श्रीमल्लिकार्जुनप्रश्नमालिकास्तवः
(श्रीशैलक्षेत्रे)
का सम्बुद्धिर्नक्षत्रेशः केन विराजति मात्रुत्सङ्गः ।
गिरिवरपुत्र्याः पत्युः शीर्षं केन विराजति वदत कवीन्द्राः ॥ १॥
का भाति रमणीशीर्षे को हन्ता शल्यसारथेः ।
भ्रमराम्बापतिः को वा वदन्तु विबुधोत्तमाः ॥ २॥
षट्चरणस्य च का सम्बुद्धिर्लोके जन्तोः का हितजननी ।
साध्व्याश्चित्ते भाति च को वा श्रीशैलाग्रे राजति कश्च ॥ ३॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितः श्रीमल्लिकार्जुनप्रश्नमालिकास्तवः सम्पूर्णः ।
Proofread by PSA Easwaran