श्रीमेधादक्षिणामूर्तिसहस्रनामावलिः २

श्रीमेधादक्षिणामूर्तिसहस्रनामावलिः २

ॐ नमो भगवते दक्षिणामूर्तये मह्यं मेधां प्रज्ञां प्रयच्छ स्वाहा । (मन्त्रार्णाद्याक्षरघटिता) (चिदम्बररहस्ये श्रीचिदम्बरनटेश्वर(मन्त्र) तन्त्र संहितायां मेधादक्षिणामूर्तिकल्पे नारदाय ब्रह्मणा उपदिष्टा) मेधादक्षिणवक्त्रमूर्तिमनुराट्-वर्णाष्टसाहस्रके श्रीनाम्नां प्रणवाष्टकं प्रथमतो मूर्त्यैकनिर्मह्यता । यो वर्णः स्वरभाक्च पञ्चदशधा साहस्रक्लृप्तिर्यथा वर्णैमूलमनोः गुरोः सुमदलैः अभ्यर्चने शस्यते ॥ ॐ परस्मै नमः । परानन्दाय । परार्थाय । परात्पराय । मन्त्राय । परातीताय । गुरवे । गुणाश्रिताय । नकारार्थाय । नकारज्ञाय । नरनारायणप्रियाय । नगचापाय । नगाग्रस्थाय । नाथाय । नटनायकाय । नटेशाय । नादमूलान्ताय । नादात्मने । नागभूषणाय । नागोपवीतिने नमः । २० नासाग्र्याय नमः । नव्यहव्याग्रभोजनाय । नदीधराय । नवतनवे । नवतत्त्वाधिनायकाय । नक्षत्रमालिने । नन्दीशाय । नामपारायणप्रियाय । नग्नवेषाय । नवरसाय । नादार्थाय । नमनप्रियाय । नवग्रहेशाय । नन्द्यग्राय । नवान्ताय । नन्दिवाहनाय । नरूपाय । नगुणाय । नान्ताय । न भाष्याय नमः । ४० नविनाशनाय नमः । नदोषाय । नागकौपीनाय । नागाङ्गुलिविभूषणाय । नागहाराय । नागकेशाय । नागकेयूरकङ्कणाय । नभोमयाय । नभोऽग्रान्ताय । नभस्स्थाय । नयनत्रयाय । नभोऽन्तरिक्षभूम्यङ्गाय । नविकाराय । नभावनाय । ननिद्राय । नयनादृश्याय । नत्वाय । नारायणप्रियाय । मोक्षज्ञाय । मोक्षफलदाय नमः । ६० मोक्षार्थाय नमः । मोक्षसाधनाय । मोक्षदाय । मोक्षनाथाय । मोक्षसाम्राज्यभोगदाय । मोक्षग्रहाय । मोक्षवराय । मोक्षमन्दिरदीपकाय । मोहनाय । मोहनाधीशाय । मौल्यग्रेन्दुकलाधराय । मोचिताघाय । मोहनाशाय । मोहशोकार्तिभञ्जनाय । मोहतापसुधावर्षिणे । मोहरोगमहौषधये । मोहवृक्षकुठारिणे । मोहारण्यदवानलाय । मोहान्धकार-मार्ताण्डाय । मोहक्रोधादिसंहराय नमः । ८० मोहशैलमहावज्रिणेनमः । मोहव्यालगरुडाय । मोहवारणपञ्चास्याय । मोहतूलहुताशनाय । मोहबुद्धिविदूरस्थाय । मोहात्मजननिन्दकाय । मोहिनीदोषरहिताय । मोहिनी विष्णुवल्लभाय । मोहिनीलालनाप्रीताय । मोहिनीप्रियवन्दिताय । मोहिनीपूजितपदाय । मौक्तिकादिविभूषणाय । मौक्तिकश्रीमहादिव्यमालिकाभरणोज्वलाय । मौनार्थाय । मौनमुद्राङ्काय । मौनीशाय । मौनचिद्घनाय । मौनचित्ताय । मौनहार्दाय । मौनिमण्डलमध्यगाय नमः । १०० मौनिहृत्कुटनिलयाय नमः । मौनचित्तसभानटाय । मौनाङ्गना-पतये । मौनमहार्णवसुधाकराय । मौनिहत्पङ्कजमधवे । मौनतत्त्वार्थबोधकाय । मौनव्याख्यानचिन्मुद्राकराब्जाय । मौनतत्पराय । भगवते । भवरोगघ्नाय । भवाय । भद्राय । भवोद्भवाय । भवौषधाय । भयापघ्नाय । भस्मोद्धूलितविग्रहाय । भावज्ञाय । भावनातीताय । भारतीश्वरवन्दिताय । भस्मरुद्राक्षभूषाढ्याय नमः । १२० भावाभावविवर्जिताय नमः । भाषार्थाय । भसिताय । भानवे । भर्गाय । भवविमोचनाय । भास्वराय । भरताय । भासाय । भाष्याय । भागवतस्तुताय । भक्तप्रियाय । भक्तवश्याय । भक्तसंस्तुतवैभवाय । भक्तचित्तार्णवेन्दवे । भक्तसायुज्यदायकाय । भाग्यपद्मदिनाधीशाय । भास्करायुतसुप्रभाय । भगमालिने । भस्माङ्गाय नमः । १४० भक्तभव्याय नमः । भयङ्कराय । भयाभयाय । भयध्वंसिने । भवपातकनाशकाय । भववृक्षकुठारिणे । भवतूलधनञ्जयाय । भवान्तकाय । भवातीताय । भवार्तिघ्नाय । भास्कराय । भक्ष्याशनाय । भद्रमूर्तये । भैरवाय । भद्रदायकाय । भक्तार्तिभञ्जनाय । भक्तवत्सलाय । भक्तभद्रदाय । गणेशाय । गणराजे नमः । १६० गण्याय नमः । गम्भीराय । गगनाश्रयाय । गर्वघ्नाय । गर्विताय । गङ्गाधराय । गरलकन्धराय । गणेशजनकाय । गार्ग्याय । गभस्तिने । गवां पत्ये । गाङ्गेयसुप्रियाय । गङ्गावन्दिताय । गरलाशनाय । गौरीपतये । गोक्षीरसुप्रीताय । गव्यमज्जनाय । गव्याभिषेकसन्तुष्टाय । गजारये । गजचर्मधृते नमः । १८० गव्यामृतान्नसुप्रीताय नमः । गव्याज्याहुतिभोजनाय । गवयश‍ृङ्गाभिषेकप्रियाय । गगनसन्निभाय । गाणापत्यजनप्रीताय । गाणापत्यादिसन्मताय । गगनादिपृथिव्यन्तभूतात्मने । गानलोलुपाय । गाढमालिङ्गनानन्द गौरीसम्बोधदेशिकाय । गमनाय । गह्वरेष्ठाय । गालवाय । गतिप्रदाय । गन्धघ्नाय । गन्धरहिताय । गन्धाय । गन्धर्वसंस्तुताय । गन्धपुष्पार्चनप्रीताय । गन्धलिप्तकलेवराय । गन्धाभिषेकसुप्रीताय नमः । २०० गन्धमाल्य-विभूषिताय नमः । गाङ्गेयजनकाय । गद्याय । गण्डमण्डलशोभिताय । गङ्गादिस्नानफलदाय । गजारूढाय । गदाधराय । गणेशस्कन्दनन्दीशविष्णुब्रह्मेन्द्रपूजिताय । वरदाय । वामदेवाय । वामनाय । वसुदायकाय । वाणीसम्बोधनगुरवे । वरिष्ठाय । वामसेविताय । वटवे । वरूथिने । वर्मिणे । वटवासिने । वाक्पतये नमः । २२० वातरोगहराय नमः । वाग्मिने । वाचस्पतिसमर्चिताय । वाचालकाय । वटच्छायासंश्रयाय । वकुलप्रियाय । वर्याय । वराय । वरानन्दाय । वरारोहाय । वरप्रभवे । वटारण्यपतये । वासिने । वरज्ञानविशारदाय । वालिवैरिप्रियाय । वात्याय । वास्तव्याय । वास्तुपाय । वदाय । वदेशाय (वदावदेशाय) नमः । २४० वाचकान्तस्थाय नमः । वसिष्ठादितपोनिधये । वारिजातसुमप्रख्याय । वामदेवमुनिप्रियाय । वनजाक्षार्चितपदाय । वनबिल्वजटाधराय । वनजाङ्घ्रये । वरोत्कृष्टाय । वरोत्साहाय । वरेश्वराय । वराश्चर्याय । वरपतये । वज्रिणे । वज्रेशवन्दिताय । वञ्जुलाय । वञ्चककराय । वशिने । वश्यादिदायकाय । तेतिवर्णात्मकाय । तेत्यक्षरात्मसुसंज्ञकाय नमः । २६० तेत्यर्ण श्रवणप्रीताय नमः । तेत्यक्षरसमाश्रिताय । तेतीत्यक्षरसंयुक्ताय । तेत्यक्षरमनुप्रियाय । तेतिसप्तार्णमन्त्रस्थाय । तेतिवर्णान्तसंस्थिताय । तेतिमन्त्रनटारम्भाय । तेतिमन्त्राग्रसंश्रयाय । तेदिव्यशब्दसङ्क्लृप्ताय । तेतिशब्दान्तरात्मकाय । तेषु तेषु च कालज्ञाय । तेषु तेषु गुणज्ञाय । तेषु तेषु गुणानन्दाय । तेषु तेषु स्तवाङ्किताय । तेषु तेषु मनोऽभिज्ञाय । तेषु तेषु वराधिकाय । तेषु तेषु सुपुण्यज्ञाय । तेषु तेषु स्वधर्मदाय । तैलप्रियाय । तैलदीपप्रियाय नमः । २८० तैलाङ्गमज्जनाय । तैलाभिषिक्ताय । तैलान्नसुप्रियाय । तैलशोभनाय । तैलाज्यपानसन्तुष्टाय । तैलवासाय । तिलान्नभुजे । तैरोभावानुग्रहेशाय । तैरोभाव-गुणात्मकाय । तोरणालङ्कृतानन्दाय । तोरणाङ्कितमन्दिराय । तोरणद्वार संस्थानाय । तोमराद्यायुधान्विताय । तोताद्रीशादिसंस्तुत्याय । तौलसूक्ष्मान्तरात्मकाय । तौष्णींस्तुतिज्ञाय । तौष्णीवत्स्तव-श्रावमनोहराय । तौणीरपुष्पविशिखसन्धानमदनान्तकाय । तं भक्तजनसुप्रीताय । तं भक्तसुमनोहराय नमः । ३०० तं पदध्यानसुलभाय । तं पदाध्यानदुर्लभाय नमः । तत्त्वार्थाय । तत्त्वमूलज्ञाय । तत्त्वाग्राय । तत्त्वबोधिताय । तत्पराय । तत्क्षणे भक्तसर्वाभीष्टफलप्रदाय । दक्षिणाय । दक्षिणामूर्तये । दारपुत्रादिदायकाय । दात्रे । दमनसन्तुष्टाय । दयालवे । दानवान्तकाय । दधीचिमुनिसुप्रीताय । दक्षाध्वरविनाशकाय । दधिप्रियाय । दयासिन्धवे । दाक्षायण्यम्बिकापतये नमः । ३२० दध्यन्नासक्तहृदयाय नमः । दान्ताय । दाशरथिप्रियाय । दध्नाऽभिषिक्ताय । दामाग्र्याय । दन्तिचर्मसुवस्त्रभृते । दामप्रियाय । दशभुजाय । दशार्धमुखपङ्कजाय । दशायुधवरधराय । दशदिक्पालसेविताय । दर्पघ्नाय । दर्भशयनाय । दर्पणोदरभालकाय । दर्भासनाय । दयामूर्तये । दहराकाशमध्यगाय । दामशोभितवक्षोभृते । दाडिमीफलसुप्रियाय । दशदिग्दशनामार्च्याय नमः । ३४० दशवक्त्रतपः प्रियाय नमः । दासप्रियाय । दासपूज्याय । दासादासनिधिप्रदाय । दानरूपाय । दानपुण्याय । दातॄणां फलदायकाय । दलपद्मासनारूढाय । दलत्रयतरुस्थिताय । दलत्रयश्री वृक्षाग्र्याय । दलबिल्वार्चनप्रियाय । दलदूर्वाधराय । दार्ढ्याय । दयाहृदयमन्दिराय । दहनोद्भासिफालाक्षाय । दहनत्रिपुरान्तकाय । दयान्दोलितपूर्णाक्षाय । दक्षिणाभिमुखान्विताय । क्षमारूपाय । क्षमानन्दाय नमः । ३६० क्षमाचित्ताय नमः । क्षमानिधये । क्षमार्णवाय । क्षमापूर्णाय । क्षम्याय । क्षमणनाशकाय । क्षणे क्षणे कृपाचित्ताय । क्षामक्षोभविवर्जिताय । क्षाराद्यब्धिपसंस्तुताय । क्षारादिरसवर्जिताय । क्षणिकार्चनसुप्रीताय । क्षणिकादिमहोरगाय । क्षणिकस्तवसुप्रीताय । क्षणार्धेष्टवरप्रदाय । क्षामघ्नाय । क्षामरहिताय । क्षामदेशसुभिक्षदाय । क्षात्रघ्नाय । क्षात्रशत्रुघ्नाय । क्षात्र सङ्कुल नाशनाय नमः । ३८० क्षिप्रेशाय नमः । क्षिप्रसन्धात्रे । क्षीणपुण्यफलाधिकाय । क्षीणचन्द्र-जटाचूडाय । क्षीणायुरभिवृद्धिदाय । क्षिप्रविघ्नेशजनकाय । क्षित्यन्तरसमाश्रिताय । क्षित्यादिकुटिलाप्रान्तमन्त्रसिंहासन-स्थिताय । क्षुद्रप्रयोगसंहर्त्रे । क्षुद्रवृक्षकुठारिकाय । क्षुद्रा-चलमहावज्रिणे । क्षुद्रकर्मजनान्तकाय । क्षुम्बीजश्रवणानन्दाय । क्षुङ्कारहृदयालयाय । क्षुं क्षूं स्मरणसान्निध्याय । क्षुं क्षुं क्षूं मन्त्रनायकाय । क्षेमालयाय । क्षेमकराय । क्षेमारोग्यफलप्रदाय । क्षेमसम्पत्प्रदात्रे नमः । ४०० क्षेत्रपालसमर्चिताय नमः । क्षेत्रज्ञाय । क्षेत्रफलदाय । क्षेत्राक्षेत्रसुपालकाय । क्षौद्रसाराभिषिक्ताङ्गाय । क्षौद्रसारमनोहराय । क्षों बीजाय । क्षयगुल्मादि सर्वरोगविभञ्जनाय । णकाररूपाय । णार्थार्थाय । णकाराक्षाय । णकारविदे । णकारश‍ृङ्गनिलयाय । नानावर्गफलप्रदाय । णकारबिन्दुमध्यस्थाय । नारदादिमुनिस्तुताय । णाकारान्तादिमध्यस्थाय । नानानिगमसारविदे । णकाराश्वमहावेगाय । नवनीतामृतप्रियाय नमः । ४२० णकारास्याय नमः । णाङ्कजिह्वाय । णभालतिलकोज्ज्वलाय । णकारवचनानन्दाय । नानाश्चर्यसुमण्टपाय । णकारनिगमार्थज्ञाय । नागभूषणभूषिताय । णकारागमतत्त्वज्ञाय । नानासुरमुनिस्तुताय । णादशाक्षरसंयुक्ताय । नानागणसमावृताय । नवान्ताक्षरनादान्ताय । नवबिल्वसदाप्रियाय । नमादिपञ्चार्णमयाय । नवसिद्धसमर्चिताय । नवोनवेत्यायुष्यदाय । नवशक्त्युपदेशकाय । नागेन्द्राङ्गुलिवलयिने । नागवल्लीदलप्रियाय । नामसहस्रसुप्रीताय नमः । ४४० नानानन्तसुसंज्ञिताय नमः । नानावाद्यारवान्तस्स्थाय । नानाशब्दान्तरात्मकाय । नानाफलरसप्रीताय । नालिकेरामृतप्रियाय । नानाविकाररहिताय । नानालङ्कार शोभिताय । नारङ्गसुफलानन्दाय । नारायणविधिस्तुताय । नानानरकसम्मग्नसमुद्भरणपण्डिताय । नादियान्ताक्षरमनवे । नादिपञ्चाक्षरात्मकाय । नमकैश्चमकैः स्तुत्याय । नाद्यन्ताय । नयनत्रयाय । नतृप्ताय । नित्यसन्तृप्ताय । नाकारनयनद्युतये । मूर्ताय । मूर्तीश्वराय नमः । ४६० मूर्तये नमः । मूर्तिसादाख्यकारणाय । मूर्तिमूलात्मकाय । मूर्तिभेदाय । मूर्तिद्वयात्मकाय । मूर्तित्रयाय । मूर्तिवराय । मूर्तिपञ्चस्वरूपधृते । मूर्तिषट्काय । मूर्त्यष्टात्मने । मूर्तभिन्नविनायकाय । मूर्तिद्विपञ्चकतनवे । मूर्त्येकादशात्मकाय । मूर्तिद्वादशपुरीशाय । मूर्तामूर्तान्तरात्मकाय । मूर्तित्रयोदशीपूज्याय । मूर्तिपञ्चदशीमनवे । मूर्तामूर्तद्विभेदाय । मूर्तिषोडशनामधृते । मूर्त्यात्मपञ्चविंशाङ्काय नमः । ४८० मूर्तिषट्त्रिंशदुज्जवलाय नमः । मूर्त्यष्टाष्टकरूपिणे । मूर्तिरुद्रशताग्रगाय । मूर्तिसाहस्ररुद्रेशाय । मूर्तिकोट्यधिकावृताय । मूर्त्यन्ताय । मूर्तिमध्यस्थाय । मूर्त्यग्र्याय । मूर्तिदेशिकाय । मूर्त्याद्यन्तादिरहिताय । मूर्त्यानन्दैकचिन्मयाय । मूर्तिब्रह्मणे । मूर्तिबेराय । मूषिकारूढसुप्रियाय । मूलमूर्तये । मूलगुरवे । मूलशक्तये । मूल्यकाय । मूढपापविनिर्मुक्ताय । मूकदोषविभञ्जनाय नमः । ५०० मूर्खारिणे नमः । मूलपापघ्नाय । मूलतोऽरिकुलान्तकाय । मूलासुरकुलध्वंसिने । मूर्खदन्तप्रभिन्नकाय । मूलवातादिरोगघ्नाय । मूलर्क्षारब्धपापभिदे । मूर्तामूर्तादिसकललिङ्गनिष्कलतत्पराय । एकाक्षराय । एकनाथाय । एकान्ताय । एकमोक्षदाय । एकासनाय । एकपराय । एकार्धाय । एणहस्तकाय । एकमुद्राकराय । एकतत्त्वार्थाङ्कितपुस्तकाय । एषणात्रयदोषघ्नाय । एकतारकमध्यगाय नमः । ५२० एकदन्तप्रियाय नमः । एकानन्दमोक्षसुखप्रदाय । एकास्याय । एकसन्तुष्टाय । एलादिवसुसुप्रियाय । एकेश्वराय । एकवीराय । एकज्योतिषे । एकधिये । एकाग्रगण्याय । एकाम्राय । एकपदे । एकसिद्धिदाय । एकानेकाय । एकरसाय । एकाङ्गिने । एकसुन्दराय । एकदन्ताय । एकशक्तये । एकचिदे नमः । ५४० एकवल्लभाय नमः । एकाक्षरज्ञाय । एकाग्राय । एकाक्षरकलात्मकाय । एकप्रभवे । एकविभवे । एकबुद्धये । एकभुजे । एकधीराय । एकशूराय । एकविदे । एकनिश्चलाय । एकनित्याय । एकदृढाय । एकसत्याय । एकजाय । एकाधिपत्यवरदाय । एकसाम्राज्यमोक्षदाय । मेधाप्रदाय । मेरुगर्भाय नमः । ५६० मेरुस्थाय नमः । मेरुमन्दिराय । मेरुश‍ृङ्गाग्रगाय । मेध्याय । मेधाविने । मेदिनीपतये । मेघश्यामाय । मेघनाथाय । मेघवाहनवन्दिताय । मेषाधिरूढविनुताय । मेषराशीश्वरार्चिताय । म्लेच्छकोपाय । म्लेच्छहराय । म्लेच्छसम्पर्कदोषभिदे । म्लेच्छारये । म्लेच्छदहनाय । म्लेच्छसङ्घविनाशकाय । मेढुष्टमाय । मेरुभुजाय । मेरुवाण्यभिवन्दिताय नमः । ५८० मेरुपार्श्वाय नमः । मेखलाढ्याय । मेरुगर्वविभेदनाय । मेघाङ्घ्रये । मेधावसनाय । मेधाज्ञानप्रदायकाय । मेधामन्त्रासनारूढाय । मेधाविद्याप्रबोधकाय । मेधाविद्याधिपाय । मेधामहासारस्वत-प्रदाय । मेषास्यवरदर्पघ्नाय । मेषास्यक्रतुनाशकाय । मेषास्य चमकस्तोत्रतुष्टाय । मेषाननप्रियाय । मेषास्यजनकाह्लादाय । मेषाननपितृस्तुताय । मेदिनीकान्तभूतात्मने । मेदिनीपालनप्रदाय । मेदिन्यब्ध्यन्तसुखदाय । मेदिनीपतिवल्लभाय नमः । ६०० मेदिन्यादित्रिलोकेशाय नमः । मेदिनीवल्लभार्चिताय । मेदिनीखान्तसम्पूर्णाय । मेधार्थाय । मेरुवन्दिताय । मेरुकोदण्डगम्भीराय । मेधार्चिषे । मेखलान्विताय । धर्माय । धर्मासनाय । धर्मिणे । धर्मधाम्ने । धराधिपाय । धाराभिषेकसन्तुष्टाय । धराधरपतेः पत्ये । धर्मेष्टाय । धर्मवाहाय । धारणाद्यष्टयोगदाय । धात्रे । धात्रीश्वराय नमः । ६२० धान्यधनभूषणदायकाय नमः । धर्माध्यक्षाय । धनाध्यक्षाय । धर्मज्ञाय । धर्मपालकाय । धर्मालयाय । धर्मवृत्ताय । धर्मिष्ठाय । धर्मसूचकाय । धनेशमित्राय । धरित्रीदायकाय । धनाय । धातुलिङ्गार्चनप्रीताय । धात्रीशार्धकलेवराय । धन्विने । धनाधिपाय । धारिणे । धाराशङ्काभिषिक्तकाय । धीप्रज्ञाय । धीरसम्पूज्याय नमः । ६४० धीप्राज्ञाय नमः । धिषणात्मकाय । धीप्रभाय । धीमतये । धियो धिये । धीरभक्तजनप्रियाय । धुत्तरकुसुमप्रीताय । धूपदीपमनोहराय । धूमादिग्रहदोषघ्नाय । धूर्जटये । धूम्रवासभृते । धेनुमुद्राप्रियाय । धेनुवत्सलाय । धेनुवन्दिताय । धैर्यप्रदाय । धैर्यवीर्याय । धैन्धीङ्कृतनटाङ्घ्रिकाय । प्रभवे । प्रभाकराय । प्राज्ञाय नमः । ६६० प्रभामण्डलमध्यगाय नमः । प्रसिद्धाय । प्रणवाकाराय । प्रयोगार्थाय । प्रचेतसे । प्रमुखाय । प्रणवप्राणाय । प्राणदाय । प्रणवात्मकाय । प्रवीणाय । प्रवराय । प्राच्याय । प्राचीनाय । प्राणवल्लभाय । प्राणात्मने । प्रबलाय । प्राणिने । प्राङ्मुखाय । प्रार्थनाय । प्रजाय नमः । ६८० प्रजापतये नमः । प्रमाणज्ञाय । प्रकटाय । प्रमथाधिपाय । प्रारम्भाय । प्रमथारूढाय । प्रासादाय । प्राणरक्षकाय । प्रभाकराय । प्रतापिने । प्राज्ञाय । प्रकरणाय । प्रधिये । प्राप्तये । प्राकाम्यसिद्धेशाय । प्रलापज्ञाय । प्रभुप्रभवे । प्रमाथिने । प्रमात्रे । प्रमोदाय नमः । ७०० प्रज्वलाय नमः । प्रसुवे । प्रकोपाय । प्रकृतये । पृथ्व्यै । प्रातः । प्राकृतरक्षणाय । ज्ञानाय । ज्ञानप्रदाय । ज्ञात्रे । ज्ञानिने । ज्ञानविग्रहाय । ज्ञानार्थदाय । ज्ञानरूपिणे । ज्ञानेशाय । ज्ञानपुष्कलाय । ज्ञानानन्दाय । ज्ञानचक्षुषे । ज्ञानधिये । ज्ञानभक्तिदाय नमः । ७२० ज्ञानार्थाय नमः । ज्ञाननिगमाय । ज्ञानास्याय । ज्ञानसङ्ग्रहाय । ज्ञानसाक्षिणे । ज्ञानपुण्याय । ज्ञानाग्राय । ज्ञानसुन्दराय । ज्ञानाधिकाय । ज्ञानमुद्राय । ज्ञानज्ञाय । ज्ञानकौतुकाय । ज्ञानपूर्णाय । ज्ञाननिधये । ज्ञानकृते । ज्ञानमन्दिराय । ज्ञानमन्त्राय । ज्ञानमयाय । ज्ञातृज्ञानविवर्धकाय । ज्ञानामृताय नमः । ७४० ज्ञानदीपाय नमः । ज्ञानविदे । ज्ञानविद्रुमाय । ज्ञानपुष्पाय । ज्ञानगन्धाय । ज्ञानविज्ञानमङ्गलाय । ज्ञानाचलाय । ज्ञानभानवे । ज्ञानाद्रये । ज्ञानसम्भ्रमाय । ज्ञानभुवे । ज्ञानसम्पन्नाय । ज्ञानेच्छाय । ज्ञानसागराय । ज्ञानाम्बराय । ज्ञानभावाय । ज्ञानाज्ञानप्रबोधकाय । प्रत्येकाय । प्रथमारम्भाय । प्रजृम्भाय नमः । ७६० प्रकृतीपतये नमः । प्रतिपन्मुखदर्शान्ततिथिराश्यृक्ष पूजिताय । प्रार्थनाफलसम्पूर्णाय । प्रार्थितार्थफलप्रदाय । प्रद्युम्नाय । प्रभवाद्यब्दवन्दिताय । प्रमथप्रभवे । प्रमथवृन्दविनुताय । प्रमथवृन्दशोभिताय । प्रमथवृन्दसम्मुखाय । प्रमथवृन्दमध्यगाय । प्रमथार्चितयुग्माङ्घ्रये । प्रमथस्तुतवैभवाय । प्रमथस्तुतिसन्तृप्ताय । प्रमथानन्दघोषिताय । प्रमथद्वारगर्भान्तप्रमथेशानपालिताय । प्रमथवृन्दसंप्रीताय । प्रमथाधिष्ठितालयाय । प्रधानपुरुषाकाराय । प्रधानपुरुषार्थदाय नमः । ७८० प्रधानपुरुषाध्यक्षाय नमः । प्रधानपुरुषप्रियाय । प्रधानवनितार्धाङ्गाय । प्रत्येकं पौरुषप्रदाय । प्रधानलिङ्गमूलस्थाय । प्रधानपरमेश्वराय । प्रधानब्रह्मभूतात्मने । प्रधानब्रह्मदेशिकाय । प्रधानब्रह्मतत्त्वार्थाय । प्रधानब्रह्मतत्पराय । प्रधानब्रह्मतत्वज्ञाय । प्रधानब्रह्मचर्यभृते । प्रधानब्रह्मरन्ध्रान्ताय । प्रधानब्रह्मपीठकाय । प्रधानलिङ्गसम्भूताय । प्रथमावरणाश्रिताय । प्रथमावरणे याम्यदिङ्मुखाय । प्रकटाद्भुताय । प्रज्वालाग्निप्रतीकाशाय । प्रज्वलार्कायुतप्रभाय नमः । ८०० प्रभेन्दुकोटिसदृशाय नमः । प्रतिवक्त्रं त्रिलोचनाय । प्रयासभक्तरहिताय । प्रयासार्थलघुप्रदाय । प्रयागाद्यखिलसरित्स्नानपुण्यफलप्रदाय । प्रभावसम्पद्विभवप्रदाय । प्रारब्धनाशनाय । यथार्थाय । यजमानार्थाय । यज्ञभुजे । यज्ञसाधनाय । यज्ञकर्त्रे । यज्ञभर्त्रे । यज्ञेशाय । यज्ञभोजनाय । यशस्कराय । यशस्विने । यज्ञेष्टाय । यज्ञनाशनाय । याज्ञवल्क्यमुनिप्रीताय नमः । ८२० यज्ञकोटिफलप्रदाय नमः । यज्ञोपवीतिने । यज्ञेशवन्दिताय । यशःप्रदाय । याजुषाय । याजुषाधीशाय । यजुर्वेदमनुप्रियाय । यमान्तकाय । यमभयध्वंसिने । याम्यमुखोज्वलाय । यमुनालीजटाजूटाय । यमानुजसमर्चिताय । यन्त्राय । यन्त्रालयाय । यन्त्रिणे । यन्त्रमन्त्राधिनायकाय । यतीश्वराय । यतिप्रीताय । यवान्नप्रीतमानसाय । यथार्थभक्तसुलभाय नमः । ८४० यथार्थफलदायकाय नमः । यथार्थजनसन्तुष्टाय । यथार्थपरमेश्वराय । यानाश्वगजसन्दात्रे । यातनादुःखनाशनाय । याचनाय । याचकार्थाय । याचिताय । याचितार्थदाय । याचकार्थातिसन्तुष्टाय । यजुस्साममनुप्रियाय । यामायामादिसम्पूज्याय । यामिनीपूजकेष्टदाय । यक्षेश्वराय । यक्षराजप्रियाय । यक्षेशवन्दिताय । यक्षराक्षसपैशाच-ब्रह्मरक्षोनिकृन्तनाय । छन्दोमयाय । छन्दोविदे । छन्दज्ञाय नमः । ८६० छन्दसां पत्ये नमः । छन्दस्साराय । छन्दोभुवे । छन्दसां भेदबोधकाय । छन्दस्तत्त्वार्थनिलयाय । छन्दः किङ्किणिमालिकाय । छन्नवीराङ्किताय । छत्रचामरादिपरीवृताय । छत्रप्रदाय । छत्रधराय । छत्रैकविभवप्रदाय । छत्रदानप्रियाय । छत्रव्यजनादि सुपूजिताय । छायापतिसहस्राभाय । छायावल्लभपूजिताय । छायादेवी स्तुतानन्दाय । छायानन्दनवन्दिताय । छायावृक्षच्छिदोऽघघ्नाय । छायानाथद्युतिप्रदाय । छायाबिल्वद्रुमूलस्थाय नमः । ८८० छायारण्यान्तरगृहाय नमः । छायादलोत्पन्नशीताय । छायामारुतसौख्यदाय । छायापातकसंहर्त्रे । छायादोषनिवारणाय । छायापञ्चकपापघ्नाय । छायासुतकृतार्चनाय । छायापतिसुतार्तिघ्नाय । छिन्नभिदे । छिन्नसंशयाय । छिन्नाभिन्नाय । छिदार्तिघ्नाय । छिदौघाय । छिन्नकोपनाय । छिन्नकालाय । छिन्नकलाय । छिन्नमस्तावरप्रदाय । छिन्नक्ष्वेलाय । छिन्नगूढाय । छेदितासुरकाननाय नमः । ९०० छेदितारिकुलग्रामाय । छिन्नमृत्युभयङ्कराय । छिन्नदक्षक्रतवे । छिनपत्रवर्यार्चनप्रियाय । छविच्छन्नाय । छटात्काराय । छायावटसमाश्रिताय । स्वामिने । स्वतन्त्राय । स्वाधीनाय । स्वाहाकाराय । स्वधार्मिकाय । स्वकर्त्रे । स्वामिनाथाय । स्वस्थाय । स्वातन्त्र्यवल्लभाय । स्वशक्तये । स्वकार्यार्थाय । स्वःपत्ये । स्वस्य कारणाय नमः । ९२० स्वयं प्रभवे