श्रीमहाकालसहस्रनामस्तोत्रम् २

श्रीमहाकालसहस्रनामस्तोत्रम् २

ॐ श्रीगणेशाय नमः । श्रीः । ॐ नमश्चण्डिकायै । अथ महाकालसहस्रनाम लिख्यतेऽधुना । ॐ ईश्वर उवाच - अधुना देवि वक्ष्यामि सहस्रनाममुत्तमम् । महाकालस्य देवेशि स्तोत्रं परमदुर्लभम् ॥ १॥ सारासारतरं देवि पवित्राणां च पावनम् । गुह्यानामपि गुप्तं च सर्वश्रेयस्करं परम् ॥ २॥ सारस्वतप्रदं चैव शत्रुनाशकरं परम् । सर्वसम्पत्प्रदं चैव महारोगनिबर्हणम् । महोत्पातप्रशमनं मूलविद्यामनोहरम् ॥ ३॥ अस्य श्रीमहाकालसहस्रनामस्तोत्रमहामन्त्रस्य दक्षिणाक ऋषिः । विराट्छन्दः । श्रीकालीसहितो महाकालो देवता । हूं बीजं, ह्रीं शक्तिः, स्वाहा कीलकं, धर्मार्थकाममोक्षार्थे जपे पाठे विनियोगः । अथ ध्यानम् । श्मशानस्थो महारुद्रो महाकालो दिगम्बरः । कपालकर्त्तृका वामे शूलं खट्वाङ्गदक्षिणे ॥ १॥ भुजङ्गभूषिताङ्गोऽपि भस्मास्थिमणिमण्डितः । ज्वलत्पावकमध्यस्थो भस्मशय्याव्यवस्थितः ॥ २॥ विपरीतरतां तत्र कालिकां हृदयोपरि । पेयं खाद्यं च चोष्यं च तौ कृत्वा तु परस्परम् ॥ ३॥ एवं भक्त्या जपेद्देवि सर्वसिद्धिः प्रजायते । इति ध्यानम् । अथ सहस्रनामस्तोत्रम् । ॐ महाकालो भैरवेशो भैरवो भीमविक्रमः । श्मशानशायी मांसाशी भस्मोद्धूलितविग्रहः ॥ १॥ कपालधारी मुण्डेशी शूलधारी त्रिलोचनः । एकनेत्रो विरूपाक्षो स्वरूपाक्षो जितेन्द्रियः ॥ २॥ विकरालः कालरूपो नागरूपधरो शिवः । कालीप्रियो करालाक्षो विश्वरूपश्च शत्रुजित् ॥ ३॥ रुद्रेश्वरो विघ्ननाशो भयनाशः प्रभाकरः । त्रिलोकेशो दक्षरूपो शान्तो शान्तजनप्रियः ॥ ४॥ उग्रः कपाली कौमारी शत्रुनाशकरो मृडः । शिपिविष्टो विश्वनथो स्वामीशो नीललोहितः ॥ ५॥ गङ्गाधरो ललटाक्षः कालकालः कृपानिधिः । भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ॥ ६॥ मृडो पशुपतिर्देवो महादेवोऽव्ययो हरिः । पुष्पदन्तो भिदव्यग्रो दक्षाध्वरहरो हरः ॥ ७॥ भगनेत्रभिदव्यक्षः सहस्राक्षः सहस्रपात् । अपवर्गप्रदोऽनन्तस्तारकः परमेश्वरः ॥ ८॥ वमदेवो महदेवः महापरिवृढो दृढः । विश्वरूपो विरूपाक्षो वागीशस्तुतिमन्थरः ॥ ९॥ दर्शः पिनाकी खट्वाङ्गी चित्रवेशश्चिरन्तनः । मनोहरो महत्यागी शिरो बृह्मोङ्ग?धूर्जटिः ॥ १०॥ कालकालः कृत्तिवासाः सुभगो प्राणवात्मनः? । नागचूडो सुचक्षुषो दुर्वासाः स्मरशासनः ॥ ११॥ दृढायुधः स्कन्दगुरुः परमेष्ठी परायणः । त्रिलोचनो ज्वलन्नेत्रो त्रिशिखी च त्रिलोकपात् ॥ १२॥ विशलाक्षो मृगीन्द्रास्यः सुरथः सूर्यतापनः । धर्मधाम क्षमाक्षेत्रो भगवान् भगहा तथा ॥ १३॥ उग्रः पशुपतिस्तार्क्ष्यः प्रियभर्ता प्रियम्वदः । दाता दयाकरो दक्षः कपर्दी काममर्दनः ॥ १४॥ लोककर्ता भूतपतिः महाकर्मा महोषधिः । उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ॥ १५॥ नीतिः सुनीतिः शुद्धात्मा सोमः सोमरतः सुधीः । सोमपोऽमृतपसौम्यो मोहहारी महाद्युतिः ॥ १६॥ लोककारो वेदकारः सूत्रकारः सनातनः । महर्षिः कपिलाचार्यः विश्वदीप्तिर्विलोचनः ॥ १७॥ पिनाकपाणिर्भूदेवः स्वस्तिकृत्स्वस्तिदायकः । धात्री दामकरः सर्वः सर्वज्ञः सर्वगोचरः ॥ १८॥ शाखो विशाखो गोशाखःः शिवानेकः क्रतूत्तमः । गङ्गोद्भवोदको भव्यः पुष्कलः स्थपतिप्रियः ॥ १९॥ विजितात्मा विधेयात्मा भूतभावनसरथिः ॥ २०॥ भस्मप्रियो भस्मशायी कामी कान्तः कृतागमः । क्षमायुक्तो निर्वृतात्मा धर्मयुक्तः सदाशिवः ॥ २१॥ चतुर्मुखश्चतुर्बाहुः सर्वावासो दुरासदः । दुर्लभो दुर्गमो दुर्गः सर्वायुधविशारदः ॥ २२॥ शुभाङ्गो योगसारङ्गो जगदीशो जनार्दनः । भस्मशुद्धिकरो मेरुरोलम्बी? शुद्धविग्रहः ॥ २३॥ हिरण्यरेतास्तरणिर्भस्माङ्गो भस्मरूपधृक् । महाहृदो महागर्त्तः सिद्धवृन्दारवन्दितः ॥ २४॥ अमृतेशोऽमृतवपुः दण्डो दमयिता दमः । तपस्वी तारको धीमान् प्रधानप्रभवोऽव्ययः ॥ २५॥ राहुः सूर्यः शनिः केतुः विरामो विद्रुमः छविः । भक्तिगम्यः परम्ब्रह्म परमात्मा जगत्प्रभुः ॥ २६॥ सर्वकामावलम्बश्च मङ्गल्यो मङ्गलावृतः । महातपा दीर्घतपाः स्थविष्ठः स्थविरो ध्रुवः ॥ २७॥ अहः संवत्सरो व्याप्तिः प्रणामः परमस्तपः । संवत्सकरो मन्त्रः प्रत्ययः सर्वदर्शनः ॥ २८॥ अजः सर्वेश्वरस्सिद्धो महारेता महाबलः । योगयोग्यो महादेवः सर्वादिसिद्धिरग्निदः ॥ २९॥ वसुर्वसुमनास्सत्यः सर्वपापहरो मृडः । अमृतश्शाश्वतश्शान्तो वीणाहस्तः प्रतापवान् ॥ ३०॥ कमण्डलुधरो दर्वी वेदाङ्गो वेदविन्मुनिः । भ्राजिष्णुर्भोजनं भोक्ता लोकनेत्रः पुरन्दरः ॥ ३१॥ अतीन्द्रियो महामयः सर्वावस्थाश्चतुष्पथः । कालयोगी महायोगी महोत्साहो महावलः ॥ ३२॥ महाबुद्धिर्महावीर्यो भूतचारी पुरन्दरः । निशाचरः प्रेतचारी भूतपो योगिनीपतिः ॥ ३३॥ दैत्यप्रियो नृत्तचित्तः दैत्यानाशकरो परः । दुर्लभो दुर्जयशशत्रुबलजिद्बलवत्सखः ॥ ३४॥ प्रेजश्वरः कलानाथो शेषशायी विलोचनः । उन्मत्तनेत्रः कपिलो धूसरो धूम्रलोचनः ॥ ३५॥ रक्तप्रियो रक्तनेत्रः वक्रतुण्डपिता वशी । भूतेशो भूतनाथश्च भूतभैरवपालकः ॥ ३६॥ प्रेतालयः प्रेतभूमिपालको रक्षकप्रियः । रावस्थो? वा चितास्थो वा चिताधूम्रप्रपालकः ॥ ३७॥ यक्षेशो यक्षराट् गुह्यो यक्षभैरवसेवितः । यज्ञकर्ता च यज्ञेशो यज्ञसुन्दरपालकः ॥ ३८॥ देवदत्तस्वरूपात्मा देवानां प्रियकारकः । भूतेश्वरो भूतदेहो भूतनाथसुखाश्रयः ॥ ३९॥ आकाशगामी भ्राजिष्णुर्देवो मानुषभक्षकः । इष्टो विशिष्टः शिष्टेष्टः शरभः शलभो धनुः ॥ ४०॥ अपां निधिरधिष्ठानो विजयो जयकालवित् । प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो हरिः ॥ ४१॥ विमोचितासुरगणः विद्येशो विद्युताश्रितः । बलरूपो बलोन्माथी विहितं गुहरो? गुहः ॥ ४२॥ करणं कारणं कर्ता सर्वबन्धविमोचितः । व्यवसायो व्यवस्थानः स्वानन्दो जगदादृतः ॥ ४३॥ दुर्लभो ललितो विश्वो भावात्माऽऽत्मनि संस्थितः । वीरेश्वरो वीरभद्रः वीरासनविधिर्विराट् ॥ ४४॥ वीरचूडामणिर्वेत्ता तीव्रानन्दो नटीश्वरः । मज्जाधरः त्रिशूलाङ्कः शिपिविष्टः शिवाश्रयः ॥ ४५॥ वालखिल्यो माहश्चर्यो तिग्मांशुर्बलिभित्खगः । अभिरामश्शरण्यश्च ब्रह्मण्यश्च सुधामराट् ॥ ४६॥ मघवा कौशिको धीमान्विरामः सर्वशासनः । ललाटाक्षः पिङ्गदेहः सर्वसंसारचक्रभृत् ॥ ४७॥ अमोघदण्डमध्यस्थो हिरण्यब्रह्मवर्चसी । परमार्थः परपदः शम्भरो व्यग्रको? परः ॥ ४८॥ रविर्विरोचनः स्कन्धः शास्ता वैवस्वतो यमः । भक्तिरुन्नतकीर्तिश्च शान्तरागः पराजयः ॥ ४९॥ कैलसपतिकावर्णः सविता रविलोचनः । सूर्यः तपः शशीनाथो दिननाथः प्रतापवान् ॥ ५०॥ भीषणो भारक्रान्तश्च महोग्रो विश्वरूपधृक् । अक्रूरः क्रूररूपश्व कमनीयः कलानिधिः ॥ ५१॥ नित्यं नियतकल्याणः पुण्यश्रवणकीर्त्तनः । दुरामेध्यो? विश्वसहो ध्येयो दुस्स्वप्ननाशनः ॥ ५२॥ उत्तारको दुष्कृतहा दुर्विषो विहरोदयः? । मतादिभूर्भुवो लक्ष्मीः किरीटी त्रिदशाधिपः ॥ ५३॥ विश्वगोप्ता विश्वकर्ता सुवीरो रुचिराङ्गदः । पद्ममेरुः पद्मगर्भः विश्वगर्भो विचक्षणः ॥ ५४॥ परावरज्ञो वीरेशः सुमुखः सुमुखास्वतः? । देवासुरगुरुर्देवो देवासुरनमस्कृतः ॥ ५५॥ देवादिदेवो देवेशो देवासुरमहेश्वरः । सर्वदेवमयोऽचिन्त्यो देवतान्तस्समुद्भवः ॥ ५६॥ ईड्योऽनीशः सुव्यग्रो देवसिंहो दयाकरः । नन्दी नन्दीश्वरो नग्नो नम्रो व्रतधरश्शुचिः ॥ ५७॥ लिङ्गाध्यक्षः सुराध्यक्षो युगरूपो युगावहः । स्ववशः स्वर्गतास्वर्यः सारस्वतमहास्वतः ॥ ५८॥ सर्वभूतमहाम्भोधः? सर्वभूतमहेश्वरः । श्मशाननिलयस्त्वष्टा केतुरप्रतिमाकृतिः ॥ ५९॥ लोकोत्तरः स्फुटालोकस्त्र्यम्बको नगभूषणः । अन्धकारसुखद्वेष्टिर्विश्मुको?ऽधर्मपातनः ॥ ६०॥ वीतदोषः त्रयगुणैर्दक्षारिपूतदन्तभिद् । धूर्जटिः खण्डपरशुः रागाङ्गो विमृडो नरः ॥ ६१॥ पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः । बान्धवो बन्धुकर्मा च स्वबन्धनविमोचकः ॥ ६२॥ स यज्ञारिः स कामारिः महादंष्ट्रः स सायुधः । बहु?स्त्वनिन्दितः शर्वः शङ्करश्शम्बरो धरः ॥ ६३॥ अमरेशो महादेवो विश्वरूपः सुरारिहा । निवृत्तिश्चाहिर्बुध्न्यश्चेकितानो हरिस्तथा ॥ ६४॥ प्रजैकपार्श्वः कापाली त्रिरङ्कुरं जिताशिषः । धन्वन्तरिर्धूम्रकेतुः स्कन्दो वैश्रवणस्तथा ॥ ६५॥ दाता शक्तश्व विष्णुश्च मित्रस्त्वष्टा ध्रुवो वसुः । प्रभोग्रः? सर्वगो वयुरनामसहितो रविः ॥ ६६॥ उदयश्च विधाता च मान्धाता भूतभावनः । अतितीक्ष्णश्च वागीशः सर्वकामगुणावहः ॥ ६७॥ पद्मवक्त्रो महाचक्त्रः चन्द्रवक्त्रो मनोरमः । वलवान् चैव शान्तश्च पुराणः पुण्यचञ्चुरी ॥ ६८॥ कुरुकर्ता कालरूपी कुरुभूतो महेश्वरः । सर्वेशानो दर्भशायी सर्वेषां प्राणिनां पतिः ॥ ६९॥ देवदेवमुखासक्तः सदसत्सर्वरत्नजित् । कैलासशिखरारूठः हिमवद्गिरिसंश्रयः ॥ ७०॥ कुलाहरी? कुलोकर्ता? बहुबीजो बहुप्रदः । वाणिज्यवर्धनो वृद्धो नकुलश्च दरच्छदः ॥ ७१॥ सारग्रीवो महाराजरलोलश्च? महौषधः । सिद्धार्थकारी सिद्धार्थः छन्दो व्याकरणस्तथा ॥ ७२॥ सिंहनादः सिंहदंष्ट्रः सिंहगस्सिंहवाहनः । प्रभावात्मा जगत्कर्ता ताली लोकहितस्तरुः ॥ ७३॥ सारङ्गो नच?वक्त्राङ्गः केतुमली स्वभावनः । भूताशयो भूतपतिरहोरात्रिर्मुनिन्दितः? ॥ ७४॥ वासवस्सर्वभूतानां निलयश्च विभूर्भुवः । अमोघो सङ्गतो ज्याश्वो? योजना प्राणधारणः ॥ ७५॥ धृतिमान् धर्मधृक्दक्षः संस्कृतश्च युगाधिपः । गोपालो गोयुधि ग्राह्यो गोचर्मवसनो हरः ॥ ७६॥ हिरण्यबाहुश्च तथा गुरुपालप्रवेशितः । प्रतिष्ठा यो? महाहर्षो जितकामो जितेन्द्रियः ॥ ७७॥ गान्धारश्च सुरालश्च? तपःकर्मरतिर्वरः । महागीतो महानृत्यो ह्यप्सरोगणसेवितः ॥ ७८॥ महाकेतुर्धनुर्धाता नैकतालश्चराचरः । अवेदनीय आवेशः सर्वगन्धस्सुखावहः ॥ ७९॥ तोरणो स्थूरणो वायुः परिधावति? चैकतः । संयोगो वर्द्धनो वृद्धो महावृद्धो गणाधिपः ॥ ८०॥ वसुरावर्द्धनो वृद्धो नित्यश्रेष्ठो महापथः । शिरोहारी विमर्शी च सर्वलक्षणलक्षितः ॥ ८१॥ अक्षरा चाक्षरो योगी सर्वयोगी महाबलः । समाप्राया समाप्राय?तीर्थदेवो महाद्युतिः ॥ ८२॥ निर्जीवो जीवनो मन्दो निन्दो? वटुककर्कशः । रत्नप्रभूतो रत्नाङ्गो महार्णवनिनादभृत् ॥ ८३॥ मूलो विशाखो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः । आरोहणो निरोहश्च शैलहारी महातपाः ॥ ८४॥ मीनकल्पो महाकल्पो युगायुगहरो हरिः । युगरूपो महारूपः पवनो गहनो नगः ॥ ८५॥ न्यायनिर्वापणो पादपरितो? ह्यचलोपमः । बहुमालो महामलः सुमालो बहुलोचनः ॥ ८६॥ विस्तारो लवणसरः कुसुमो सफलोदयः । वृषभः वृषभो वाङ्गो मणिजिह्वो जटाधरः ॥ ८७॥ दण्डो विसर्गस्सुमुखः सदासर्वायुधासहः । निवेशनः सुधन्वा च युगाधारो महाहनुः ॥ ८८॥ गन्धमाली च भगवानुत्पातस्सर्वकर्मणाम् । मन्थानो बहुलो बाहुः सकलस्सर्वलोचनः ॥ ८९॥ नरस्ताली करस्ताली दुष्टसंहननो महान् । छन्नपत्रस्सुविख्यातः सर्वलोकाश्रयो भवान् ॥ ९०॥ मुण्डो विरूपबहुलो चण्डमुण्डो विकर्षणः । हर्यक्षः ककुभो यत्नो दीप्तजिह्वा सहस्रपात् ॥ ९१॥ सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः । सहस्रबाहुः सूर्याग्रः स्वाराण्यां? सर्वलोककृत् ॥ ९२॥ त्रिपत्रस्त्रिमधुर्मन्त्रः कनिष्ठा कृष्णपिङ्गलः । ब्रह्मदण्डविनिर्घाता शतघ्नी शतपाशभृत् ॥ ९३॥ पद्मगर्भो महागर्भो वज्रगर्भो जलोद्भवः । गभस्ती ब्रह्मकृद्ब्रह्मा ब्रह्मकृद्ग्राहिणो गतिः ॥ ९४॥ ऊर्द्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः । अनन्तरूपो नैकात्मा तिग्मतेजाऽऽत्मसम्भवः ॥ ९५॥ पद्मजो पद्ममालाग्र्य त्वगन्योऽन्तरगोऽन्तगः । कर्णिकारमहास्त्रग्वी नीलनौमि? पिनाकधृक् ॥ ९६॥ सर्वपार्श्वमुखस्तार्क्ष्यो धर्मसाधारणो धरः । चराचरात्मा सूर्यात्मा स्ववृषो गोवृषेश्वरः ॥ ९७॥ साध्यो क्षोव?सुराध्यक्षो विवस्वान् सविता सृतः । न्यायसर्वस्य सम्क्षेपो विस्तारपरमोदयः ॥ ९८॥ कालीपतिरुमाकान्तो जाह्नवी त्रिदशां वरः । वरो वराहो वरदो वनेशश्च महास्वनः ॥ ९९॥ महाप्रसादस्त्वनघश्शत्रुहा श्वेतपिङ्गलः । प्रीतात्मा च प्रीयतात्मा संयतात्मा प्रधानधृक् ॥ १००॥ ऋतुस्संवत्सरो मासः पक्षस्संस्था ससायकः? । कलाकाष्ठा लवा मात्रा मुहूर्त्ता रक्षपक्षणः? ॥ १०१॥ विश्वक्षेत्रं प्रभा बीजलिङ्गमाद्यस्त्वनिर्मिताः? । सदसद्व्यक्तमव्यक्त्रं पिता माता पितामहः ॥ १०२॥ स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् । निर्वाणं ह्लादनं चैव ब्रह्मलोकपरागतिः ॥ १०३॥ देवासुरविनिर्माता देवासुरपरयणः । देवासुरगुरुर्देवो देवासुरनमस्कृतः ॥ १०४॥ देवासुरमहामात्रो देवासुरमहाश्रयः । देवासुरगणाध्यक्षो देवासुरगणाग्रणीः ॥ १०५॥ देवादिदेवो देवार्षेर्देवासुरसुपूजितः । देवासुरेश्वरो देवो देवासुरमहेश्वरः ॥ १०६॥ सर्वदेवमयोऽचिन्त्यो दैवतश्चात्मसम्भवः । उद्भवो विक्रमो वैद्यो विरजो विरजां वरः ॥ १०७॥ दग्रो हस्ती सुरव्याघ्रो देवसिंहो नरर्षभः । विबुधाग्रचरः श्रेष्ठः सर्वदेवोत्तमोत्तमः ॥ १०८॥ गुरुः कान्तोऽजितस्सर्गः पवित्रस्सर्ववाहनः । प्रयुक्तश्शोभनो वक्त्रो देवेशः प्रभुरव्ययः ॥ १०९॥ श‍ृङ्गो श‍ृङ्गप्रदो बभ्रुः राजराजो निरामयः । अविरामः सुरगणो विरामस्सर्वसाधनः ॥ ११०॥ ललाटाक्षो विश्वदेहो हरणी ब्रह्मवर्चसी । स्थावराणां पतिश्चैव नियमेन्द्रियवर्धनः ॥ १११॥ सिद्धार्थस्सर्वभूतार्थो नित्यस्सत्यव्रतश्शुचिः । व्रतादिपरमं ब्रह्म मुक्तानां परमागतिः ॥ ११२॥ विमुक्तो दीप्ततेजाश्च श्रीमान् श्रीवर्धनोऽग्रजः । श्मशानकालो देवेशो भूतेशः प्रमथाधिपः ॥ ११३॥ भद्ररूपः कालदेवो भूतसंहारकारकः । कालीनाथो भूतनाथः शर्वः पशुपतिर्मृडः ॥ ११४॥ भद्रनाथश्च कालीनस्सर्वभक्षकभक्षकः । सृष्टिस्थितिस्थरूपश्च भूतभृद्भूतभावनः ॥ ११५॥ माम्साशनो बहुरूपः क्रूररूपः कपालभृत् । सर्वेश्वरः सर्वरुद्रः कालीकमलमध्यगः ॥ ११६॥ द्रीं द्रीं हूं हूं कलरूपः चिन्तामण्डलमध्यगः । क्रीं क्रीं हूं हूं मुण्डधारी मुण्डमालाधरश्शिवः ॥ ११७॥ इति नाम्नां सहस्रं ते महाकालस्य भाषितम् । सर्वरोगहरं देवि परमैश्वर्यकारणम् ॥ ११८॥ सर्वागमरहस्योऽयं स्तोत्रं परमदुर्लभम् । सर्वसिद्धिप्रदं साक्षात्सिद्धिदं पापनाशनम् ॥ ११९॥ महाभयहरं देवि भोगमोक्षैककारणम् । समस्तशोकशमनं सर्वविद्याप्रदं शिवे ॥ १२०॥ महापातककोटिघ्नं कलौ सिद्धिप्रदं शिवे । इदं नामसहस्रं तु ब्रह्मलोकेषु दुर्लभम् ॥ १२१॥ तव प्रीत्या मयाऽऽख्यातं गोपनीयं स्वयोनिवत् । तव नाम्नि श्रुते देवि सर्वयज्ञफलं लभेत् । सर्वपापक्षयकरं वाञ्छितं चैव सिध्यति ॥ १२२॥ नश्यन्ति पठनादस्य स्तोत्रमन्त्रस्य भावतः । यं यं करोति सततं तं तं प्राप्नोति नित्यशः ॥ १२३॥ इदं नामसहस्रं तु भक्तिश्रद्धासमन्वितः । शनिवरे श्मशाने तु पूजां कुर्यान्नरोत्तमः ॥ १२४॥ ततो दशांशतो कुर्यात्सुरातर्पणमेव च । पायसेनाज्यहोमेन नखकेशेन पार्वति ॥ १२५॥ न देयमन्यशिष्याय शठाय दुर्जनाय च । देयं शिष्याय शान्ताय कुलीनाय सुपुत्रिणे ॥ १२६॥ भक्तियुक्ताय देवेशगुरुभक्तिपराय च । विना दानं न गृह्लीयान्न दया दक्षिणां विना ॥ १२७॥ दत्वा गृहीत्वा तूभयोः सिद्धिहानिर्भवेद्ध्रुवम् । इदं नामसहस्रं तु परं परमकारणम् ॥ १२८॥ रहस्यानां रहस्यं च पवित्राणां पवित्रकम् । गोप्यं गुह्यतमं गोप्यं गोपनीयं मुमुक्षुभिः ॥ १२९॥ इति श्रीविश्वसारे कालीसर्वस्वे महाकलसहस्रनाम स्तोत्रं सम्पूर्णम् ॥ शुभमस्तु The stotra has been copied from a manuscript. There are several names/words which are doubtful and have been marked with '?'. Scholars who go through this text are requested to send corrections to (sanskrit at cheerful dot c om). Encoded by Sivakumar Thyagarajan shivakumar24 at gmail Proofread by Sivakumar Thyagarajan, PSA Easwaran
% Text title            : Shri Mahakala Sahasranama Stotram 2
% File name             : mahAkAlasahasranAmastotram2.itx
% itxtitle              : mahAkAlasahasranAmastotram 2 (vishvasAratantrAntargatam mahAkAlo bhairavesho)
% engtitle              : mahAkAlasahasranAmastotram 2
% Category              : shiva, sahasranAma
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan shivakumar24 at gmail
% Proofread by          : Sivakumar Thyagarajan, PSA Easwaran
% Description-comments  : vishvasAre kAlIsarvasve. See corresponding Namavali
% Indexextra            : (Manuscript, nAmAvalI)
% Latest update         : August 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org