श्रीनटेशाष्टोत्तरशतनामावलिः

श्रीनटेशाष्टोत्तरशतनामावलिः

श्रीनटराजध्यानम् । नटेश्वरं सुन्दरवन्दिताङ्घ्रीं जटेन्दुगङ्गालसदुत्तमाङ्गम् । घटोद्भवादिस्तुतवैभवाङ्घ्रीं चिदम्बरेशं हृदि भावयामि ॥ ध्यायेत्कोटिरविप्रभं त्रिनयनं शीतांशुगङ्गाधरं दक्षाङ्घ्रिस्थितवामकुञ्चितपदं शार्दूलचर्मोद्धृतम् । वह्निं डोलकराभयं डमरुकं वामे स्थितां श्यामलां कह्लारां जपसृक्शुकां कटिकरां देवीं सभेशीं भजे ॥ ॐ कृपासमुद्रं सुमुखं त्रिनेत्रं जटाधरं पार्वतिवामभागम् । सदाशिवं रुद्रमनन्तरूपं चिदम्बरेशं हृदि भावयामि ॥ अथ श्रीनटराजाष्टोत्तरशतनामावलिः । ॐ चिदम्बरेश्वराय नमः । ॐ हेमसभेशाय नमः । ॐ चित्सभेश्वराय नमः । ॐ चिदम्बरसभानाथाय नमः । ॐ चिदम्बरसभापतये नमः । ॐ चिदम्बरपुराधीशाय नमः । ॐ चिदम्बरसभानटाय नमः । ॐ सभेश्वराय नमः । ॐ सभामूर्तये नमः । ॐ ससम्राजे नमः । १० ॐ सदसस्पतये नमः । ॐ चिद्रूपाय नमः । ॐ नटेशाय नमः । ॐ नटनायकाय नमः । ॐ सभामणवे नमः । ॐ सभादीप्ताय नमः । ॐ नटराजे नमः । ॐ ताण्डवेश्वराय नमः । ॐ पुण्डरीकपुराधीशाय नमः । ॐ पुण्डरीकपुरेश्वराय नमः । २० ॐ पुण्डरीकरुचये नमः । ॐ वन्द्याय नमः । ॐ पुण्डरीकाक्षसेविताय नमः । २० ॐ तिल्वरुद्राय नमः । ॐ महारुद्राय नमः । ॐ नर्तकाय नमः । ॐ नृत्तसुन्दराय नमः । ॐ पञ्चाक्षराय नमः । ॐ परस्मैज्योतिषे नमः । ॐ सुन्दरानन्दताण्डवाय नमः । ३० ॐ आनन्दनटनाधीशाय नमः । ॐ सच्चिदानन्दविग्रहाय नमः । ॐ व्योमव्योम्ने नमः । ॐ व्योमकेशाय नमः । ॐ चिन्महाव्योमताण्डवाय नमः । ॐ अम्बराधीश्वराय नमः । ॐ हंसाय नमः । ॐ कुञ्चिताङ्घ्रे नमः । ॐ चिदम्बराय नमः । ॐ तिल्ववासाय नमः । ४० ॐ चिदीशाय नमः । ॐ विराजे नमः । ॐ तिल्ववनाधिपाय नमः । ॐ त्रैलोक्यसुन्दराय नमः । ॐ तिल्ववनाय नमः । ॐ तिल्वपुरीश्वराय नमः । ॐ व्याघ्रचर्मधराय नमः । ॐ व्याघ्रपुरेशाय नमः । ॐ व्याघ्रपादप्रियाय नमः । ॐ कृपानिधये नमः । ५० ॐ महाकालाय नमः । ॐ व्याघ्रपादप्रपूजिताय नमः । ॐ मन्त्रविग्रहाय नमः । ॐ ॐकाराय नमः । ॐ सिंहवर्माप्रपूजिताय नमः । ॐ जटाधराय नमः । ॐ ललाटाक्षाय नमः । ॐ पतञ्जलिवरप्रदाय नमः । ॐ अपस्मारहाराय नमः । ॐ सर्पभूषणाय नमः । ६० ॐ फणिराट्प्रियाय नमः । ॐ महाकामेश्वराय नमः । ॐ वज्रेश्वराय नमः । ॐ प्रासादविग्रहाय नमः । ॐ आनन्दताण्डवाय नमः । ॐ रत्नपादाय नमः । ॐ सुन्दरताण्डवाय नमः । ॐ हरिप्रियाय नमः । ॐ हराय नमः । ॐ शम्भवे नमः । ७० ॐ ईश्वराय नमः । ॐ जैमिनिप्रियाय नमः । ॐ मणिनूपुरपादाय नमः । ॐ श्रीचक्रवासाय नमः । ॐ उमापतये नमः । ॐ त्रिलोचनाय नमः । ॐ शूलपाणवे नमः । ॐ भूतेशाय नमः । ॐ वृषभध्वजाय नमः । ॐ श्रीचक्रप्रियाय नमः । ८० ॐ उग्राङ्गाय नमः । ॐ त्रिपुराय नमः । ॐ त्रिपुरेश्वराय नमः । ॐ मन्त्रमूर्तये नमः । ॐ सभाचक्राय नमः । ॐ मन्त्रराजे नमः । ॐ चक्रविग्रहाय नमः । ॐ परप्रकाशाय नमः । ॐ शिवकामिसुन्दराय नमः । ॐ परात्पराय नमः । ९० ॐ परमेशाय नमः । ॐ सर्वेशाय नमः । ॐ श्रीमदभ्रसभेश्वराय नमः । ॐ महेश्वराय नमः । ॐ महादेवाय नमः । ॐ शङ्कराय नमः । ॐ चन्द्रशेखराय नमः । ॐ ईशानाय नमः । ॐ तत्पुरुषाय नमः । ॐ अघोराय नमः । १०० ॐ वामदेवाय नमः । ॐ सद्योजाताय नमः । ॐ सदाशिवाय नमः । ॐ भुवनेशाय नमः । ॐ विश्वनाथाय नमः । ॐ शिवाय नमः । ॐ त्रिपुरारये नमः । ॐ सुन्दराय नमः । १०८ इति श्रीनटेशाष्टोत्तरशतनामावलिः समाप्ता । NA
% Text title            : Shrimat Nateshashtottarashatanamavali
% File name             : naTeshAShTottarashatanAmAvalI.itx
% itxtitle              : naTeshAShTottarashatanAmAvalI
% engtitle              : naTeshAShTottarashatanAmAvalI
% Category              : aShTottarashatanAmAvalI, shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : NA
% Source                : Shivanamamanjari 2 page 412
% Latest update         : October 21, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org