श्रीनटेशस्तवः
ह्रीमत्या शिवया विराण्मयमजं हृत्पङ्कजस्थं सदा
ह्रीणाना शिवकीर्तने हितकरं हेलाहृदा मानिनाम् ।
होबेरादिसुगन्धवस्तुरुचिरं हेमाद्रिबाणासनं
ह्रीङ्कारादिकपादपीठममलं हृद्यं नटेशं भजे ॥ १॥
श्रीमज्ज्ञानसभान्तरे प्रविलसच्छ्रीपञ्चवर्णाकृति
श्रीवाणीविनुतापदाननिचयं श्रीवल्लभेनार्चितम् ।
श्रीविद्यामनुमोदिनं श्रितजनश्रीदायकं श्रीधरं
श्रीचक्रान्तरवासिनं शिवमहं श्रीमन्नटेशं भजे ॥ २॥
नव्याम्भोजमुखं नमज्जननिधिं नारायणेनार्चितं
नाकौकोनगरीनटीलसितकं नागादिनालङ्कृतम् ।
नानारूपकनृत्तनादिचतुरं नालीकजान्वेषितं (नर्तनादिचतुरं)
नादात्मानमहं नगेन्द्रतन्यानाथं नटेशं भजे ॥ ३॥
मध्यस्थं मधुवैरिमार्गितपदं मद्वंशनाथं प्रभुं
मारातीतमतीव मञ्जुवपुषं मन्दारगौरप्रभम् ।
मायातीतमशेषमङ्गलनिधिं मद्भावनाभावितं
मध्येव्योमसभागुहान्तमखिलाकाशं नटेशं भजे ॥ ४॥
शिष्टैः पूजितपादुकं शिवकरं शीतांशुरेखाधरं
शिल्पं भक्तजनावने शिथिलिताघौघं शिवायाः प्रियम् ।
शिक्षारक्षणमम्बुशा सनशिरोबं हारशीलप्रभुं (रक्षणमम्बुजा सनशिरस्सं)
शीतापाङ्गविलोचनं शिवमहं श्रीमनटेशं भजे ॥ ५॥
वाणीवल्लभवन्द्यवैभवयुतं वन्दारुचिन्तामणिं
वाताशाधिपभूषणं परकृपावारान्निधिं योगिनाम् ।
वाञ्छापूर्तिकरं बलारिविनुतं वाहीकृताम्नायकं
वामङ्गात्तवराङ्गना मम हृदावासं नटेशं भजे ॥ ६॥ (वामङ्गात्तवराङ्गनं)
यक्षाधीशसखं यमप्रमथनं यामिन्यधीशासनं
यज्ञध्वंसकरं यतीन्द्रविनुतं यज्ञक्रियादीश्वरम् ।
याज्यं याजकरूपिणं यमधनैर्यत्नोपलभ्याङ्घ्रिकं
वाजीभूतवृषं सदा हृदि ममायत्तं नटेशं भजे ॥ ७॥ (या जीभूत)
मायाश्रीविलसच्चिदम्बरमहापञ्चाक्षरैरङ्कितान्
श्लोकान् सप्त पठन्ति येऽनुदिवसं चिन्तामणीनामकान् ।
तेषां भाग्यमनेकमायुरधिकान् विध्यध्वरान् सत्सुतान् (विद्वद्वरान्)
सर्वाभीष्टमसौ ददाति सहसा श्रीमत्सभाधीश्वरः ॥ ८॥
इति श्रीनटेशस्तवः सम्पूर्णः ।
Proofread by Gopalakrishnan