नववर्णमाला
नववर्णरत्नमाला
॥श्रीः॥
॥ श्री सदाशिवब्रह्मेन्द्रविरचिता ॥
ओंकारैकनिरूप्यं पङ्कजभवनादिभावितपदाब्जम् ।
किंकरकैरवशशिनं शंकरमेकं कलये॥ १॥
ऐन्द्रं पदमपि मनुते नैव वरं यस्य पदरजःस्पर्शात् ।
सान्द्रसुखोदधिमेकं चन्द्रकलोत्तंसमीशमासेवे॥ २॥
नागेशकृत्तिवसनं वागीशाद्यैकवन्दिताङ्घ्रियुगम् ।
भोगीशभूषिताङ्गं भागीकृतसर्वमङ्गलं नौमि॥ ३॥
नगराजशिखरवासिनं अगजामुखकुमुदकौमुदीनिकरम् ।
गगनशिरोरुहमेकं निगमशिरस्तन्त्रविदितमवलंबे॥ ४॥
मन्दस्मितलसदाननं इन्दुकलोत्तंसमम्बिकासचिवम् ।
कंदर्पकोटिशतगुण-सुन्दरदिव्याकृतिं शिवं वन्दे॥ ५॥
मस्तक नम कमलांघ्रिं संस्तुहि भो वाणि वरगुणोदारम् ।
हस्तयुगार्चय शर्वं स्वस्थो निवसामि निजमहिम्न्यमुना॥ ६॥
क्लिन्नेक्षणमतिकृपया संनुतमहिमानमागमशिरोभिः ।
तं नौमि पार्वतीशं पन्नगवरभूषणोज्ज्वलकराब्जम्॥ ७॥
वटविटपिनिकटनिलयं कुटिलजटाघटितहिमकरोदारम् ।
कटिलसितकरटिकृत्तिं निटिलाम्बकमेकमालंबे॥९॥
वामाङ्ककलितकान्तं कामान्तकमादिदैवतं दान्तम् ।
भूमानन्दघनं तद्धाम किमप्यन्तरान्तरं भाति॥ १०॥
यदपाङ्गितात्प्रबोधात्पदमलभेऽखण्डितात्ममात्रमहम् ।
सदयं सांबशिवं तं मदनान्तकमादिदैवतं नौमि॥ ११॥
सौस्नातिकममृतजलैः सुस्मितवदनेन्दुसमुदितदिगन्तम् ।
संस्तुतममरगणैस्तं निस्तुलमहिमानमानतोऽस्मि शिवम्॥ १२॥
नववर्णमालास्तुतिमेतामादिदेशिकेन्द्रस्य ।
धारयतः स्याद्भुक्तिः सकलकलावाप्तिरथ परा मुक्तिः॥ १३॥
॥ इति श्री सदाशिवब्रह्मेन्द्रविरचिता नववर्णमाला संपूर्णा॥
Endoded by N. Balasubramanian