श्रीनटराजहृदयभावनासप्तकम्
ॐ श्रीगणेशाय नमः ।
कामशासनमाश्रितार्तिनिवारणैकधुरन्धरं
पाकशासनपूर्वलेखगणैः समर्चितपादुकम् ।
व्याघ्रपादफणीश्वरादिमुनीशसंघनिषेवितं
चित्सभेशमहर्निशं हृदि भावयामि कृपाकरम् ॥ १॥
यक्षराक्षसदानवोरगकिन्नरादिभिरन्वहं
भक्तिपूर्वकमत्युदारसुगीतवैभवशालिनम् ।
चण्डिकामुखपद्मवारिजबान्धवं विभुमव्ययं
चित्सभेशमहर्निशं हृदि भावयामि कृपाकरम् ॥ २॥
कालपाशनिपीडितं मुनिबालकं स्वपदार्चकं
ह्यग्रगण्यमशेषभक्तजनौघकस्य सदीडितम् ।
रक्षितुं सहसावतीर्य जघान यच्छमनं च तं
चित्सभेशमहर्निशं हृदि भावयामि कृपाकरम् ॥ ३॥
भीकरोदकपूरकैर्भुवमर्णवीकरणोद्यतां
स्वर्धुनीमभिमानिनीमतिदुश्चरेण समाधिना ।
तोषितस्तु भगीरथेन दधार यो शिरसा च तं
चित्सभेशमहर्निशं हृदि भावयामि कृपाकरम् ॥ ४॥
योगिनः सनकादयो मुनिपुंगवा विमलाशयाः
दक्षिणाभिमुखं गुरुं समुपास्य यं शिवमादरत् ।
सिद्धिमापुरनूपमांतमनन्यभावयुतस्त्वहं
चित्सभेशमहर्निशं हृदि भावयामि कृपाकरम् ॥ ५॥
क्षीरसागरमन्थनोद्भवकालकूटमहाविषं
निग्रहीतुमशक्यमन्यसुरासुरैरपिबोऽर्थितः ।
रक्षति स्म जगत्त्रयं सविलासमेव निपीय तं
चित्सभेशमहर्निशं हृदि भावयामि कृपाकरम् ॥ ६॥
सर्वदेवमयं यमेव भजन्ति वैदिकसत्तमाः
ज्ञानकर्मविबोधकाः सकलागमाः श्रुतिपूर्वकाः ।
आहुरेव यमीशमादरतश्च तं सकलेश्वरं
चित्सभेशमहर्निशं हृदि भावयामि कृपाकरम् ॥ ७॥
॥ इति शिवम् ॥
Encoded by Sivakumar Thyagarajan shivakumar24 at gmail.com
Proofread by Sivakumar Thyagarajan, PSA Easwaran