श्रीमेधादक्षिणामूर्तिसहस्रनामावलिः १

श्रीमेधादक्षिणामूर्तिसहस्रनामावलिः १

श्रीः अस्य श्री मेधादक्षिणामूर्तिसहस्रनामस्तोत्रस्य ब्रह्मा ऋषिः । गायत्री छन्दः । दक्षिणामूर्तिर्देवता । ओं बीजम् । स्वाहा शक्तिः । नमः कीलकम् । मेधादक्षिणामूर्तिप्रसादसिद्ध्यर्थे जपे विनियोगः । ह्राम् इत्यादिना अङ्गन्यासः । ध्यानम् । सिद्धितोयनिधेर्मध्ये रत्नग्रीवे मनोरमे । कदम्बवनिकामध्ये श्रीमद्वटतरोरधः ॥ १॥ आसीनमाद्यं पुरुषमादिमध्यान्तवर्जितम् । शुद्धस्फटिकगोक्षीरशरत्पूर्णेन्दुशेखरम् ॥ २॥ दक्षिणे चाक्षमालां च वह्निं वै वामहस्तके । जटामण्डलसंलग्नशीताम्शुकरमण्डितम् ॥ ३॥ नागहारधरं चारुकङ्कणैः कटिसूत्रकैः । विराजमानवृषभं व्याघ्रचर्माम्बरावृतम् ॥ ४॥ चिन्तामणिमहावृन्दैः कल्पकैः कामधेनुभिः । चतुष्षष्टिकलाविद्यामूर्तिभिः श्रुतिमस्तकैः ॥ ५॥ रत्नसिंहासने साधुद्वीपिचर्मसमायुतम् । तत्राष्टदलपद्मस्य कर्णिकायां सुशोभने ॥ ६॥ वीरासने समासीनं लम्बदक्षपदांबुजम् । ज्ञानमुद्रां पुस्तकं च वराभीतिधरं हरम् ॥ ७॥ पादमूलसमाक्रान्तमहापस्मारवैभवम् । रुद्राक्षमालाभरणभूषितं भूतिभासुरम् ॥ ८॥ गजचर्मोत्तरीयं च मन्दस्मितमुखाम्बुजम् । सिद्धवृन्दैर्योगिवृन्दैर्मुनिवृन्दैर्निषेवितम् ॥ ९॥ आराध्यमानवृषभं अग्नीन्दुरविलोचनम् । पूरयन्तं कृपादृष्ट्या पुमर्थानाश्रिते जने ॥ १०॥ एवं विभावयेदीशं सर्वविद्याकलानिधिम् ॥ ११॥ लं इत्यादिना पञ्चोपचाराः ॥ ॥ श्री गुरुभ्यो नमः । अथ श्रीमेधादक्षिणामूर्तिसहस्रनामावलिः । ॐ नाम्ने नमः । १ ॐ देवदेवाय नमः । २ ॐ महादेवाय नमः । ३ ॐ देवानामपि देशिकाय नमः । ४ ॐ दक्षिणामूर्तये नमः । ५ ॐ ईशानाय नमः । ६ ॐ दयापूरितदिङ्मुखाय नमः । । १। ७ ॐ कैलासशिखरोत्तुङ्गकमनीयनिजाकृतये नमः । ८ ॐ वटद्रुमतटीदिव्यकनकासनसंस्थिताय नमः । । २। ९ ॐ कटीतटपटीभूतकरिचर्मोज्ज्वलाकृतये नमः । १० ॐ पाटीरपाण्डुराकारपरिपूर्णसुधाधिपाय नमः । । ३। ११ ॐ जटाकोटीरघटितसुधाकरसुधाप्लुताय नमः । १२ ॐ पश्यल्ललाटसुभगसुन्दरभ्रूविलासवते नमः । । ४। १३ ॐ कटाक्षसरणीनिर्यत्करुणापूर्णलोचनाय नमः । १४ ॐ कर्णालोलतटिद्वर्णकुण्डलोज्ज्वलगण्डभुवे नमः । । ५। १५ ॐ तिलप्रसूनसंकाशनासिकापुरभासुराय नमः । १६ ॐ मन्दस्मितस्फुरन्मुग्धमहनीयमुखांबुजाय नमः । । ६। १७ ॐ कुन्दकुड्मलसंस्फर्धिदन्तपङ्क्तिविराजिताय नमः । १८ ॐ सिन्दूरारुणसुस्निग्धकोमलाधरपल्लवाय नमः । । ७। १९ ॐ शङ्खाटोपगलद्दिव्यगळवैभवमञ्जुलाय नमः । २० ॐ करकन्दलितज्ञानमुद्रारुद्राक्षमालिकाय नमः । । ८। २१ ॐ अन्यहस्ततलन्यस्तवीणापुस्तोल्लसद्वपुषे नमः । २२ ॐ विशालरुचिरोरस्कबलिमत्पल्लवोदराय नमः । । ९। २३ ॐ बृहत्कटिनितंबाढ्याय नमः । २४ ॐ पीवरोरुद्वयान्विताय नमः । २५ ॐ जङ्घाविजिततूणीराय नमः । २६ ॐ तुङ्गगुल्फयुगोज्ज्वलाय नमः । । १०। २७ ॐ मृदुपाटलपादाब्जाय नमः । २८ ॐ चन्द्राभनखदीधितये नमः । २९ ॐ अपसव्योरुविन्यस्तसव्यपादसरोरुहाय नमः । । ११। ३० ॐ घोरापस्मारनिक्षिप्तधीरदक्षपदाम्बुजाय नमः । ३१ ॐ सनकादिमुनिध्येयाय नमः । ३२ ॐ सर्वाभरणभूषिताय नमः । । १२। ३३ ॐ दिव्यचन्दनलिप्ताङ्गाय नमः । ३४ ॐ चारुहासपरिष्कृताय नमः । ३५ ॐ कर्पूरधवलाकाराय नमः । ३६ ॐ कन्दर्पशतसुन्दराय नमः । । १३। ३७ ॐ कात्यायनीप्रेमनिधये नमः । ३८ ॐ करुणारसवारिधये नमः । ३९ ॐ कामितार्थप्रदाय नमः । ४० ॐ श्रीमत्कमलावल्लभप्रियाय नमः । । १४। ४१ ॐ कटाक्षितात्मविज्ञानाय नमः । ४२ ॐ कैवल्यानन्दकन्दलाय नमः । ४३ ॐ मन्दहाससमानेन्दवे नमः । ४४ ॐ छिन्नाज्ञानतमस्ततये नमः । । १५। ४५ ॐ संसारानलसंतप्तजनतामृतसागराय नमः । ४६ ॐ गंभीरहृदयाम्भोजनभोमणिनिभाकृतये नमः । । १६। ४७ ॐ निशाकरकराकारवशीकृतजगत्त्रयाय नमः । ४८ ॐ तापसाराध्यपादाब्जाय नमः । ४९ ॐ तरुणानन्दविग्रहाय नमः । । १७। ५० ॐ भूतिभूषितसर्वाङ्गाय नमः । ५१ ॐ भूताधिपतये नमः । ५२ ॐ ईश्वराय नमः । ५३ ॐ वदनेन्दुस्मितज्योत्स्नानिलीनत्रिपुराकृतये नमः । । १८। ५४ ॐ तापत्रयतमोभानवे नमः । ५५ ॐ पापारण्यदवानलाय नमः । ५६ ॐ संसारसागरोद्धर्त्रे नमः । ५७ ॐ हंसाग्र्योपास्यविग्रहाय नमः । । १९। ५८ ॐ ललाटहुतभुग्दग्धमनोभवशुभाकृतये नमः । ५९ ॐ तुच्छीकृतजगज्जालाय नमः । ६० ॐ तुषारकरशीतलाय नमः । । २०। ६१ ॐ अस्तंगतसमस्तेछाय नमः । ६२ ॐ निस्तुलानन्दमन्थराय नमः । ६३ ॐ धीरोदात्तगुणाधाराय नमः । ६४ ॐ उदारवरवैभवाय नमः । । २१। ६५ ॐ अपारकरुणामूर्तये नमः । ६६ ॐ अज्ञानध्वान्तभास्कराय नमः । ६७ ॐ भक्तमानसहंसाग्र्याय नमः । ६८ ॐ भवामयभिषक्तमाय नमः । । २२। ६९ ॐ योगीन्द्रपूज्यपादाब्जाय