श्रीमल्हारि म्हाळसाकान्तप्रातःस्मरणम्
प्रातःस्मरामि भावभीतिहरं सुरेशं
मल्हारिमिन्द्रकमलाननविश्ववन्द्यम् ।
श्रीम्हाळसावदनशोभितवामभागं
मल्हारिदेवमनघं पुरुषं वसन्तम् ॥ १॥
प्रातर्भजामि मणिमल्लजरुण्डमालं
माणिक्यदीप्तिशरदोज्ज्वलदन्तपङ्क्तिम् ।
रत्नैर्महामुकुटमण्डितमष्टमूर्तिं
सन्तप्तहेमनिभगौरशरीरपुष्टम् ॥ २॥
प्रातर्नमामि फणिकज्जलमुक्तदीपं
चन्द्रार्ककुण्डलसुशोभितकर्णयुग्मम् ।
सत्पात्रखड्गडमरू च त्रिशूलहस्तं
खण्डेन्दुशेखरनिभं शशिसूर्यनेत्रम् ॥ ३॥
इदं पुण्यमयं स्तोत्रं मल्हारेर्यः पठेन्नरः ।
प्रातः प्रातः समुत्थाय सर्वत्र विजयी भवेत् ॥ ४॥
॥ इति श्रीमल्हारि म्हाळसाकान्त प्रातःस्मरणम् ॥
Encoded by Prakash Kelkar
Proofread by PSA Easwaran