श्रीनटेशस्तवः

श्रीनटेशस्तवः

ह्रीमत्या शिवया विराण्मयमजं हृत्पङ्कजस्थं सदा ह्रीणाना शिवकीर्तने हितकरं हेलाहृदा मानिनाम् । होबेरादिसुगन्धवस्तुरुचिरं हेमाद्रिबाणासनं ह्रीङ्कारादिकपादपीठममलं हृद्यं नटेशं भजे ॥ १॥ श्रीमज्ज्ञानसभान्तरे प्रविलसच्छ्रीपञ्चवर्णाकृति श्रीवाणीविनुतापदाननिचयं श्रीवल्लभेनार्चितम् । श्रीविद्यामनुमोदिनं श्रितजनश्रीदायकं श्रीधरं श्रीचक्रान्तरवासिनं शिवमहं श्रीमन्नटेशं भजे ॥ २॥ नव्याम्भोजमुखं नमज्जननिधिं नारायणेनार्चितं नाकौकोनगरीनटीलसितकं नागादिनालङ्कृतम् । नानारूपकनृत्तनादिचतुरं नालीकजान्वेषितं (नर्तनादिचतुरं) नादात्मानमहं नगेन्द्रतन्यानाथं नटेशं भजे ॥ ३॥ मध्यस्थं मधुवैरिमार्गितपदं मद्वंशनाथं प्रभुं मारातीतमतीव मञ्जुवपुषं मन्दारगौरप्रभम् । मायातीतमशेषमङ्गलनिधिं मद्भावनाभावितं मध्येव्योमसभागुहान्तमखिलाकाशं नटेशं भजे ॥ ४॥ शिष्टैः पूजितपादुकं शिवकरं शीतांशुरेखाधरं शिल्पं भक्तजनावने शिथिलिताघौघं शिवायाः प्रियम् । शिक्षारक्षणमम्बुशा सनशिरोबं हारशीलप्रभुं (रक्षणमम्बुजा सनशिरस्सं) शीतापाङ्गविलोचनं शिवमहं श्रीमनटेशं भजे ॥ ५॥ वाणीवल्लभवन्द्यवैभवयुतं वन्दारुचिन्तामणिं वाताशाधिपभूषणं परकृपावारान्निधिं योगिनाम् । वाञ्छापूर्तिकरं बलारिविनुतं वाहीकृताम्नायकं वामङ्गात्तवराङ्गना मम हृदावासं नटेशं भजे ॥ ६॥ (वामङ्गात्तवराङ्गनं) यक्षाधीशसखं यमप्रमथनं यामिन्यधीशासनं यज्ञध्वंसकरं यतीन्द्रविनुतं यज्ञक्रियादीश्वरम् । याज्यं याजकरूपिणं यमधनैर्यत्नोपलभ्याङ्घ्रिकं वाजीभूतवृषं सदा हृदि ममायत्तं नटेशं भजे ॥ ७॥ (या जीभूत) मायाश्रीविलसच्चिदम्बरमहापञ्चाक्षरैरङ्कितान् श्लोकान् सप्त पठन्ति येऽनुदिवसं चिन्तामणीनामकान् । तेषां भाग्यमनेकमायुरधिकान् विध्यध्वरान् सत्सुतान् (विद्वद्वरान्) सर्वाभीष्टमसौ ददाति सहसा श्रीमत्सभाधीश्वरः ॥ ८॥ इति श्रीनटेशस्तवः सम्पूर्णः । Proofread by Gopalakrishnan
% Text title            : Shri Natesha Stava 06 23
% File name             : naTeshastavaH.itx
% itxtitle              : naTeshastavaH
% engtitle              : naTeshastavaH
% Category              : shiva, aShTaka
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Gopalakrishnan
% Description/comments  : From stotrArNavaH 06-23
% Indexextra            : (Scan)
% Latest update         : September 18, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org