नमः । स्वयं ज्योतिषे । स्वं ब्रह्मणे । स्वं परायणाय । स्वात्मज्ञाय । स्वमनोधर्माय । स्वयं देवाय । स्वयं परस्मै । स्वं स्वं देवाय । स्वस्वनाथाय । स्ववीराय । स्वसुन्दराय । स्वयं सिद्धाय । स्वयं साध्याय । स्वयंवराय । स्वकर्मविदे । स्वयं बुद्धये । स्वयं सिद्धये । स्वयम्भुवे । स्वयङ्गुणाय नमः । ९४० स्वाध्यायाय नमः । स्वधनाय । स्वापाय । स्वपतये । स्वमनोहराय । स्वरूपज्ञाय । स्वपरावराय । स्वयं रूपाय । स्वरूपकाय । स्वरूपाय । स्वयं जाताय । स्वयं मात्रे । स्वयं पित्रे । स्वयं गुरवे । स्वयं धात्रे । स्वयं स्वाहा । स्वयं स्वधा । हल्लकेशाय । हकारार्थाय । हंसः सोऽहं सुमन्त्रविदे नमः । ९६० हंसमन्त्रार्थतत्त्वेशाय नमः । हंसार्थाय । हाटकेश्वराय । हालास्यनाथाय । हरिणीटङ्कधारिणे । हरिप्रियाय । हास्यभस्मीकृतपुराय । हाटकादिनिधिप्रदाय । हारोरगाय । हंसवादाय । हरिकेशोपवीतकाय । हाटकाद्रिमहाचापाय । हरिब्रह्मेन्द्रवन्दिताय । हानिदुःखविनाशिने । हानिवृद्धिविवर्जिताय । हयग्रीवार्चितपदाय । हरिसोदरिनायकाय । हव्यप्रदाय । हविर्भोक्त्रे । हालाहलधराय नमः । ९८० हराय नमः । हरिब्रह्मशिरोवृन्दकिङ्किणीदाम भूषिताय । हरिशब्दाय । हरानन्दाय । हठात्कारासहाय । हविषे । हन्त्रे । हंसाय । हनीयसे । हम्बीजाय । हङ्कृतये । हरये । हत्यादिपापसंहर्त्रे । हयेभशिबिकाप्रदाय । हर्म्येशाय । हर्म्यकूटस्थाय । हर्म्यगोपुरमन्दिराय । हाहेतिशब्दशमनाय । हास्यशोभि-मुखाम्बुजाय । हालाहलविषोत्पन्नकालदेवाभयप्रदाय नमः । १००० हारचम्पककल्हारनीपशम्याकभूषिताय नमः । हारकेयूरमकुटभूषालङ्कृतविग्रहाय । हस्तिद्विपञ्चनिर्व्यूढशूलवज्रादि सुप्रभाय । हरिश्वेतवृषारूढाय । हाटकश्रीसभापतये । हर्षप्रदाय । हरहरिब्रह्मेन्द्रपरमेश्वराय । श्री मेधादक्षिणामूर्तये नमः । १००८ इति श्रीमेधादक्षिणामूर्तिमन्त्रार्णाद्यात्मकाष्टोत्तरसहस्रनामानि । ॐ नमो भगवते दक्षिणामूर्तये मह्यं मेधां प्रज्ञां प्रयच्छ स्वाहा । ॐ तत्पुरुषाय विद्महे विद्यावासाय धीमहि । तन्नो दक्षिणामूर्तिः प्रचोदयात् । Proofread by Aruna Narayanan narayanan.aruna gmail.com
% Text title            : Shri MedhadakShinamUrti Sahasranamavali (2) 1000 names
% File name             : medhAdakShiNAmUrtisahasranAmAvalI2.itx
% itxtitle              : medhAdakShiNAmUrtisahasranAmAvaliH 2 (parasmai)
% engtitle              : Shri MedhadakshinamurtisahasranamavaliH 2
% Category              : sahasranAmAvalI, shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : Aruna Narayanan narayanan.aruna gmail.com
% Indexextra            : (Scan, Info)
% Latest update         : June 28, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org