नारदवेदादिसुराणांविरचिता महेश्वरतुष्टिकरणस्तुतिः

नारदवेदादिसुराणांविरचिता महेश्वरतुष्टिकरणस्तुतिः

नारदः - हर हर पुरहर भवाब्धिपार स्मरहर शङ्कर तार्य पार्य वार्य । गरकन्धर भूधरोरुमाल धृतशूलावृतकाल बालपाल ॥ २२॥ शशिखण्डशिखण्डमण्डने विधिमुण्डामलहस्तमण्डले । धृतनागसुकुण्डलोरुगण्डे त्वयि चेतो विदधामि शङ्करे ॥ २३॥ साङ्गोपनिषदो वेदास्तदा तुष्टुवुरीश्वरम् । ऋग्वेदः - सकलामरतुल्यमेकमीशं भगवन्तं मनुते विमूढचेताः । वदतीयं श्रुतिरीश बह्वृचानां मात्वरुद्रवचोगणैर्महेश ॥ २४॥ भवरोगहरौषधप्रधाने भिषजां नायक इत्यपि श्रुतिः । परमंहो गिरिरूपिणोऽपि ये वै भगवंस्त्वं हि जलाषभेषजः ॥ २५॥ यजुर्वेदः - संसारघोरजनितां रुजमाशु चेश सद्यो विनाशय महेश कृपाम्बुराशे । त्वां रुद्रमाहुरखिलागमतत्वसाराः धीरास्त्वदीयचतुरा विनिवृत्तमाराः ॥ २६॥ सत्वानस्तव हे महेश्वर महादेवेति नामामृतैः (स्तुत्वानस्तव) लोकं शोकभयाग्निदग्धतृणकं सिञ्चन्ति वर्षन्ति च । तेभ्यश्चाकरवं प्रणाममधुना वेदोऽपि वक्ति स्वयं त्वद्भक्तेष्व खिलेषु पाहि दयया विश्वेश सर्वस्वया ॥ २७॥ सामवेदः - त्वं सामस्तोमभूमा मदुदितनमसां पात्रमीशस्त्वमाद्यो वैद्यः सर्वैरभेद्यस्त्वधिपतिरिति यत्क्षेत्रमित्रादिवाक्यैः । अन्नानां पतिरेक एव धनपस्त्वां स्तोभगानात्मकैः गीतैर्गायति गानलोल भगवन् सामश्रुतिः शङ्करम् ॥ २८॥ शम्भो शाक्वररैवतैश्च भगवन् वैराजमाहेन्द्रकैः रौद्रैर्देवव्रताद्यैः प्रतिपदनमसां राशिभिः स्तोभगुम्भैः । त्वां स्तव्यं स्तुवते महेश्वर सदा सामश्रुतीनां गणो राजद्राजनहिकृतेः प्रतिपदैराद्यन्तरैर्भूस्कृतैः ॥ २९॥ अथर्वणः - यो वै रुद्रेति मन्त्रैः प्रतिपदनमसां राशिभिस्त्वामतर्क्य तर्कादीनामगम्यं प्रणवपदहितं सूक्ष्मबुद्धयादि पश्यन् । पश्यन्त्येते यमितकरणा वाङ्मनो ज्ञानमात्मा शान्त्या बुद्ध्या प्रसन्नस्त्वमसि हि भगवन्नन्तरायाद्विहीनः ॥ ३०॥ अजातस्त्वं देवः श्रुतिशिखरवर्यैकवचनैः भवानीशो वक्त्रं तव च भव याम्यं भवपरम् । स गच्छेदत्यन्तं जनिमरणनाशाय शरणं शरण्यं शम्भुं त्वां शरणद वरेण्यं प्रभुमहो ॥ ३१॥ ओङ्कारवषट्कारौ - देवस्त्वं नमसां पतिः श्रुतिशतैर्भीत्या नमोन्तैः पदैः आद्यन्तोपरिधारयद्भवहरापारार्थसंसूचकम् । स्तोमं वो छाद्यरुद्रैः श्रुतिपदतिलकैः बह्वृचैस्तैत्तिरीयैः (स्तोमं चोच्चाररुद्रैः) साम्नां देवव्रतानामखिलशिवतरो रत्नभूतस्त्वमीशः ॥ ३२॥ स्वामध्वरे शंसितारः स्तुवन्ति रथन्तरं सामगाश्चोपयं (गां) ति । अध्वर्यवः कल्पयन्ते च भागं सोमात्मकं चाध्वरेश प्रसीद ॥ ३३॥ अपर्णारमणं दृष्ट्वा सुपर्णगतिरुत्तमम् प्राञ्जलिः । श्रीमहेशानं तुष्टाव प्रणतस्तदा ॥ ३४॥ विष्णुः - सोमस्त्वं जनिता जगञ्जनयिता विष्णोस्तथा ब्रह्मणः सुत्राम्णः पवनस्य वह्निजनकः पृथ्वीदिवोः शीतगोः । अर्यम्णो जनकम्त्वमेव भगवन् देवासुराणां पुनः विश्वं त्वद्भवमेव सर्वमधुना वेदोऽपि वक्ति स्वयम् ॥ ३५॥ अग्नीषोममयं जगच्छ्रुतिगणैः सर्वत्र सम्पूज्यते तस्मात्सर्वजगद्गतं च भगवन् वह्निश्च सोमात्मकम् । रुद्रो वा एष चाग्निः श्रुतिपदशतकैर्नाथ एकस्त्वमीड्यः सोमश्चोमामहेश प्रकृतिपुरुषजं विश्वमेतद्विचित्रम् ॥ ३६॥ हंसमन्त्नाक्षरगतं हंसवाहो महेश्वरम् । प्राञ्जली रुद्रमन्त्रैश्च तुष्टाव जगदीश्वरम् ॥ ३७॥ ब्रह्मा - अरुणतरणिसंस्थं ताम्रमाशास्य मीशं नीलग्रीवमुदारदिक्षु सततं रुद्रः सदासंवृतम् । ज्योक् पश्येम सुचक्षुषा सुललितं विश्वेशमत्यादरात् आगोपालघटोदचेटिभिरहो दृश्यं सदा योगिभिः ॥ ३८॥ बभ्रुर्बभ्रुश इत्यपि श्रुतिशतैरुच्चैस्तवमृद्घुष्य से क्रूरान् क्रन्दयसे रिपून् पृतनया पत्रीश जेजीयसे । सत्वानस्तव धीवसे सुखयितुं पापं तदीयं पुनः (धावसे) निश्शेषं सहसे तमीश दयया ज्ञानेन पुष्णासि ताम् ॥ ३९॥ सुकुमारकुमारेण केकिकण्ठैकवाहिना । संस्तुतः परमेशानस्तदा प्राञ्जलिना शिवः ॥ ४०॥ स्कन्दः - त्वत्तो न ओजस्वितरोऽस्ति देवः पतिः पशूनां महिमा प्रतिष्ठः । त्वल्लिङ्गसम्पूजनमात्रतुष्टाः स्यामो रयीणां पतयो वयं हि ॥ ४१॥ त्वमात्मन् महात्मन् सुखात्मन् भवघ्नः प्रदोषे स्वदोषैकनाशेऽस्तदोषे । त्वदीयं महालिङ्गसङ्गं कदाचित् स मुक्तिं लभेतैव भावो विसङ्गः ॥ ४२॥ नदद्द्विरदवक्त्रेण शुण्डादण्डेन राजता । संस्तुतः परमेशानः प्रणतार्तिहरो हरः ॥ ४३॥ गणपतिः - त्वमुग्रोऽहमव्यग्र एव त्वदीयं पदाब्जं समग्रं मदीयैः फणीन्द्रैः । यमोदग्रदुर्ग्राहसङ्ग्राममार्गं न पश्यामि शश्वत् प्रपन्नः प्रपन्नः ॥ ४४॥ सुधामण्डलाखण्डलोच्चण्डतेजः स्फुरन्मेरुकोदण्डपाणेऽखिलाण्डम् । त्वदाज्ञावशं दण्डितारातिषण्डं समुच्चण्डमुण्डारिणीश प्रपन्नः ॥ ४५॥ पठच्छ्रीरुद्रसूक्तेन मुनिव्रातेन शङ्करः । सुमनोगणवर्षेण जयशब्देन भूरिणा ॥ ४६॥ संस्तुतः परमेशानश्चन्द्रार्धकृतशेखरः ॥ ४७॥ मुनयः - पुगं मिदं त्वामभितः प्रणोनुमो आषाढमुग्रं सहमानमीशम् । जेतारमीशं न कुतोऽपराजितं धनुर्धरं हेतिधरं नताः स्मः ॥ ४८॥ भूरेर्दातारं सत्पतिं रुद्रसूक्तैः स्तोष्यामस्त्वां भावयुक्ता गृणीमः । तस्मादस्मान् रक्ष रक्षेश शम्भो ग्रामे ह्यस्मिन्नातुरं नैव भूयात् ॥ ४९॥ देवाः - भगवंस्तव सुन्दराङ्घ्रिपद्मं पुरुहूतामरवृन्दसन्नुतम् । प्रणताः स्म पुनः पुनर्मुदा शमिताशेषदुरन्तदुःखजालम् ॥ ५०॥ ॥ इति शिवरहस्यान्तर्गते नारदवेदादिसुराणांविरचिता महेश्वरतुष्टिकरणस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः ६। २२-५०॥ - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 6. 22-50.. Notes: The shlokas numbers are maintained per the referenced source text. Proofread by Ruma Dewan
% Text title            : Maheshvara Tushtikarana Stuti by Narada Veda Devas
% File name             : maheshvaratuShTikaraNastutiHnAradavedAdisurANAMvirachitA.itx
% itxtitle              : maheshvaratuShTikaraNastutiH nAradavedAdisurANAM virachitA (shivarahasyAntargatA)
% engtitle              : maheshvaratuShTikaraNastutiH nAradavedAdisurANAM virachitA
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 6| 22-50||
% Indexextra            : (Scan)
% Latest update         : June 18, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org