन्तताय । कर्णिकारमहास्रग्विने । नीलनौमिने ? । पिनाकधृषे ।
सर्वपार्श्वमुखाय । तार्क्ष्याय नमः । ७८०
ॐ धर्मसाधारणाय नमः । धराय । चराचरात्मने । सूर्यात्मने ।
स्ववृषाय । गोवृषेश्वराय । साध्याय । सुराध्यक्षाय ।
विवस्वते । सवित्रे । सृताय । न्यायसर्वस्याय । सम्क्षेपाय ।
विस्तारपरमोदयाय । कालीपतये । उमाकान्ताय । जाह्नव्यै । त्रिदशां
वराय । वराय । वराहाय नमः । ८००
ॐ वरदाय नमः । वनेशाय । महास्वनाय । महाप्रसादाय । अनघाय ।
शत्रुघ्ने । श्वेतपिङ्गलाय । प्रीतात्मने । प्रीयतात्मने ? ।
संयतात्मने । प्रधानधृषे । ऋतवे । संवत्सराय । मासाय ।
पक्षाय । संस्थायै । ससायकाय ? । कलाकाष्ठायै । लवायै ।
मात्रायै नमः । ८२०
ॐ मुहूर्त्त्रायै नमः । रक्षपक्षणाय । विश्वक्षेत्राय । प्रभायै ।
बीजलिङ्गाय । आद्याय । अनिर्मिताय ? । सते । असते । व्यक्ताय ।
अव्यक्ताय । पित्रे । मात्रे । पितामहाय । स्वर्गद्वाराय । प्रजाद्वाराय ।
मोक्षद्वाराय । त्रिविष्टपाय । निर्वाणाय । ह्लादनाय नमः । ८४०
ॐ ब्रह्मलोकपरागतये नमः । देवासुरविनिर्मात्रे । देवासुरपरयणाय ।
देवासुरगुरवे, देवाय । देवासुरनमस्कृताय । देवासुरमहामात्राय ।
देवासुरमहाश्रयाय । देवासुरगणाध्यक्षाय । देवासुरगणाग्रण्ये ।
देवादिदेवाय । देवार्षये । देवासुरसुपूजिताय । देवासुरेश्वराय ।
देवाय । देवासुरमहेश्वराय । सर्वदेवमयाय । अचिन्त्याय । दैवताय ।
आत्मसम्भवाय । उद्भवाय नमः । ८६०
ॐ विक्रमाय नमः । वैद्याय । विरजाय । विरजां वराय । दग्राय ।
हस्तिने । सुरव्याघ्राय । देवसिंहाय । नरर्षभाय । विबुधाग्रचराय ।
श्रेष्ठाय । सर्वदेवोत्तमोत्तमाय । गुरवे । कान्ताय । अजिताय ।
सर्गाय । पवित्राय । सर्ववाहनाय । प्रयुक्ताय । शोभनाय नमः । ८८०
ॐ वक्त्राय नमः । देवेशाय । प्रभवे । अव्ययाय । शृङ्गाय ।
शृङ्गप्रदाय । बभ्रवे । राजराजाय । निरामयाय । अविरामाय ।
सुरगणाय । विरामाय । सर्वसाधनाय । ललाटाक्षाय । विश्वदेहाय ।
हरण्यै । ब्रह्मवर्चसिने । स्थावराणां पतये । नियमेन्द्रियवर्धनाय ।
सिद्धार्थाय नमः । ९००
ॐ सर्वभूतार्थाय नमः । नित्याय । सत्यव्रताय । शुचये ।
व्रतादिपरमाय । ब्रह्मणे । मुक्तानां परमागतये । विमुक्ताय ।
दीप्ततेजसे । श्रीमते । श्रीवर्धनाय । अग्रजाय । श्मशानकालाय ।
देवेशाय । भूतेशाय । प्रमथाधिपाय । भद्ररूपाय । कालदेवाय ।
भूतसंहारकारकाय । कालीनाथाय नमः । ९२०
ॐ भूतनाथाय नमः । शर्वाय । पशुपतये । मृडाय । भद्रनाथाय ।
कालीनाय । सर्वभक्षकभक्षकाय । सृष्टिस्थितिस्थरूपाय ।
भूतभृते । भूतभावनाय । माम्साशनाय । बहुरूपाय । क्रूररूपाय ।
कपालभृते । सर्वेश्वराय । सर्वरुद्राय । कालीकमलमध्यगाय ।
द्रीं द्रीं हूं हूं कलरूपाय । चिन्तामण्डलमध्यगाय । क्रीं क्रीं हूं
हूं मुण्डधारिणे नमः । ९४०
ॐ मुण्डमालाधराय नमः । शिवाय । ९४२
इति श्रीविश्वसारे कालीसर्वस्वे महाकलसहस्रनामस्तोत्राधारा
श्रीमहाकालसहस्रनामावलिः समाप्ता ।
Based on the stotra, there are 942 names found.
The stotra has been copied from a manuscript.
There are several names/words which are doubtful and have
been marked with '?'. Scholars who go through this text are
requested to send corrections to (sanskrit at cheerful dot c om).