श्रीनमश्शिवाष्टकम् २
आद्याय सर्वजगतामखिलेष्टदाय
नित्याय निर्जितसुरासुरवैभवाय ।
कुन्देन्दुगौरवपुषे कुसुमास्त्रहन्त्रे
देवाय भक्तवरदाय नमः शिवाय ॥ १॥
गङ्गाधराय गरुडध्वजवन्दिताय
गौरीसखाय करुणामृतसागराय ।
उद्गातने (?) कुसुमकर्बुरकन्धराय
पूर्णाय पुष्करकचाय नमः शिवाय ॥ २॥
संसारसागरसमुत्तरणप्लवाय
सोमानलार्कनयनाय सुरार्चिताय ।
दुष्कर्मघर्मजलदाय दुरासदाय
दुष्टात्मनां पुरहराय नमः शिवाय ॥ ३॥
वेदाय वेदनिलयाय विदां वराय
विज्ञानमात्रवपुषे विविधात्मकाय ।
यज्ञान्तकाय यजतामभयप्रदाय
यज्ञार्चिताय गिरिशाय नमः शिवाय ॥ ४॥
यन्नाम जन्तुरवशोऽपि गृणन् कदाचित्
यामीं न याति भयदामिह यातनालिम् ।
तस्मै जरामरणजन्मभयातिगाय
गन्धर्वगीतयशसेऽस्तु नमः शिवाय ॥ ५॥
नान्तं च मध्यमथवादिमजः स चाहं
विष्णुस्तथैव यमितेन्द्रियचेतसोऽपि ।
जानन्ति सन्मुनिवराश्च तथामरेशाः
गन्धर्वगीतयशसेऽस्तु नमः शिवाय ॥ ६॥
भूतेश्वराय भुजगेन्द्रविभूषणाय
भूतित्रयाय भुवनाधिपवन्दिताय ।
पीताम्बरप्रियसखाय पिनाकदोष्णे
नानाविचित्रगतयेऽस्तु नमः शिवाय ॥ ७॥
रुद्राय भद्रचरिताय महोक्षगाय
शूलाभयानि मृगचर्मपराङ्कुशाय (?) ।
पादानतार्तिदलनाय पलाशिहन्त्रे
मृत्युञ्जयाय विजयाय नमः शिवाय ॥ ८॥
॥ इति श्रीनमश्शिवाष्टकं सम्पूर्णम् ॥
Proofread by Aruna Narayanan