मुनिभिः कृतं शिवस्तोत्रम्
निरीक्ष्य ते जगन्नाथं त्रिनेत्रं चन्द्रभूषणम् ।
तुष्टबुर्हृष्टमनसो भक्त्या तं परमेश्वरम् ॥ १॥
मुनय ऊचुः ।
जयेश्वर महादेव जय भूतपते शिव ।
जयाशेषमुनीशान तपसाऽभिप्रपूजित ॥ २॥
सहस्रमूर्ते विश्वात्मन् जगद्यन्त्रप्रवर्त्तक ।
जयानन्त जगज्जन्मत्राणसंहारकारक ॥ ३॥
सहस्रचरणेशान शम्भो योगीन्द्रवन्दित ।
जयाम्बिकापते देव नमस्ते परमेश्वर ॥ ४॥
इति श्रीकूर्मपुराणे उत्तरभागे प्रथमाध्यायान्त्गतं
मुनिभिः कृतं शिवस्तोत्रं समाप्तम् ।
कूर्मपुराणे उत्तरभागे १/३२-३५
Proofread by PSA Easwaran