मुनिभिः कृतं रुद्रस्तोत्रम्
मुनय ऊचुः ।
त्वामेकमीशं पुरुषं पुराणं प्राणेश्वरं रुद्रमनन्तयोगम् ।
नमाम सर्वे हृदि सन्निविष्टं प्रचेतसं ब्रह्ममयं पवित्रम् ॥ १॥
त्वां पश्यन्ति मुनयो ब्रह्मयोनिं दान्ताः शान्ता विमलं रुक्मवर्णम् ।
ध्यात्वाऽऽत्मस्थमचलं स्वे शरीरे कविं परेभ्यः परमं परं च ॥ २॥
त्वत्तः प्रसूता जगतः प्रसूतिः सर्वात्मभूस्त्वं परमाणुभूतः ।
अणोरणीयान् महतो महीयांस्त्वामेव सर्वं प्रवदन्ति सन्तः ॥ ३॥
हिरण्यगर्भो जगदन्तरात्मा त्वत्तोऽधिजातः पुरुषः पुराणः ।
सञ्जायमानो भवता विसृष्टो यथाविधानं सकलं ससर्ज ॥ ४॥
त्वत्तो वेदाः सकलाः सम्प्रसूतास्त्वय्येवान्ते संस्थितिं ते लभन्ते ।
पश्यामस्त्वां जगतो हेतुभूतं नृत्यन्तं स्वे हृदये सन्निविष्टम् ॥ ५॥
त्वयैवेदं भ्राम्यते ब्रह्मचक्रं मायावी त्वं जगतामेकनाथः ।
नमामस्त्वां शरणं सम्प्रपन्ना योगात्मानं चित्पतिं दिव्यनृत्यम् ॥ ६॥
पश्यामस्त्त्वां परमाकाशमध्ये नृत्यन्तं ते महिमानं स्मरामः ।
सर्वात्मानं बहुधा सन्निविष्टं ब्रह्मानन्दमनुभूयानुभूय ॥ ८॥
ओङ्कारस्ते वाचको मुक्तिबीजं त्वमक्षरं प्रकृतौ गूढरूपम् ।
तत्त्वां सत्यं प्रवदन्तीह सन्तः स्वयम्प्रभं भवतो यत्प्रभावम् ॥ ८॥
स्तुवन्ति त्वां सततं सर्ववेदाः नमन्ति त्वामृषयः क्षीणदोषाः ।
शान्तात्मानः सत्यसन्धं वरिष्ठं विशन्ति त्वां यतयो ब्रह्मनिष्ठाः ॥ ९॥
एको वेदो बहुशाखो ह्यनन्तस्त्वामेवैकं बोधयत्येकरूपम् ।
वन्द्यं त्वां ये शरणं सम्प्रपन्नास्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ १०॥
भवानीशोऽनादिमांस्तेजोराशिर्ब्रह्मा विश्वं परमेष्ठी वरिष्टः ।
स्वात्मानन्दमनुभूय विशन्ते स्वयं ज्योतिरचलो नित्यमुक्ताः ॥ ११॥
एको रुद्रस्त्वं करोषीह विश्वं त्वं पालयस्यखिलं विश्वरूपम् ।
त्वामेवान्ते निलयं विन्दतीदं नमामस्त्वां शरणं सम्प्रपन्नाः ॥ १२॥
त्वामेकमाहुः कविमेकरुद्रं ब्रह्मं बृहन्तं हरिमग्निमीशम् ।
इन्द्रं मृत्युमनिलं चेकितानं धातारमादित्यमनेकरूपम् ॥ १३॥
त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् ।
त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषोत्तमोऽसि ॥ १४॥
त्वमेव विष्णुश्चतुराननस्त्वं
त्वमेव रुद्रो भगवानपीशः ।
त्वं विश्वनाथः प्रकृतिः प्रतिष्ठा
सर्वेश्वरस्त्वं परमेश्वरोऽसि ॥ १५॥
त्वामेकमाहुः पुरुषं पुराण-
मादित्यवर्णं तमसः परस्तात् ।
चिन्मात्रमव्यक्तमचिन्त्यरूपं
खं ब्रह्म शून्यं प्रकृतिं निर्गुणं च ॥ १६॥
यदन्तरा सर्वमिदं विभाति यदव्ययं निर्मलमेकरूपम् ।
किमप्यचिन्त्यं तव रूपमेतत्तदन्तरा यत्प्रतिभाति तत्त्वम् ॥ १७॥
योगेश्वरं भद्रमनन्तशक्तिं परायणं ब्रह्मतनुं पुराणम् ।
नमाम सर्वे शरणार्थिनस्त्वां प्रसीद भूताधिपते महेश ॥ १८॥
त्वत्पादपद्मस्मरणादशेषसंसारबीजं निलयं प्रयाति ।
मनो नियम्य प्रणिधाय कायं प्रसादयामो वयमेकमीशम् ॥ १९॥
नमो भवायास्तु भवोद्भवाय कालाय सर्वाय हराय तुम्यम् ।
नमोऽस्तु रुद्राय कपर्दिने ते नमोऽग्नये देव नमः शिवाय ॥ २०॥
इति श्रीकूर्मपुराणे पञ्चमाध्यायान्तर्गतं
मुनिभिः कृतं रुद्रस्तोत्रं समाप्तम् ॥
कूर्मपुराणे उत्तरभागे ५/२१-४०
Also in adbhutarAmAyaNa adhyAya 15
by Hanuman referring to Ram.
Called HanumatkritaH stavarAjaH
Pरूफ़्रेअद् ब्य् Pषा Eअस्वरन्