नमः । ७० ॐ योगपट्टोल्लसत्कटये नमः । ७१ ॐ शुद्धस्फटिकसङ्काशाय नमः । ७२ ॐ बद्धपन्नगभूषणाय नमः । । २३। ७३ ॐ नानामुनिसमाकीर्णाय नमः । ७४ ॐ नासाग्रन्यस्तलोचनाय नमः । ७५ ॐ वेदमूर्धैकसंवेद्याय नमः । ७६ ॐ नादध्यानपरायणाय नमः । । २४। ७७ ॐ धराधरेन्दवे नमः । ७८ ॐ आनन्दसंदोहरससागराय नमः । ७९ ॐ द्वैतवृन्दविमोहान्ध्यपराकृतदृगद्भुताय नमः । । २५। ८० ॐ प्रत्यगात्मने नमः । ८१ ॐ परस्मै ज्योतिषे नमः । ८२ ॐ पुराणाय नमः । ८३ ॐ परमेश्वराय नमः । ८४ ॐ प्रपञ्चोपशमाय नमः । ८५ ॐ प्राज्ञाय नमः । ८६ ॐ पुण्यकीर्तये नमः । ८७ ॐ पुरातनाय नमः । । २६। ८८ ॐ सर्वाधिष्ठानसन्मात्राय नमः । ८९ ॐ स्वात्मबन्धहराय नमः । ९० ॐ हराय नमः । ९१ ॐ सर्वप्रेमनिजाहासाय नमः । ९२ ॐ सर्वानुग्रहकृते नमः । ९३ ॐ शिवाय नमः । । २७। ९४ ॐ सर्वेन्द्रियगुणाभासाय नमः । ९५ ॐ सर्वभूतगुणाश्रयाय नमः । ९६ ॐ सच्चिदानन्दपूर्णात्मने नमः । ९७ ॐ स्वे महिम्नि प्रतिष्ठिताय नमः । । २८। ९८ ॐ सर्वभूतान्तराय नमः । ९९ ॐ साक्षिणे नमः । १०० ॐ सर्वज्ञाय नमः । १०१ ॐ सर्वकामदाय नमः । १०२ ॐ सनकादिमहायोगिसमाराधितपादुकाय नमः । । २९। १०३ ॐ आदिदेवाय नमः । १०४ ॐ दयासिन्धवे नमः । १०५ ॐ शिक्षितासुरविग्रहाय नमः । १०६ ॐ यक्षकिन्नरगन्धर्वस्तूयमानात्मवैभवाय नमः । । ३०। १०७ ॐ ब्रह्मादिदेवविनुताय नमः । १०८ ॐ योगमायानियोजकाय नमः । १०९ ॐ शिवयोगिने नमः । ११० ॐ शिवानन्दाय नमः । १११ ॐ शिवभक्तसमुद्धराय नमः । । ३१। ११२ ॐ वेदान्तसारसन्दोहाय नमः । ११३ ॐ सर्वसत्त्वावलंबनाय नमः । ११४ ॐ वटमूलाश्रयाय नमः । ११५ ॐ वाग्मिने नमः । ११६ ॐ मान्याय नमः । ११७ ॐ मलयजप्रियाय नमः । । ३२। ११८ ॐ सुशीलाय नमः । ११९ ॐ वाञ्छितार्थज्ञाय नमः । १२० ॐ प्रसन्नवदनेक्षणाय नमः । १२१ ॐ नृत्तगीतकलाभिज्ञाय नमः । १२२ ॐ कर्मविदे नमः । १२३ ॐ कर्ममोचकाय नमः । । ३३। १२४ ॐ कर्मसाक्षिणे नमः । १२५ ॐ कर्ममयाय नमः । १२६ ॐ कर्मणां फलप्रदाय नमः । १२७ ॐ ज्ञानदात्रे नमः । १२८ ॐ सदाचाराय नमः । १२९ ॐ सर्वोपद्रवमोचकाय नमः । । ३४। १३० ॐ अनाथनाथाय नमः । १३१ ॐ भगवते नमः । १३२ ॐ आश्रितामरपादपाय नमः । १३३ ॐ वरप्रदाय नमः । १३४ ॐ प्रकाशात्मने नमः । १३५ ॐ सर्वभूतहिते रताय नमः । । ३५। १३६ ॐ व्याघ्रचर्मासनासीनाय नमः । १३७ ॐ आदिकर्त्रे नमः । १३८ ॐ महेश्वराय नमः । १३९ ॐ सुविक्रमाय नमः । १४० ॐ सर्वगताय नमः । १४१ ॐ विशिष्टजनवत्सलाय नमः । । ३६। १४२ ॐ चिन्ताशोकप्रशमनाय नमः । १४३ ॐ जगदानन्दकारकाय नमः । १४४ ॐ रश्मिमते नमः । १४५ ॐ भुवनेशाय नमः । १४६ ॐ देवासुरपूजिताय नमः । । ३७। १४७ ॐ मृत्युञ्जयाय नमः । १४८ ॐ व्योमकेशाय नमः । १४९ ॐ षट्त्रिंशत्तत्त्वसङ्ग्रहाय नमः । १५० ॐ अज्ञातसंभवाय नमः । १५१ ॐ भिक्षवे नमः । १५२ ॐ अद्वितीयाय नमः । १५३ ॐ दिगंबराय नमः । । ३८। १५४ ॐ समस्तदेवतामूर्तये नमः । १५५ ॐ सोमसूर्याग्निलोचनाय नमः । १५६ ॐ सर्वसाम्राज्यनिपुणाय नमः । १५७ ॐ धर्ममार्गप्रवर्तकाय नमः । । ३९। १५८ ॐ विश्वाधिकाय नमः । १५९ ॐ पशुपतये नमः । १६० ॐ पशुपाशविमोचकाय नमः । १६१ ॐ अष्टमूर्तये नमः । १६२ ॐ दीप्तमूर्तये नमः । १६३ ॐ नामोच्चारणमुक्तिदाय नमः । । ४०। १६४ ॐ सहस्रादित्यसंकाशाय नमः । १६५ ॐ सदाषोडशवार्षिकाय नमः । १६६ ॐ दिव्यकेलीसमायुक्ताय नमः । १६७ ॐ दिव्यमाल्याम्बरावृताय नमः । । ४१। १६८ ॐ अनर्घरत्नसम्पूर्णाय नमः । १६९ ॐ मल्लिकाकुसुमप्रियाय नमः । १७० ॐ तप्तचामीकराकाराय नमः । १७१ ॐ जितदावानलाकृतये नमः । । ४२। १७२ ॐ निरञ्जनाय नमः । १७३ ॐ निर्विकाराय नमः । १७४ ॐ निजावासाय नमः । १७५ ॐ निराकृतये नमः । १७६ ॐ जगद्गुरवे नमः । १७७ ॐ जगत्कर्त्रे नमः । १७८ ॐ जगदीशाय नमः । १७९ ॐ जगत्पतये नमः । । ४३। १८० ॐ कामहन्त्रे नमः । १८१ ॐ काममूर्तये नमः । १८२ ॐ कल्याणवृषवाहनाय नमः । १८३ ॐ गङ्गाधराय नमः । १८४ ॐ महादेवाय नमः । १८५ ॐ दीनबन्धविमोचकाय नमः । । ४४। १८६ ॐ धूर्जतये नमः । १८७ ॐ खण्डपरशवे नमः । १८८ ॐ सद्गुणाय नमः । १८९ ॐ गिरिजासखाय नमः । १९० ॐ अव्ययाय नमः । १९१ ॐ भूतसेनेशाय नमः । १९२ ॐ पापघ्नाय नमः । १९३ ॐ पुण्यदायकाय नमः । । ४५। १९४ ॐ उपदेष्ट्रे नमः । १९५ ॐ दृढप्र्ज्ञाय नमः । १९६ ॐ रुद्राय नमः । १९७ ॐ रोगविनाशनाय नमः । १९८ ॐ नित्यानन्दाय नमः । १९९ ॐ निराधाराय नमः । २०० ॐ हराय नमः । २०१ ॐ देवशिखामणये नमः । । ४६। २०२ ॐ प्रणतार्तिहराय नमः । २०३ ॐ सोमाय नमः । २०४ ॐ सान्द्रानन्दाय नमः । २०५ ॐ महामतये नमः । २०६ ॐ आश्चर्यवैभवाय नमः । २०७ ॐ देवाय नमः । २०८ ॐ संसारार्णवतारकाय नमः । । ४७। २०९ ॐ यज्ञेशाय नमः । २१० ॐ राजराजेशाय नमः । २११ ॐ भस्मरुद्राक्षलाञ्छनाय नमः । २१२ ॐ अनन्ताय नमः । २१३ ॐ तारकाय नमः । २१४ ॐ स्थाणवे नमः । २१५ ॐ सर्वविद्येश्वराय नमः । २१६ ॐ हरये नमः । । ४८। २१७ ॐ विश्वरूपाय नमः । २१८ ॐ विरूपाक्षाय नमः । २१९ ॐ प्रभवे नमः । २२० ॐ परिबृडाय नमः । २२१ ॐ दृढाय नमः । २२२ ॐ भव्याय नमः । २२३ ॐ जितारिषड्वर्गाय नमः । २२४ ॐ महोदाराय नमः । २२५ ॐ विषाशनाय नमः । । ४९। २२६ ॐ सुकीर्तये नमः । २२७ ॐ आदिपुरुषाय नमः । २२८ ॐ जरामरणवर्जिताय नमः । २२९ ॐ प्रमाणभूताय नमः । २३० ॐ दुर्ज्ञेयाय नमः । २३१ ॐ पुण्याय नमः । २३२ ॐ परपुरञ्जयाय नमः । । ५०। २३३ ॐ गुणाकराय नमः । २३४ ॐ गुणश्रेष्ठाय नमः । २३५ ॐ सच्चिदानन्दविग्रहाय नमः । २३६ ॐ सुखदाय नमः । २३७ ॐ कारणाय नमः । २३८ ॐ कर्त्रे नमः । २३९ ॐ भवबन्धविमोचकाय नमः । । ५१। २४० ॐ अनिर्विण्णाय नमः । २४१ ॐ गुणग्राहिणे नमः । २४२ ॐ निष्कलङ्काय नमः । २४३ ॐ कलङ्कघ्ने नमः । २४४ ॐ पुरुषाय नमः । २४५ ॐ शाश्वताय नमः । २४६ ॐ योगिने नमः । २४७ ॐ व्यक्ताव्यक्ताय नमः । २४८ ॐ सनातनाय नमः । । ५२। २४९ ॐ चराचरात्मने नमः । २५० ॐ सूक्ष्मात्मने नमः । २५१ ॐ विश्वकर्मणे नमः । २५२ ॐ तमोऽपहृते नमः । २५३ ॐ भुजङ्गभूषणाय नमः । २५४ ॐ भर्गाय नमः । २५५ ॐ तरुणाय नमः । २५६ ॐ करुणालयाय नमः । । ५३। २५७ ॐ अणिमादिगुणोपेताय नमः । २५८ ॐ लोकवश्यविधायकाय नमः । २५९ ॐ योगपट्टधराय नमः । २६० ॐ मुक्ताय नमः । २६१ ॐ मुक्तानं परमायै गतये नमः । । ५४। २६२ ॐ गुरुरूपधराय नमः । २६३ ॐ श्रीमत्परमानन्दसागराय नमः । २६४ ॐ सहस्रबाहवे नमः । २६५ ॐ सर्वेशाय नमः । २६६ ॐ सहस्रावयवान्विताय नमः । । ५५। २६७ ॐ सहस्रमूर्ध्ने नमः । २६८ ॐ सर्वात्मने नमः । २६९ ॐ सहस्राक्षाय नमः । २७० ॐ सहस्रपदे नमः । २७१ ॐ निराभासाय नमः । २७२ ॐ सुक्ष्मतनवे नमः । २७३ ॐ हृदि ज्ञाताय नमः । २७४ ॐ परात्पराय नमः । । ५६। २७५ ॐ सर्वात्मगाय नमः । २७६ ॐ सर्वसाक्षिणे नमः । २७७ ॐ निःसङ्गाय नमः । २७८ ॐ निरुपद्रवाय नमः । २७९ ॐ निष्कलाय नमः । २८० ॐ सकलाध्यक्षाय नमः । २८१ ॐ चिन्मयाय नमः । २८२ ॐ तमसः पराय नमः । । ५७। २८३ ॐ ज्ञानवैराग्यसम्पन्नाय नमः । २८४ ॐ योगानन्दमयाय शिवाय नमः । २८५ ॐ शाश्वतैश्वर्यसम्पूर्णाय नमः । २८६ ॐ महायोगीश्वरेश्वराय नमः । । ५८। २८७ ॐ सहस्रशक्तिसंयुक्ताय नमः । २८८ ॐ पुण्यकायाय नमः । २८९ ॐ दुरासदाय नमः । २९० ॐ तारकब्रह्मसम्पूर्णाय नमः । २०१ ॐ तपस्विजनसंवृताय नमः । । ५९। २९२ ॐ विधीन्द्रामरसम्पूज्याय नमः । २९३ ॐ ज्योतिषां ज्योतिषे नमः । २९४ ॐ उत्तमाय नमः । २९५ ॐ निरक्षराय नमः । २९६ ॐ निरालम्बाय नमः । २९७ ॐ स्वात्मारामाय नमः । २९८ ॐ विकर्तनाय नमः । । ६०। २९९ ॐ निरवद्याय नमः । ३०० ॐ निरातङ्काय नमः । ३०१ ॐ भीमाय नमः । ३०२ ॐ भीमपराक्रमाय नमः । ३०३ ॐ वीरभद्राय नमः । ३०४ ॐ पुरारातये नमः । ३०५ ॐ जलन्धरशिरोहराय नमः । । ६१। ३०६ ॐ अन्धकासुरसंहर्त्रे नमः । ३०७ ॐ भगनेत्रभिदे नमः । ३०८ ॐ अद्भुताय नमः । ३०९ ॐ विश्वग्रासाय नमः । ३१० ॐ अधर्मशत्रवे नमः । ३११ ॐ ब्रह्मज्ञानैकमन्थराय नमः । । ६२। ३१२ ॐ अग्रेसराय नमः । ३१३ ॐ तीर्थभूताय नमः । ३१४ ॐ सितभस्मावकुण्ठनाय नमः । ३१५ ॐ अकुण्ठमेधसे नमः । ३१६ ॐ श्रीकण्ठाय नमः । ३१७ ॐ वैकुण्ठपरमप्रियाय नमः । । ६३। ३१८ ॐ ललाटोज्ज्वलनेत्राब्जाय नमः । ३१९ ॐ तुषारकरशेखराय नमः । ३२० ॐ गजासुरशिरश्छेत्रे नमः । ३२१ ॐ गङ्गोद्भासितमूर्धजाय नमः । । ६४। ३२२ ॐ कल्याणाचलकोदण्डाय नमः । ३२३ ॐ कमलापतिसायकाय नमः । ३२४ ॐ वारांशेवधितूणीराय नमः । ३२५ ॐ सरोजासनसारथये नमः । । ६५। ३२६ ॐ त्रयीतुरङ्गसंक्रान्ताय नमः । ३२७ ॐ वासुकिज्याविराजिताय नमः । ३२८ ॐ रवीन्दुचरणाचारिधरारथविराजिताय नमः । । ६६। ३२९ ॐ त्रय्यन्तप्रग्रहोदारचारुघण्टारवोज्ज्वलाय नमः । ३३० ॐ उत्तानपर्वलोमाढ्याय नमः । ३३१ ॐ लीलाविजितमन्मथाय नमः । । ६७। ३३२ ॐ जातुप्रपन्नजनताजीवनोपायनोत्सुकाय नमः । ३३३ ॐ संसारार्णवनिर्मग्नसमुद्धरणपण्डिताय नमः । । ६८। ३३४ ॐ मदद्विरदधिक्कारिगतिमञ्जुलवैभवाय नमः । ३३५ ॐ मत्तकोकिलमाधुर्यरसनिर्भरगीर्गणाय नमः । । ६९। ३३६ ॐ कैवल्योदधिकल्लोललीलाताण्डवपण्डिताय नमः । ३३७ ॐ विष्णवे नमः । ३३८ ॐ जिष्णवे नमः । ३३९ ॐ वासुदेवाय नमः । ३४० ॐ प्रभविष्णवे नमः । ३४१ ॐ पुरातनाय नमः । । ७०। ३४२ ॐ वर्धिष्णवे नमः । ३४३ ॐ वरदाय नमः । ३४४ ॐ वैद्याय नमः । ३४५ ॐ हरये नमः । ३४६ ॐ नारायणाय नमः । ३४७ ॐ अच्युताय नमः । ३४८ ॐ अज्ञानवनदावाग्नये नमः । ३४९ ॐ प्रज्ञाप्रासादभूपतये नमः । । ७१। ३५० ॐ सर्पभूषितसर्वाङ्गाय नमः । ३५१ ॐ कर्पूरोज्ज्वलिताकृतये नमः । ३५२ ॐ अनादिमध्यनिधनाय नमः । ३५३ ॐ गिरीशाय नमः । ३५४ ॐ गिरिजापतये नमः । । ७२। ३५५ ॐ वीतरागाय नमः । ३५६ ॐ विनीताय्मने नमः । ३५७ ॐ तपस्विने नमः । ३५८ ॐ भूतभावनाय नमः । ३५९ ॐ देवासुरगुरुध्येयाय नमः । ३६० ॐ देवासुरनमस्कृताय नमः । । ७३। ३६१ ॐ देवादिदेवाय नमः । ३६२ ॐ देवर्षये नमः । ३६३ ॐ देवासुरवरप्रदायय नमः । ३६४ ॐ सर्वदेवमयाय नमः । ३६५ ॐ अचिन्त्याय नमः । ३६६ ॐ देवात्मने नमः । ३६७ ॐ आत्मसंभवाय नमः । । ७४। ३६८ ॐ निर्लेपाय नमः । ३६९ ॐ निष्प्रपञ्चात्मने नमः । ३७० ॐ निविघ्नाय नमः । ३७१ ॐ विघ्ननाशकाय नमः । ३७२ ॐ एकज्योतिषे नमः । ३७३ ॐ निरातङ्काय नमः । ३७४ ॐ व्याप्तमूर्तये नमः । ३७५ ॐ अनाकुलाय नमः । । ७५। ३७६ ॐ निरवद्यपदोपाधये नमः । ३७७ ॐ विद्याराशये नमः । ३७८ ॐ अनुत्तमाय नमः । ३७९ ॐ नित्यानन्दाय नमः । ३८० ॐ सुराध्यक्षाय नमः । ३८१ ॐ निःसंकल्पाय नमः । ३८२ ॐ निरञ्जनाय नमः । । ७६। ३८३ ॐ निष्कलङ्काय नमः । ३८४ ॐ निराकाराय नमः । ३८५ ॐ निष्प्रपञ्चाय नमः । ३८६ ॐ निरामयाय नमः । ३८७ ॐ विद्याधराय नमः । ३८८ ॐ वितत्केशाय नमः । ३८९ ॐ मार्कण्डेयवरप्रदाय नमः । । ७७। ३९० ॐ भैरवाय नमः । ३९१ ॐ भैरवीनाथाय नमः । ३९२ ॐ कामदाय नमः । ३९३ ॐ कमलासनाय नमः । ३९४ ॐ वेदवेद्याय नमः । ३९५ ॐ सुरानन्दाय नमः । ३९६ ॐ लसज्ज्योतिषे नमः । ३९७ ॐ प्रभाकराय नमः । । ७८। ३९८ ॐ चूडामणये नमः । ३९९ ॐ सुराधीशाय नमः । ४०० ॐ यज्ञगेयाय नमः । ४०१ ॐ हरिप्रियाय नमः । ४०२ ॐ निर्लेपाय नमः । ४०३ ॐ नीतिमते नमः । ४०४ ॐ सूत्रिणे नमः । ४०५ ॐ श्रीहालाहलसुन्दराय नमः । । ७९। ४०६ ॐ धर्मदक्षाय नमः । ४०७ ॐ महाराजाय नमः । ४०८ ॐ किरीटिणे नमः । ४०९ ॐ वन्दिताय नमः । ४१० ॐ गुहाय नमः । ४११ ॐ माधवाय नमः । ४१२ ॐ यामिनीनाथाय नमः । ४१३ ॐ शंबराय नमः । ४१४ ॐ शबरीप्रियाय नमः । । ८०। ४१५ ॐ सङ्गीतवेत्रे नमः । ४१६ ॐ लोकज्ञाय नमः । ४१७ ॐ शान्ताय नमः । ४१८ ॐ कलशसंभवाय नमः । ४१९ ॐ ब्रह्मण्याय नमः । ४२० ॐ वरदाय नमः । ४२१ ॐ नित्याय नमः । ४२२ ॐ शूलिने नमः । ४२३ ॐ गुरुवराय हराय नमः । । ८१। ४२४ ॐ मार्ताण्डाय नमः । ४२५ ॐ पुण्डरीकाक्षाय नमः । ४२६ ॐ लोकनायकविक्रमाय नमः । ४२७ ॐ मुकुन्दार्च्याय नमः । ४२८ ॐ वैद्यनाथाय नमः । ४२९ ॐ पुरन्दरवरप्रदाय नमः । । ८२। ४३० ॐ भाषाविहीनाय नमः । ४३१ ॐ भाषाज्ञाय नमः । ४३२ ॐ विघ्नेशाय नमः । ४३३ ॐ विघ्ननाशनाय नमः । ४३४ ॐ किन्नरेशाय नमः । ४३५ ॐ बृहद्भानवे नमः । ४३६ ॐ श्रीनिवासाय नमः । ४३७ ॐ कपालभृते नमः । । ८३। ४३८ ॐ विजयाय नमः । ४३९ ॐ भूतभावज्ञाय नमः । ४४० ॐ भीमसेनाय नमः । ४४१ ॐ दिवाकराय नमः । ४४२ ॐ बिल्वप्रियाय नमः । ४४३ ॐ वसिष्ठेशाय नमः । ४४४ ॐ सर्वमार्गप्रवर्तकाय नमः । । ८४। ४४५ ॐ ओषधीशाय नमः । ४४६ ॐ वामदेवाय नमः । ४४७ ॐ गोविन्दाय नमः । ४४८ ॐ नीललोहिताय नमः । ४४९ ॐ षदर्धनयनाय नमः । ४५० ॐ श्रीमन्महादेवाय नमः । ४५१ ॐ वृषध्वजाय नमः । । ८५। ४५२ ॐ कर्पूरदीपिकालोलाय नमः । ४५३ ॐ कर्पूररसचर्चिताय नमः । ४५४ ॐ अव्याजकरुणामूर्तये नमः । ४५५ ॐ त्यागराजाय नमः । ४५६ ॐ क्षपाकराय नमः । । ८६। ४५७ ॐ आश्चर्यविग्रहाय नमः । ४५८ ॐ सूक्ष्माय नमः । ४५९ ॐ सिद्धेशाय नमः । ४६० ॐ स्वर्णभैरवाय नमः । ४६१ ॐ देवराजाय नमः । ४६२ ॐ कृपासिन्धवे नमः । ४६३ ॐ अद्वयाय नमः । ४६४ ॐ अमितविक्रमाय नमः । । ८७। ४६५ ॐ निर्भेदाय नमः । ४६६ ॐ नित्यसत्त्वस्थाय नमः । ४६७ ॐ निर्योगक्षेमाय नमः । ४६८ ॐ आत्मवते नमः । ४६९ ॐ निरपायाय नमः । ४७० ॐ निरासङ्गाय नमः । ४७१ ॐ निःशब्दाय नमः । ४७२ ॐ निरुपाधिकाय नमः । । ८८। ४७३ ॐ भवाय नमः । ४७४ ॐ सर्वेश्वराय नमः । ४७५ ॐ स्वामिने नमः । ५७६ ॐ भवभीतिविभञ्जनाय नमः । ४७७ ॐ दारिद्र्यतृणकूटाग्नये नमः । ४७८ ॐ दारितासुरसन्ततये नमः । । ८९। ४७९ ॐ मुक्तिदाय नमः । ४८० ॐ मुदिताय नमः । ४८१ ॐ अकुब्जाय नमः । ४८२ ॐ धार्मिकाय नमः । ४८३ ॐ भक्तवत्सलाय नमः । ४८४ ॐ अभ्यासातिशयज्ञेयाय नमः । ५८५ ॐ चन्द्रमौलये नमः । ४८६ ॐ कलाधराय नमः । । ९०। ४८७ ॐ महाबलाय नमः । ४८८ ॐ महावीर्याय नमः । ४८९ ॐ विभवे नमः । ४९० ॐ श्रीशाय नमः । ४९१ ॐ शुभप्रदाय नमः । ४९२ ॐ सिद्धाय नमः । ४९३ ॐ पुराणपुरुषाय नमः । ४९४ ॐ रणमण्डलभैरवाय नमः । । ९१। ४९५ ॐ सद्योजाताय नमः । ४९६ ॐ वटारण्यवासिने नमः । ४९७ ॐ पुरुषवल्लभाय नमः । ४९८ ॐ हरिकेशाय नमः । ४९९ ॐ महात्रात्रे नमः । ५०० ॐ नीलग्रीवाय नमः । ५०१ ॐ सुमङ्गलाय नमः । । ९२। ५०२ ॐ हिरण्यबाहवे नमः । ५०३ ॐ तीक्ष्णांशवे नमः । ५०४ ॐ कामेशाय नमः । ५०५ ॐ सोमविग्रहाय नमः । ५०६ ॐ सर्वात्मने नमः । ५०७ ॐ सर्वकर्त्रे नमः । ५०८ ॐ ताण्डवाय नमः । ५०९ ॐ मुण्डमालिकाय नमः । । ९३। ५१० ॐ अग्रगण्याय नमः । ५११ ॐ सुगंभीराय नमः । ५१२ ॐ देशिकाय नमः । ५१३ ॐ वैदिकोत्तमाय नमः । ५१४ ॐ प्रसन्नदेवाय नमः । ५१५ ॐ वागीशाय नमः । ५१६ ॐ चिन्तातिमिरभास्कराय नमः । । ९४। ५१७ ॐ गौरीपतये नमः । ५१८ ॐ तुङ्गमौलये नमः । ५१९ ॐ मखराजाय नमः । ५२० ॐ महाकवये नमः । ५२१ ॐ श्रीधराय नमः । ५२२ ॐ सर्वसिद्धेशाय नमः । ५२३ ॐ विश्वनाथाय नमः । ५२४ ॐ दयानिधये नमः । । ९५। ५२५ ॐ अन्तर्मुखाय नमः । ५२६ ॐ बहिर्दृष्टये नमः । ५२७ ॐ सिद्धवेषमनोहराय नमः । ५२८ ॐ कृत्तिवाससे नमः । ५२९ ॐ कृपासिन्धवे नमः । ५३० ॐ मन्त्रसिद्धाय नमः । ५३१ ॐ मतिप्रदाय नमः । । ९६। ५३२ ॐ महोत्कृष्टाय नमः । ५३३ ॐ पुण्यकराय नमः । ५३४ ॐ जगत्साक्षिणे नमः । ५३५ ॐ सदाशिवाय नमः । ५३६ ॐ महाक्रतवे नमः । ५३७ ॐ महायज्वने नमः । ५३८ ॐ विश्वकर्मणे नमः । ५३९ ॐ तपोनिधये नमः । । ९७॥ ५४० ॐ छन्दोमयाय नमः । ५४१ ॐ महाज्ञानिने नमः । ५४२ ॐ सर्वज्ञाय नमः । ५४३ ॐ देववन्दिताय नमः । ५४४ ॐ सार्वभौमाय नमः । ५४५ ॐ सदानन्दाय नमः । ५४६ ॐ करुणामृतवारिधये नमः । । ९८। ५४७ ॐ कालकालाय नमः । ५४८ ॐ कलिध्वंसिने नमः । ५४९ ॐ जरामरणनाशकाय नमः । ५५० ॐ शितिकण्ठाय नमः । ५५१ ॐ चिदानन्दाय नमः । ५५२ ॐ योगिनीगणसेविताय नमः । । ९९। ५५३ ॐ चण्डीशाय नमः । ५५४ ॐ शुकसंवेद्याय नमः । ५५५ ॐ पुण्यश्लोकाय नमः । ५५६ ॐ दिवस्पतये नमः । ५५७ ॐ स्थायिने नमः । ५५८ ॐ सकलतत्त्वात्मने नमः । ५५९ ॐ सदासेवकवर्धनाय नमः । । १००। ५६० ॐ रोहिताश्वाय नमः । ५६१ ॐ क्षमारूपिणे नमः । ५६२ ॐ तप्तचामीकरप्रभाय नमः । ५६३ ॐ त्रियम्बकाय नमः । ५६४ ॐ वररुचये नमः । ५६५ ॐ देवदेवाय नमः । ५६६ ॐ चतुर्भुजाय नमः । । १०१। ५६७ ॐ विश्वम्भराय नमः । ५६८ ॐ विचित्राङ्गाय नमः । ५६९ ॐ विधात्रे नमः । ५७० ॐ पुरुशासनाय नमः । ५७१ ॐ सुब्रह्मण्याय नमः । ५७२ ॐ जगत्स्वामिने नमः । ५७३ ॐ रोहिताक्षाय नमः । ५७४ ॐ शिवोत्तमाय नमः । । १०२। ५७५ ॐ नक्षत्रमालाभरणाय नमः । ५७६ ॐ मघवते नमः । ५७७ ॐ अघनाशनाय नमः । ५७८ ॐ विधिकर्त्रे नमः । ५७९ ॐ विधानज्ञाय नमः । ५८० ॐ प्रधानपुरुषेश्वराय नमः । । १०३। ५८१ ॐ चिन्तामणये नमः । ५८२ ॐ सुरगुरवे नमः । ५८३ ॐ ध्येयाय नमः । ५८४ ॐ नीराजनप्रियाय नमः । ५८५ ॐ गोविन्दाय नमः । ५८६ ॐ राजराजेशाय नमः । ५८७ ॐ बहुपुष्पार्चनप्रियाय नमः । । १०४। ५८८ ॐ सर्वानन्दाय नमः । ५८९ ॐ दयारूपिणे नमः । ५९० ॐ शैलजासुमनोहराय नमः । ५९१ ॐ सुविक्रमाय नमः । ५९२ ॐ सर्वगताय नमः । ५९३ ॐ हेतुसाधनवर्जिताय नमः । । १०५। ५९४ ॐ वृषाङ्काय नमः । ५९५ ॐ रमणीयाङ्गाय नमः । ५९६ ॐ सदङ्घ्रये नमः । ]५९७ ॐ सामपारगाय नमः । ५९८ ॐ मन्त्रात्मने नमः । ५९९ ॐ कोटिकन्दर्पसौन्दर्यरसवारिधये नमः । । १०६। ६०० ॐ यज्ञेशाय नमः । ६०१ ॐ यज्ञपुरुषाय नमः । ६०२ ॐ सृष्टिस्थित्यन्तकारणाय नमः । ६०३ ॐ परहंसैकजिज्ञास्याय नमः । ६०४ ॐ स्वप्रकाशस्वरूपवते नमः । । १०७। ६०५ ॐ मुनिमृग्याय नमः । ६०६ ॐ देवमृग्याय नमः । ६०७ ॐ मृगहस्ताय नमः । ६०८ ॐ मृगेश्वराय नमः । ६०९ ॐ मृगेन्द्रचर्मवसनाय नमः । ६१० ॐ नरसिंहनिपातनाय नमः । । १०८। ६११ ॐ मुनिवन्द्याय नमः । ६१२ ॐ मुनिश्रेष्ठाय नमः । ६१३ ॐ मुनिवृन्दनिषेविताय नमः । ६१४ ॐ दुष्टमृत्यवे नमः । ६१५ ॐ अदुष्टेहाय नमः । ६१५ ॐ मृत्युघ्ने नमः । ६१७ ॐ मृत्युपूजिताय नमः । । १०९। ६१८ ॐ अव्यक्ताय नमः । ६१९ ॐ अम्बुजजन्मादिकोटिकोटिसुपूजिताय नमः । ६२० ॐ लिङ्गमूर्तये नमः । ६२१ ॐ अलिङ्गात्मने नमः । ६२२ ॐ लिङ्गात्मने नमः । ६२३ ॐ लिङ्गविग्रहाय नमः । । ११०। ६२४ ॐ यजुर्मूर्तये नमः । ६२५ ॐ साममूर्तये नमः । ६२६ ॐ ऋङ्मूर्तये नमः । ६२७ ॐ मूर्तिवर्जिताय नमः । ६२८ ॐ विश्वेशाय नमः । ६२९ ॐ गजचर्मैकचेलाञ्चितकटीतटाय नमः । । १११। ६३० ॐ पावनान्तेवसद्योगिजनसार्थसुधाकराय नमः । ६३१ ॐ अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभाय नमः । । ११२। ६३२ ॐ चिन्ताशोकप्रशमनाय नमः । ६३३ ॐ सर्वविद्याविशारदाय नमः । ६३४ ॐ भक्तविज्ञप्तिसंधात्रे नमः । ६३५ ॐ कर्त्रे नमः । ६३६ ॐ गिरिवराकृतये नमः । । ११३। ६३७ ॐ ज्ञानप्रदाय नमः । ६३८ ॐ मनोवासाय नमः । ६३९ ॐ क्षेम्याय नमः । ६४० ॐ मोहविनाशनाय नमः । ६४१ ॐ सुरोत्तमाय नमः । ६४२ ॐ चित्रभानवे नमः । ६४३ ॐ सदावैभवतत्पराय नमः । । ११४। ६४४ ॐ सुहृदग्रेसराय नमः । ६४५ ॐ सिद्धज्ञानमुद्राय नमः । ६४६ ॐ गणाधिपाय नमः । ६४७ ॐ आगमाय नमः । ६४८ ॐ चर्मवसनाय नमः । ६४९ ॐ वाञ्छितार्थफलप्रदाय नमः । । ११५। ६५० ॐ अन्तर्हिताय नमः । ६५१ ॐ असमानाय नमः । ६५२ ॐ देवसिंहासनाधिपाय नमः । ६५३ ॐ विवादहन्त्रे नमः । ६५४ ॐ सर्वात्मने नमः । ६५५ ॐ कालाय नमः । ६५६ ॐ कालविवर्जिताय नमः । । ११६। ६५७ ॐ विश्वातीताय नमः । ६५८ ॐ विश्वकर्त्रे नमः । ६५९ ॐ विश्वेशाय नमः । ६६० ॐ विश्वकारणाय नमः । ६६१ ॐ योगिध्येयाय नमः । ६६२ ॐ योगनिष्ठाय नमः । ६६३ ॐ योगात्मने नमः । ६६४ ॐ योगवित्तमाय नमः । । ११७। ६६५ ॐ ओंकाररूपाय नमः । ६६६ ॐ भगवते नमः । ६६७ ॐ बिन्दुनादमयाय शिवाय नमः । ६६८ ॐ चतुर्मुखादिसंस्तुताय नमः । ६६९ ॐ चतुर्वर्गफलप्रदाय नमः । । ११८। ६७० ॐ सह्याचलगुहावासिने नमः । ६७१ ॐ साक्षान्मोक्षरसामृताय नमः । ६७२ ॐ दक्षाध्वरसमुच्छेत्रे नमः । ६७३ ॐ पक्षपातविवर्जिताय नमः । । ११९ ६७४ ॐ ओंकारवाचकाय नमः । ६७५ ॐ शंभवे नमः । ६७६ ॐ शङ्कराय नमः । ६७७ ॐ शशिशीतलाय नमः । ६७८ ॐ पङ्कजासनसंसेव्याय नमः । ६७९ ॐ किङ्करामरवत्सलाय नमः । । १२०। ६८० ॐ नतदौर्भाग्यतूलाग्रये नमः । ६८१ ॐ कृतकौतुकमङ्गलाय नमः । ६८२ ॐ त्रिलोकमोहनाय नमः । ६८३ ॐ श्रीमत्त्रिपुण्ड्राङ्कितमस्तकाय नमः । । १२१। ६८४ ॐ क्रौञ्चारिजनकाय नमः । ६८५ ॐ श्रीमद्गणनाथसुतान्विताय नमः । ६८६ ॐ अद्भुतानन्तवरदाय नमः । ६८७ ॐ अपरिच्छिन्नात्मवैभवाय नमः । । १२२। ६८८ ॐ इष्टापूर्तप्रियाय नमः । ६८९ ॐ शर्वाय नमः । ६९० ॐ एकवीराय नमः । ६९१ ॐ प्रियंवदाय नमः । ६९२ ॐ ऊहापोहविनिर्मुक्ताय नमः । ६९३ ॐ ओंकारेश्वरपूजिताय नमः । । १२३। ६९४ ॐ रुद्राक्षवक्षसे नमः । ६९५ ॐ रुद्राक्षरूपाय नमः । ६९६ ॐ रुद्राक्षपक्षकाय नमः । ६९७ ॐ भुजगेन्द्रलसत्कण्ठाय नमः । ६९८ ॐ भुजङ्गाभरणप्रियाय नमः । । १२४। ६९९ ॐ कल्याणरूपाय नमः । ७०० ॐ कल्याणाय नमः । ७०१ ॐ कल्याणगुणसंश्रयाय नमः । ७०२ ॐ सुन्दरभ्रुवे नमः । ७०३ ॐ सुनयनाय नमः । ७०४ ॐ सुललाटाय नमः । ७०५ ॐ सुकन्धराय नमः । । १२५। ७०६ ॐ विद्वज्जनाश्रयाय नमः । ७०७ ॐ विद्वज्जनस्तव्यपराक्रमाय नमः । ७०८ ॐ विनीतवत्सलाय नमः । ७०९ ॐ नीतिस्वरूपाय नमः । ७१० ॐ नीतिसंश्रयाय नमः । । १२६। ७११ ॐ अतिरागिणे नमः । ७१२ ॐ वीतरागिणे नमः । ७१३ ॐ रागहेतवे नमः । ७१४ ॐ विरागविदे नमः । ७१५ ॐ रागघ्ने नमः । ७१६ ॐ रागशमनाय नमः । ७१७ ॐ रागदाय नमः । ७१८ ॐ रागिरागविदे नमः । । १२७। ७१९ ॐ मनोन्मनाय नमः । ७२० ॐ मनोरूपाय नमः । ७२१ ॐ बलप्रमथनाय नमः । ७२२ ॐ बलाय नमः । ७२३ ॐ विद्याकराय नमः । ७२४ ॐ महाविद्याय नमः । ७२५ ॐ विद्याविद्याविशारदाय नमः । । १२८। ७२६ ॐ वसन्तकृते नमः । ७२७ ॐ वसन्तात्मने नमः । ७२८ ॐ वसन्तेशाय नमः । ७२९ ॐ वसन्तदाय नमः । ७३० ॐ प्रावृट्कृते नमः । ७३१ ॐ प्रावृडाकाराय नमः । ७३२ ॐ प्रावृट्कालप्रवर्तकाय नमः । । १२९। ७३३ ॐ शरन्नाथाय नमः । ७३४ ॐ शरत्कालनाशकाय नमः । ७३५ ॐ शरदाश्रयाय नमः । ७३६ ॐ कुन्दमन्दारपुष्पौघलसद्वायुनिषेविताय नमः । । १३०। ७३७ ॐ दिव्यदेहप्रभाकूटसंदीपितदिगन्तराय नमः । ७३८ ॐ देवासुरगुरुस्तव्याय नमः । ७३९ ॐ देवासुरनमस्कृताय नमः । । १३१। ७४० ॐ वामाङ्गभागविलसच्छ्यामलावीक्षणप्रियाय नमः । ७४१ ॐ कीर्त्याधाराय नमः । ७४२ ॐ कीर्तिकराय नमः । ७४३ ॐ कीर्तिहेतवे नमः । ७४४ ॐ अहेतुकाय नमः । । १३२। ७४५ ॐ शरणागतदीनार्तपरित्राणपरायणाय नमः । ७४६ ॐ महाप्रेतासनासीनाय नमः । ७४७ ॐ जितसर्वपितामहाय नमः । । १३३। ७४८ ॐ मुक्तादामपरीताङ्गाय नमः । ७४९ ॐ नानागानविशारदाय नमः । ७५० ॐ विष्णुब्रह्मादिवन्द्याङ्घ्रये नमः । ७५१ ॐ नानादेशैकनायकाय नमः । । १३४। ७५२ ॐ धीरोदात्ताय नमः । ७५३ ॐ महाधीराय नमः । ७५४ ॐ धैर्यदाय नमः । ७५५ ॐ धैर्यवर्धकाय नमः । ७५६ ॐ विज्ञानमयाय नमः । ७५७ ॐ आनन्दमयाय नमः । ७५८ ॐ प्राणमयाय नमः । ७५९ ॐ अन्नदाय नमः । । १३५। ७६० ॐ भवाब्धितरणोपायाय नमः । ७६१ ॐ कवये नमः । ७६२ ॐ दुःस्वप्ननाशनाय नमः । ७६३ ॐ गौरीविलाससदनाय नमः । ७६४ ॐ पिशाचानुसरावृताय नमः । । १३६। ७६५ ॐ दक्षिणाप्रेमसंतुष्टाय नमः । ७६६ ॐ दारिद्र्यवडवानलाय नमः । ७६७ ॐ अद्भुतानन्तसंग्रामाय नमः । ७६८ ॐ ढक्कावादनतत्पराय नमः । । १३७। ७६९ ॐ प्राच्यात्मने नमः । ७७० ॐ दक्षिणाकाराय नमः । ७७१ ॐ प्रतीच्यात्मने नमः । ७७२ ॐ उत्तराकृतये नमः । ७७३ ॐ ऊर्ध्वाद्यन्यदिगाकाराय नमः । ७७४ ॐ मर्मज्ञाय नमः । ७७५ ॐ सर्वशिक्षकाय नमः । । १३८। ७७६ ॐ युगावहाय नमः । ७७७ ॐ युगाधीशाय नमः । ७७८ ॐ युगात्मने नमः । ७७९ ॐ युगनायकाय नमः । ७८० ॐ जङ्गमाय नमः । ७८१ ॐ स्थावराकाराय नमः । ७८२ ॐ कैलासशिखरप्रियाय नमः । । १३९। ७८३ ॐ हस्तराजत्पुण्डरीकाय नमः । ७८४ ॐ पुण्डरीकनिभेक्षणाय नमः । ७८५ ॐ लीलाविडंबितवपुषे नमः । ७८६ ॐ भक्तमानसमण्डिताय नमः । । १४०। ७८७ ॐ वृन्दारकप्रियतमाय नमः । ७८८ ॐ वृन्दारकवरार्चिताय नमः । ७८९ ॐ नानाविधानेकरत्नलसत्कुण्डलमण्डिताय नमः । । १४१। ७९० ॐ निःसीममहिम्ने नमः । ७९१ ॐ नित्यलीलाविग्रहरूपधृते नमः । ७९२ ॐ चन्दनद्रवदिग्धाङ्गाय नमः । ७९३ ॐ चाम्पेयकुसुमार्चिताय नमः । । १४२। ७९४ ॐ समस्तभक्तसुखदाय नमः । ७९५ ॐ परमाणवे नमः । ७९६ ॐ महाह्रदाय नमः । ७९७ ॐ अलौकिकाय नमः । ७९८ ॐ दुष्प्रधर्षाय नमः । ७९९ ॐ कपिलाय नमः । ८०० ॐ कालकन्धराय नमः । । १४३। ८०१ ॐ कर्पूरगौराय नमः । ८०२ ॐ कुशलाय नमः । ८०३ ॐ सत्यसन्धाय नमः । ८०४ ॐ जितेन्द्रियाय नमः । ८०५ ॐ शाश्वतैश्वर्यविभवाय नमः । ८०६ ॐ पोषकाय नमः । ८०७ ॐ सुसमाहिताय नमः । । १४४। ८०८ ॐ महर्षिनाथिताय नमः । ८०९ ॐ ब्रह्मयोनये नमः । ८१० ॐ सर्वोत्तमोत्तमाय नमः । ८११ ॐ भूमिभारार्तिसंहर्त्रे नमः । ८१२ ॐ षडूर्मिरहिताय नमः । ८१३ ॐ मृडाय नमः । । १४५। ८१४ ॐ त्रिविष्टपेश्वराय नमः । ८१५ ॐ सर्वहृदयाम्बुजमध्यगाय नमः । ८१६ ॐ सहस्रदलपद्मस्थाय नमः । ८१७ ॐ सर्ववर्णोपशोभिताय नमः । । १४६। ८१८ ॐ पुण्यमूर्तये नमः । ८१९ ॐ पुण्यलभ्याय नमः । ८२० ॐ पुण्यश्रवणकीर्तनाय नमः । ८२१ ॐ सूर्यमण्डलमध्यस्थाय नमः । ८२२ ॐ चन्द्रमण्डलमध्यगाय नमः । । १४७। ८२३ ॐ सद्भक्तध्याननिगलाय नमः । ८३४ ॐ शरणागतपालकाय नमः । ८२५ ॐ श्वेतातपत्ररुचिराय नमः । ८२६ ॐ श्वेतचामरवीजिताय नमः । । १४८। ८२७ ॐ सर्वावयवसम्पूर्णाय नमः । ८२८ ॐ सर्वलक्षणलक्षिताय नमः । ८२९ ॐ सर्वमङ्गलमाङ्गल्याय नमः । ८३० ॐ सर्वकारणकारणाय नमः । । १४९। ८३१ ॐ आमोदाय नमः । ८३२ ॐ मोदजनकाय नमः । ८३३ ॐ सर्पराजोत्तरीयकाय नमः । ८३४ ॐ कपालिने नमः । ८३५ ॐ कोविदाय नमः । ८३६ ॐ सिद्धकान्तिसंवलिताननाय नमः । । १५०। ८३७ ॐ सर्वसद्गुरुसंसेव्याय नमः । ८३८ ॐ दिव्यचन्दनचर्चिताय नमः । ८३९ ॐ विलासिनीकृतोल्लासाय नमः । ८४० ॐ इच्छाशक्तिनिषेविताय नमः । । १५१। ८४१ ॐ अनन्तानन्दसुखदाय नमः । ८४२ ॐ नन्दनाय नमः । ८४३ ॐ श्रीनिकेतनाय नमः । ८४४ ॐ अमृताब्धिकृतावासाय नमः । ८४५ ॐ नित्यक्लीबाय नमः । ८४६ ॐ निरामयाय नमः । । १५२। ८४७ ॐ अनपायाय नमः । ८४८ ॐ अनन्तदृष्टये नमः । ८४९ ॐ अप्रमेयाय नमः । ८५० ॐ अजराय नमः । ८५१ ॐ अमराय नमः । ८५२ ॐ तमोमोहप्रतिहतये नमः । ८५३ ॐ अप्रतर्क्याय नमः । ८५४ ॐ अमृताय नमः । ८५५ ॐ अक्षराय नमः । । १५३। ८५६ ॐ अमोघबुद्धये नमः । ८५७ ॐ आधाराय नमः । ८५८ ॐ आधाराधेयवर्जिताय नमः । ८५९ ॐ ईषणात्रयनिर्मुक्ताय नमः । ८६० ॐ इहामुत्रविवर्जिताय नमः । । १५४। ८६१ ॐ ऋग्यजुःसामनयनाय नमः । ८६२ ॐ बुद्धिसिद्धिसमृद्धिदाय नमः । ८६३ ॐ औदार्यनिधये नमः । ८६४ ॐ आपूर्णाय नमः । ८६५ ॐ ऐहिकामुष्मिकप्रदाय नमः । । १५५। ८६६ ॐ शुद्धसन्मात्रसंविद्धी-स्वरूपसुखविग्रहाय नमः । ८६७ ॐ दर्शनप्रथमाभासाय नमः । ८६८ ॐ दृष्टिदृश्यविवर्जिताय नमः । । १५६। ८६९ ॐ अग्रगण्याय नमः । ८७० ॐ अचिन्त्यरूपाय नमः । ८७१ ॐ कलिकल्मषनाशनाय नमः । ८७२ ॐ विमर्शरूपाय नमः । ८७३ ॐ विमलाय नमः । ८७४ ॐ नित्यरूपाय नमः । ८७५ ॐ निराश्रयाय नमः । । १५७। ८७६ ॐ नित्यशुद्धाय नमः । ८७७ ॐ नित्यबुद्धाय नमः । ८७८ ॐ नित्यमुक्ताय नमः । ८७९ ॐ अपराकृताय नमः । ८८० ॐ मैत्र्यादिवासनालभ्याय नमः । ८८१ ॐ महाप्रलयसंस्थिताय नमः । । १५८। ८८२ ॐ महाकैलासनिलयाय नमः । ८८३ ॐ प्रज्ञानघनविग्रहाय नमः । ८८४ ॐ श्रीमते नमः । ८८५ ॐ व्याघ्रपुरावासाय नमः । ८८६ ॐ भुक्तिमुक्तिप्रदायकाय नमः । । १५९। ८८७ ॐ जगद्योनये नमः । ८८८ ॐ जगत्साक्षिणे नमः । ८८९ ॐ जगदीशाय नमः । ८९० ॐ जगन्मयाय नमः । ८९१ ॐ जपाय नमः । ८९२ ॐ जपपराय नमः । ८९३ ॐ जप्याय नमः । ८९४ ॐ विद्यासिंहासनप्रभवे नमः । । १६०। ८९५ ॐ तत्त्वानां प्रकृतये नमः । ८९६ ॐ तत्त्वाय नमः । ८९७ ॐ तत्त्वंपदनिरूपिताय नमः । ८९८ ॐ दिक्कालाद्यनवच्छिन्नाय नमः । ८९९ ॐ सहजानन्दसागराय नमः । । १६१। ९०० ॐ प्रकृतये नमः । ९०१ ॐ प्राकृतातीताय नमः । ९०२ ॐ विज्ञानैकरसाकृतये नमः । ९०३ ॐ निःशङ्कमतिदूरस्थाय नमः । ९०४ ॐ चैत्यचेतनचिन्तनाय नमः । । १६२। ९०५ ॐ तारकाणां हृदन्तस्थाय नमः । ९०६ ॐ तारकाय नमः । ९०७ ॐ तारकान्तकाय नमः । ९०८ ॐ ध्यानैकप्रकटाय नमः । ९०९ ॐ ध्येयाय नमः । ९१० ॐ ध्यानिने नमः । ९११ ॐ ध्यानविभूषणाय नमः । । १६३। ९१२ ॐ परस्मै व्योम्ने नमः । ९१३ ॐ परस्मै धाम्ने नमः । ९१४ ॐ परमात्मने नमः । ९१५ ॐ परस्मै पदाय नमः । ९१६ ॐ पूर्णानन्दाय नमः । ९१७ ॐ सदानन्दाय नमः । ९१८ ॐ नादमध्यप्रतिष्ठिताय नमः । । १६४। ९१९ ॐ प्रभाविपर्ययातीताय नमः । ९२० ॐ प्रणताज्ञाननाशकाय नमः । ९२१ ॐ बाणार्चिताङ्घ्रये नमः । ९२२ ॐ बहुदाय नमः । ९२३ ॐ बालकेलिकुतूहलिने नमः । । १६५। ९२४ ॐ ब्रह्मरूपिणे नमः । ९२५ ॐ ब्रह्मपदाय नमः । ९२६ ॐ ब्रह्मविदे नमः । ९२७ ॐ ब्राह्मणप्रियाय नमः । ९२८ ॐ भूक्षेपदत्तलक्ष्मीकाय नमः । ९२९ ॐ भूमध्यध्यानलक्षिताय नमः । । १६६। ९३० ॐ यशस्कराय नमः । ९३१ ॐ रत्नगर्भाय नमः । ९३२ ॐ महाराज्यसुखप्रदाय नमः । ९३३ ॐ शब्दब्रह्मणे नमः । ९३४ ॐ शमप्राप्याय नमः । ९३५ ॐ लाभकृते नमः । ९३६ ॐ लोकविश्रुताय नमः । । १६७। ९३७ ॐ शास्त्रे नमः । ९२८ ॐ शिवाद्रिनिलयाय नमः । ९३९ ॐ शरण्याय नमः । ९४० ॐ याजकप्रियाय नमः । ९४१ ॐ स्ंसारवैद्याय नमः । ९४२ ॐ सर्वज्ञाय नमः । ९४३ ॐ सभेषजविभेषजाय नमः । । १६८। ९४४ ॐ मनोवचोभिरग्राह्याय नमः । ९४५ ॐ पञ्चकोशविलक्षणाय नमः । ९४६ ॐ अवस्थात्रयनिर्मुक्ताय नमः । ९४७ ॐ अवस्थासाक्षितुर्यकाय नमः । । १६९। ९४८ ॐ पञ्चभूतादिदूरस्थाय नमः । ९४९ ॐ प्रत्यगेकरसाय नमः । ९५० ॐ अव्ययाय नमः । ९५१ ॐ षट्चक्रान्तर्गतोल्लासिने नमः । ९५२ ॐ षड्विकारविवर्जिताय नमः । । १७०। ९५३ ॐ विज्ञानघनसम्पूर्णाय नमः । ९५४ ॐ वीणावादनतत्पराय नमः । ९५५ ॐ नीहाराकारगौराङ्गाय नमः । ९५६ ॐ महालावण्यवारिधये नमः । । १७१। ९५७ ॐ पराभिचारशमनाय नमः । ९५८ ॐ षडध्वोपरिसंस्थिताय नमः । ९५९ ॐ सुषुम्नामार्गसंचारिणे नमः । ९६० ॐ बिसतन्तुनिभाकृतये नमः । । १७२। ९६१ ॐ पिनाकिने नमः । ९६२ ॐ लिङ्गरूपश्रिये नमः । ९६३ ॐ मङ्गलावयवोज्ज्वलाय नमः । ९६४ ॐ क्षेत्राधिपाय नमः । ९६५ ॐ सुसंवेद्याय नमः । ९६६ ॐ श्रीप्रदाय नमः । ९६७ ॐ विभवप्रदाय नमः । । १७३। ९६८ ॐ सर्ववश्यकराय नमः । ९६९ ॐ सर्वदोषघ्ने नमः । ९७० ॐ पुत्रपौत्रदाय नमः । ९७१ ॐ तैलदीपप्रियाय नमः । ९७२ ॐ तैलपक्वान्नप्रीतमानसाय नमः । । १७४। ९७३ ॐ तैलाभिषेकसंतुष्टाय नमः । ९७४ ॐ तिलभक्षणतत्पराय नमः । ९७५ ॐ आपादकणिकामुक्ताभूषाशतमनोहराय नमः । । १७५। ९७६ ॐ शाणोल्लीढमणिश्रेणीरम्याङ्घ्रिनखमण्डलाय नमः । ९७७ ॐ मणिमञ्जीरकिरणकिञ्जल्कितपदाम्बुजाय नमः । । १७६। ९७८ ॐ अपस्मारोपरिन्यस्तसव्यपादसरोरुहाय नमः । ९७९ ॐ कन्दर्पतूणाभजङ्घाय नमः । ९८० ॐ गुल्फोदञ्चितनूपुराय नमः । । १७७। ९८१ ॐ करिहस्तोपमेयोरवे नमः । ९८२ ॐ आदर्शोज्ज्वलजानुभृते नमः । ९८३ ॐ विशंकटकटिन्यस्तवाचालमणिमेखलाय नमः । । १७८। ९८४ ॐ आवर्तनाभिरोमालिवलिमत्पल्लवोदराय नमः । ९८५ ॐ मुक्ताहारलसत्तुङ्गविपुलोरस्करञ्जिताय नमः । । १७९। ९८६ ॐ वीरासनसमासीनाय नमः । ९८७ ॐ वीणापुस्तोल्लसत्कराय नमः । ९८८ ॐ अक्षमालालसत्पाणये नमः । ९८९ ॐ चिन्मुद्रितकरांबुजाय नमः । । १८०। ९९० ॐ माणिक्यकङ्कणोल्लासिकराम्बुजविराजिताय नमः । ९९१ ॐ अनर्घरत्नग्रैवेयविलसत्कंबुकन्धराय नमः । । १८१। ९९२ ॐ अनाकलितसादृश्यचुबुकश्रीविराजिताय नमः । ९९३ ॐ मुग्धस्मितपरीपाकप्रकाशितरदाङ्कुराय नमः । । १८२। ९९४ ॐ चारुचांपेयपुष्पाभनासिकापुटरञ्जिताय नमः । ९९५ ॐ वरवज्रशिलादर्शपरिभाविकपोलभुवे नमः । । १८३। ९९६ ॐ कर्णद्वयोल्लसद्दिव्यमणिकुण्डलमण्डिताय नमः । ९९७ ॐ करुणालहरीपूर्णकर्णान्तायतलोचनाय नमः । । १८४। ९९८ ॐ अर्धचन्द्राभनिटिलपाटीरतिलकोज्ज्वलाय नमः । ९९९ ॐ चारुचामीकराकारजटाचर्चितचन्दनाय नमः । १००० ॐ ओं कैलासशिखरस्फर्धिकमनीयनिजाकृतये नमः । । १८५। ॥ इति श्री दक्षिणामूर्ति सहस्रनामावलिः समाप्ता ॥ ॥ ओं तत् सत् ॥ Encoded and proofread by K S Ramachandran
% Text title            : medhAdakShiNAmUrtisahasranAmAvalI (1) 1000 names
% File name             : medhAdakShiNAmUrtisahasranAmAvalI1.itx
% itxtitle              : medhAdakShiNAmUrtisahasranAmAvaliH 1 (devadevAya)
% engtitle              : medhAdakShiNAmUrti sahasranAmAvalI 1
% Category              : sahasranAmAvalI, shiva, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : hinduism/religion
% Transliterated by     : K S Ramachandran
% Proofread by          : K S Ramachandran
% Description-comments  : See corresponding stotra
% Indexextra            : (Scan, info)
% Latest update         : June 28, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org